Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
• चरमावर्तेऽपि कदाचिदात्मदौर्बल्यम् •
१२०३ बलादिसद्भावे कर्माण्यपि जीववशानि - (बृ.क.भा.२६९० वृत्ति) इति। एतेन चरमावर्तकाले जीवस्य बलीयस्त्वे कथं न सर्वेषामेव चरमावर्तवर्तिनामात्मनामेकदैवाऽत्युत्कटवीर्योल्लासप्रादुर्भावः ? इति निरस्तम्, कालानयापेक्षया चरमावर्तवर्तिनां जीवानां कर्मतो बलीयस्त्वेऽपि भावनयाऽपेक्षया कदाचिद् दुर्बलताया अपि सम्भवात् । एतेन → कत्थइ जीवो बलिओ कत्थइ कम्माइं होंति बलियाई । एएण कारणेणं सव्वेसि न वीरिउक्करिसो ।। - (धर्म.सं.७८०) इति धर्मसङ्ग्रहण्या वचनमपि व्याख्यातम् । फलबलसिद्धमिदम् । अत एव श्रावकप्रज्ञप्तौ उमास्वातिवाचकैः → कत्थइ जीवो बलिओ कत्थइ कम्माइ हुंति बलियाइं । जम्हा जंता सिद्धा चिटुंति भवंमि वि अणंता ।। - (श्रा.प्र.१०१) इति कथितम् । प्रकृते च → न दैववादाद् भव दीनचेताः विस्फोरयोत्साहितयाऽऽत्मवीर्यम् । आश्चर्यभूतं प्रतिपत्स्यसे त्वं साफल्यमुच्छिद्य समग्रविघ्नान् ।। (अ.तत्त्वा.८/४६) इति अध्यात्मतत्त्वालोके न्यायविजयस्य सदुक्तिरपि भावस्याद्वादप्राधान्यपरतयाऽवसेया।
एतेन → तं तु न विज्जइ सझं जं धिइमंतो न साहेइ - (बृ.क.भा. १३५७) इति बृहत्कल्पभाष्यवचनमपि व्याख्यातम् । → परमं पौरुषं यत्नमास्थायाऽऽदाय सूद्यमम् । यथाशास्त्रमनुद्वेगमाचरन् को न सिद्धिभाक् ।। - (महो.५/८८) इति महोपनिषद्वचनमप्यत्र संवदति । प्रकृते → शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ।। अशुभेषु समाविष्टं शुभेष्वेवाऽवतारयेत् । अशुभात् चालितं याति शुभं तस्मादपीतरत् ।। - (यो.वा.मुमुक्षुप्रक.९/ ३०-३१,रा.गी.६/३१-३२, मु.२/५-६,) इति योगवाशिष्ठस्य, रामगीतायाः, शुक्लयजुर्वेदीयाया मुक्तिकोपनिषदश्च वचनं यथातन्त्रमनुयोज्यम् ।
वस्तुतोऽन्तरङ्गभावबहिरङ्गयत्नलक्षणपुरुषकार-शुभाऽशुभदैव-साधकबाधककालाद्यनुसार्येव फलमिति ध्येयम् । अत्र च → दैवं पुरुषकारश्च कालश्च पुरुषोत्तम !। त्रयमेतन्मनुष्यस्य पिण्डितं स्यात् फलाऽऽवहम् ।। - (म.पु.२११/८) इति मत्स्यपुराणवचनमप्यवधेयम् । एवमेव क्वचिदुभयोरेव दैवपुरुषकारयोर्दुर्बलत्वेऽपि कार्योदयाऽवश्यम्भावे नियत्या बलवत्त्वमभ्युपगन्तव्यम् । तदुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिः → अथोपसर्जनौ एव भावाऽभावौ ततः तयोः प्रधानेनाऽन्येनाऽवश्यं भवितव्यम्, तदभावे प्रवृत्त्यभावात् । दृष्टा हि प्रवृत्तिरबलयोर्बलवदाश्रया ८ (द्वा.न.च.पृ-७४१) इति । 'भावाभावौ = दैव-पुरुषकारो, अन्येन = नियतिलक्षणेने'त्यर्थः ।
વિશેષાર્થ :- જો પુરુષાર્થ બળવાન હોય તો પુરુષાર્થ બાધક બને તથા કર્મ બાધ્ય બને. તેમ જ જો કર્મ બળવાન હોય તો કર્મ બાધક બને તથા ઉદ્યમ બાધ્ય બને. આ વાત સામાન્ય રીતે કરી. પરંતુ ચરમાવર્ત કાળમાં તો પુરુષાર્થ જ બળવાન હોવાથી મોટા ભાગે તે કર્મને અટકાવવાનું, ક્લિષ્ટ કર્મની ફળજનનશક્તિને કુંઠિત કરવાનું કામ કરે છે. પ્રાયઃ શબ્દના પ્રયોજનરૂપે “ચરમાવર્તમાં કર્મ નિકાચિત હોય તો કર્મ બળવાન બને એવું જણાવવાના બદલે “અત્યંત તીવ્ર સંકલેશની અવસ્થામાં ચરમાવત કાળ દરમ્યાન ક્યારેક કર્મ બળવાન બને છે. આવું જણાવેલ છે.આ ખૂબ અગત્યની વાત છે. કર્મ નિકાચિત હોય કે ન હોય, આપણા પક્ષે જવાબદારી છે તીવ્ર સંકલેશમાં નહિ તણાવાની. જો તીવ્ર સંકલેશ કરીને અવળો પુરુષાર્થ ન કરીએ, સવળો પુરુષાર્થ તીવ્ર કરીએ તો નિકાચિત કર્મ પણ આત્માને भयं४२ नुसान पाया30 शत। नथी. ा पात ध्यानमा रामवी. (१७/२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378