________________
• दैव-पुरुषकारे दिगम्बरमतसमीक्षा •
१२०५ तयैव परिपाट्या तान्येव च कारणान्यासाद्याऽऽविर्भवति, कुतस्तस्यामन्यथाभावः ? (उप.भ. प्र.४/पृ.४२९) इति व्यक्तमुक्तं सिद्धर्षिगणिवरैः उपमितिभवप्रपञ्चायां कथायां चतुर्थे प्रस्तावे इति विभावनीयमाकलिताऽऽगमिककारणकलापैः । एतेन → यद्यपि यद् भवितव्यं तदेव भवति तथापि शुभाशयफलत्वात् शोभनार्थेषु आशंसा विधेया - (प्र.सारो.१५९८ वृ.) इति तत्त्वज्ञानविकाशिन्यां प्रवचनसारोद्धारवृत्ती श्रीसिद्धसेनसूरिवचनमपि व्याख्यातम्, नियत्यादेरज्ञातत्वेनाऽस्माभिः सदाशयात् सत्प्रयत्नस्यैव कर्तव्यत्वात् । प्रतिकूलनियति-कालादिज्ञानेऽपि दशाविशेषे नन्दिषेणादिवत् सदाशयात् सत्प्रयत्नस्य कर्तव्यताऽपि तीर्थकृत्सम्मता । प्रकृते → यद्यप्यमुष्मान्न परोऽस्ति दैवात् कुर्यात् तथापीह नरो नृकारम् । उद्दीपयेत् कर्मकरो नकाराद्दीपितं कर्म करोति लक्ष्मीः ।। 6 (बृ.परा.१२/७७) इति बृहत्पराशरस्मृतिवचनं, → पुरुषार्थबलेनैव कालाद्याः सर्वहेतवः । सानुकूलाः प्रजायन्ते जीवानां कर्मसिद्धये ।। - (म.गी.१५/ ९५) इति च महावीरगीतावचनमपि पूर्वोक्तं(पृ.११७४) यथातन्त्रमनुयोज्यम् । ___दिगम्बरास्तु अतर्कितोपस्थितमनुकूलं प्रतिकूलं वा दैवकृतम्, बुद्धिपूर्वापेक्षाऽपायात् । तद्विपरीतं पौरुषाऽऽपादितं बुद्धिपूर्वव्यपेक्षाऽनपायादित्याहुः । तदुक्तं आप्तमीमांसायां समन्तभद्राचार्येण → अबुद्धिपूर्वापेक्षायामिष्टाऽनिष्टं स्वदैवतः। बुद्धिपूर्वव्यपेक्षायामिष्टाऽनिष्टं स्वपौरुषात् ।। - (आ.मी. ९१) इति । अत्र अबुद्धिपूर्वापेक्षायामित्यादिव्यवस्थापनेऽपि पाक्षिकदैवपुरुषकारैकान्तप्रसङ्गादनेकान्तव्याप्तिभङ्गः, बुद्धिपूर्वके कृष्यादौ दैवजन्यत्वस्याऽबुद्धिपूर्वके वाऽभ्रविकारादौ यत्नजन्यत्वस्य व्यभिचारात् । पूर्वं गौणप्रधानभावेन सर्वत्रोभयजन्यत्वं साधयित्वा पश्चादयमेकतरहेतुप्राधान्यापेक्षया पाक्षिको विभाग इति चेत्, तर्हि स्यात् सर्वं दैवकृतमित्यादौ सर्वपदोपादानानुपपत्तिः। सामान्यहेतुत्वाऽपेक्षया ते भङ्गा इति चेत्, तर्हि तेषु बुद्धिपूर्वाऽपेक्षादिहेत्वभिधानाऽनुपपत्तिः, अव्यापकत्वात्, सर्वत्र यथाकथञ्चिदेवपुरुषकारोभयकृतत्वस्य प्रामाणिकत्वे च घटे दण्डचक्रोभयजन्यत्ववदेक एव भङ्गः स्यात्, युगपदुभयजन्यत्वादेरेकवाक्यतया वक्तुं शक्यत्वात्, न्यूनाऽधिकव्यापारवत्त्वस्याऽपि साधारण्येनोभयत्राऽविशेषात्, विविक्तस्य च तस्य पाक्षिकभङ्गसाक्षित्वात् । ____ तस्मात् 'पुवकयं कम्मं चिय, चित्तविवागमिह भन्नई दिव्यं । कालाइएहिं तप्पायणं तु तह पुरिसगारुत्ति ।।” (विंशिका ५/१४) इति श्रीहरिभद्राचार्योक्तरीत्या कालादिकृतकर्मविपाकपरिणामस्वरूपस्य पुरुषकारस्य तत्त्वतो दैवव्यापारत्वसिद्धेापारेण व्यापारिणोऽन्यथासिद्धत्वाऽनन्यथासिद्धत्वयोर्व्यवहारनिश्चयाऽधीनत्वात्तद्विवक्षाकृताः ‘स्यात् सर्वं दैवकृतमि'त्यादयः सप्त भङ्गा द्रष्टव्याः । मोक्षे ज्ञानजन्यत्व-क्रियाजन्यत्वसप्तभङ्गीकरणेऽस्या एवोपायत्वात् । अत एव परमार्थतः सर्वत्र नियताऽनियतेऽपि वस्तुन्याजीविकसमयप्रसिद्धं नियतिजन्यत्वमुपमृद्य पुरुषकारजन्यत्वं भगवद्वचोऽनुसारिभिर्व्यवस्थाप्यते, मतान्तरहेतोर्नयस्य नयान्तरेण खण्डनस्याऽपि शास्त्राऽर्थत्वात् । नियताऽनियतसप्तभङ्गीप्रवृत्तौ तु नियतिजन्यताग्राहकोऽपि नय आश्रीयते एव, दाहकोऽपि वह्निरिव पाकादाविति तत्र तत्र व्यवस्थितम् । अथवा दैवशब्देन कालादिचतुष्टयं गृह्यते, पौरुषशब्देन चाऽऽत्मप्रयत्नः, तत्कृतत्वं च तदव्यवहितोत्तरक्षणोत्पत्तिकत्वं तच्छब्दार्थश्च सामग्रीप्रविष्टो वाच्य इति तत्त्वाऽविनिर्गमात् ‘स्यादेवकृतं सर्वमि'त्यादिसप्तभङ्गीप्रवृत्तिरविरुद्धा। ईदृशविवक्षामहिम्ना ‘स्याद्दण्डजन्यो घटः, स्याच्चक्रजन्य' इत्यादिसप्तभङ्गीप्रवृत्तेरपि सम्भ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org