________________
• नियतिप्राधान्योपदर्शनम् •
द्वात्रिंशिका-१७/२६
स
नियामकत्वञ्चात्र तत्त्वतो नियतेरेव विज्ञेयम् । यथोक्तं पार्श्वनाथचरित्रे उदयवीरगणिभिः न प्रकारः कोऽप्यस्ति येन सा भवितव्यता । छायेव निजदेहस्य लंघ्यते हन्त जन्तुभिः ।। ← (पार्श्व.च.द्वि.सर्ग. पृ.४५) इति । यथोक्तं पञ्चतन्त्रे अपि प्राप्तव्यो नियतिबलाऽऽश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः।। ← (पं.तं.२/१५२ ) इति । वैराग्यकल्पलतायां अपि बुद्धिरुत्पद्यते ताद्ग् व्यवसायश्च तादृशः । सहायास्तादृशाः ज्ञेया यादृशी भवितव्यता ।। ← (वै.क.ल. ३/१८५) इत्युक्तम् । इत्थमेव दैव- पुरुषकाराऽविरोधः परमार्थतः सङ्गच्छते । तदुक्तं विंशिकायां
१२०४
एवं जेणेव जहा होयव्वं तं तहेव होइ त्ति । न य दिव्व-पुरिसगारा वि हंदि एवं विरुज्झति ।। जो दिव्वेणक्खित्तो तहा तहा हंत पुरिसगारो त्ति । तत्तो फलमुभयजमवि भण्णइ खलु पुरिसगाराओ ।। एएण मीसपरिणामिए उ जं तम्मि तं च दुगजण्णं । दिव्वाउ नवरि भण्णइ, निच्छयओ उभयजं सव्वं ।। इराणक्खित्तो सो होइ त्ति अहेउओ निओएणं । इत्तो तदपरिणामो किंचि तम्मत्तज्जं न तया ।। इय समयनीइजोगा इयरेयरसंगया उ जुज्जंति इहं दिव्व - पुरिसगारा पहाण- गुणभावओ दो वि ।। ← (विं. ५/१०-१३,१५) इति । 'निच्छयओ' परमार्थत इत्यर्थः, न तु निश्चयनयतः, तन्मतस्य पूर्वं (पृ. ११५२) उक्तत्वात् / 1 /
।
=
यद्यपि औत्पत्तिक्यादिबुद्धिनिबन्धनबुद्धिमद्भक्त्यादिहेतुभूतकल्याणमित्रयोगसम्पादककुशलानुबन्धिकर्मोपधायकस्य तथाभव्यत्वस्य चरमावर्त्तवशप्रादुर्भूताऽऽत्मवीर्योल्लासात्मकपुरुषकाराऽधीनत्वमेव → भत्ती बुद्धिमंताण तह य बहुमाणओ य एएसिं । अपओस-पसंसाओ एयाण वि कारणं जाण ।। कल्लाणमित्तजोगो एयाणमिमस्स कम्मपरिणामो । अणहो तहभव्वत्तं तस्सवि तहपुरिसकारजुयं ।।
← (उप.प.१६२,१६३) इति उपदेशपदवचनात् । न हि सर्वेषां भव्यानां विद्यमानं तथाभव्यत्वं तथाविधपुरुषकारविकलं सत् प्रकृतकर्मपरिणामहेतुतया सम्पद्यते तथापि अनिवर्तनीयनियतेः प्राधान्यं सुनयाऽर्पितं न शक्यते पराकर्तुम् । न खलु शक्यतेऽवश्यम्भाविनां भवितव्यता- कालपरिणत्यादीनां कार्यविशेषाणां वा निराकरणं कर्तुम् । न चैवं सर्वथा पादप्रसारिकैवात्र श्रेयस्करी, व्यवहारतः विमृश्यकारिप्रयासस्योचितत्वात्, यतः पुरुषेण हि सर्वत्र पुरुषाऽपराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः । तदर्थं हि तत्प्रवृत्तिः, यतो नाऽऽकलयत्यसौ तदा भाविकार्यपरिणामं, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव। किं च, चिन्तितं चानेन यदुताहं न प्रवर्ते तथाप्यसावप्रवर्तमानो नाऽऽसितुं लभते, यतः कर्मपरिणामादिकारणसामग्र्या वेतालाविष्ट इव हठात्प्रवर्तते एव । न चाकिञ्चित्करः पुरुषः, किं तर्हि ? स एव प्रधानः, तदुपकरणत्वात्कर्मपरिणामादीनां न च पादप्रसारिका श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेर्हिताऽहितनिर्वर्तनाऽपवर्तनक्षमत्वात्, निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चात्प्रयोजने न विधेयौ हर्ष-विषादौ, समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमिति भावनया विधेयो मध्यस्थभावः । न चैतच्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यम्भाविनः कार्यस्य कुतोऽन्यथाकरणं ? नियता हि निश्चयाऽऽकूतेन नियतकारणसामग्रीजन्या च सकलकालं तथैवाऽनन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गाऽन्तरङ्गकार्यपर्यायमाला । सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org