Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 309
________________ • नियतिप्राधान्योपदर्शनम् • द्वात्रिंशिका-१७/२६ स नियामकत्वञ्चात्र तत्त्वतो नियतेरेव विज्ञेयम् । यथोक्तं पार्श्वनाथचरित्रे उदयवीरगणिभिः न प्रकारः कोऽप्यस्ति येन सा भवितव्यता । छायेव निजदेहस्य लंघ्यते हन्त जन्तुभिः ।। ← (पार्श्व.च.द्वि.सर्ग. पृ.४५) इति । यथोक्तं पञ्चतन्त्रे अपि प्राप्तव्यो नियतिबलाऽऽश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः।। ← (पं.तं.२/१५२ ) इति । वैराग्यकल्पलतायां अपि बुद्धिरुत्पद्यते ताद्ग् व्यवसायश्च तादृशः । सहायास्तादृशाः ज्ञेया यादृशी भवितव्यता ।। ← (वै.क.ल. ३/१८५) इत्युक्तम् । इत्थमेव दैव- पुरुषकाराऽविरोधः परमार्थतः सङ्गच्छते । तदुक्तं विंशिकायां १२०४ एवं जेणेव जहा होयव्वं तं तहेव होइ त्ति । न य दिव्व-पुरिसगारा वि हंदि एवं विरुज्झति ।। जो दिव्वेणक्खित्तो तहा तहा हंत पुरिसगारो त्ति । तत्तो फलमुभयजमवि भण्णइ खलु पुरिसगाराओ ।। एएण मीसपरिणामिए उ जं तम्मि तं च दुगजण्णं । दिव्वाउ नवरि भण्णइ, निच्छयओ उभयजं सव्वं ।। इराणक्खित्तो सो होइ त्ति अहेउओ निओएणं । इत्तो तदपरिणामो किंचि तम्मत्तज्जं न तया ।। इय समयनीइजोगा इयरेयरसंगया उ जुज्जंति इहं दिव्व - पुरिसगारा पहाण- गुणभावओ दो वि ।। ← (विं. ५/१०-१३,१५) इति । 'निच्छयओ' परमार्थत इत्यर्थः, न तु निश्चयनयतः, तन्मतस्य पूर्वं (पृ. ११५२) उक्तत्वात् / 1 / । = यद्यपि औत्पत्तिक्यादिबुद्धिनिबन्धनबुद्धिमद्भक्त्यादिहेतुभूतकल्याणमित्रयोगसम्पादककुशलानुबन्धिकर्मोपधायकस्य तथाभव्यत्वस्य चरमावर्त्तवशप्रादुर्भूताऽऽत्मवीर्योल्लासात्मकपुरुषकाराऽधीनत्वमेव → भत्ती बुद्धिमंताण तह य बहुमाणओ य एएसिं । अपओस-पसंसाओ एयाण वि कारणं जाण ।। कल्लाणमित्तजोगो एयाणमिमस्स कम्मपरिणामो । अणहो तहभव्वत्तं तस्सवि तहपुरिसकारजुयं ।। ← (उप.प.१६२,१६३) इति उपदेशपदवचनात् । न हि सर्वेषां भव्यानां विद्यमानं तथाभव्यत्वं तथाविधपुरुषकारविकलं सत् प्रकृतकर्मपरिणामहेतुतया सम्पद्यते तथापि अनिवर्तनीयनियतेः प्राधान्यं सुनयाऽर्पितं न शक्यते पराकर्तुम् । न खलु शक्यतेऽवश्यम्भाविनां भवितव्यता- कालपरिणत्यादीनां कार्यविशेषाणां वा निराकरणं कर्तुम् । न चैवं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी, व्यवहारतः विमृश्यकारिप्रयासस्योचितत्वात्, यतः पुरुषेण हि सर्वत्र पुरुषाऽपराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः । तदर्थं हि तत्प्रवृत्तिः, यतो नाऽऽकलयत्यसौ तदा भाविकार्यपरिणामं, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव। किं च, चिन्तितं चानेन यदुताहं न प्रवर्ते तथाप्यसावप्रवर्तमानो नाऽऽसितुं लभते, यतः कर्मपरिणामादिकारणसामग्र्या वेतालाविष्ट इव हठात्प्रवर्तते एव । न चाकिञ्चित्करः पुरुषः, किं तर्हि ? स एव प्रधानः, तदुपकरणत्वात्कर्मपरिणामादीनां न च पादप्रसारिका श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेर्हिताऽहितनिर्वर्तनाऽपवर्तनक्षमत्वात्, निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजने न विधेयौ हर्ष-विषादौ, समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमिति भावनया विधेयो मध्यस्थभावः । न चैतच्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यम्भाविनः कार्यस्य कुतोऽन्यथाकरणं ? नियता हि निश्चयाऽऽकूतेन नियतकारणसामग्रीजन्या च सकलकालं तथैवाऽनन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गाऽन्तरङ्गकार्यपर्यायमाला । सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378