________________
१२०६
• प्रबलयत्नवशादेव ग्रन्थिभेदः • द्वात्रिंशिका-१७/२७ एवं च ग्रन्थिभेदोऽपि यत्नेनैव बलीयसा । औचित्येन प्रवृत्तिः स्यादूर्ध्वं तस्यैव चोदनात् ।।२७।।
एवं चेति । एवं च = चरमावर्ते यत्नस्य बलीयस्त्वे च ग्रन्थिभेदोऽपि, किं पुनर्दैवबाधेत्यपिशब्दार्थः, यत्नेनैव बलीयसा = अतिशयवता । वादेकस्वभावेनोभयजन्यत्वविवक्षायामवक्तव्यत्व-तद्घटितभङ्गानामपि सावकाशत्वादिति युक्तमुत्पश्यामः 6 (अ.स.परिच्छेद-८/गा.९१, पृ.३२७) इति व्यक्तमुक्तं ग्रन्थकृता अष्टसहस्रीतात्पर्यविवरणे ।।१७/२६।। ___ अथ प्रस्तुते योजयति- एवमिति । चरमावर्ते = पश्चिमपुद्गलपरावर्ते → नो निन्हवेज्ज वीरियं - (आचा.१/५/३) इति आचाराङ्गसूत्रतात्पर्यार्थपरिणमनतः निकटतममुक्तिगामिनां भव्यानां प्रायशो यत्नस्य = अन्तरङ्गपुरुषार्थस्य बलीयस्त्वे = बलाऽऽधिक्ये सिद्धे सति ग्रन्थिभेदोऽपि = निबिडगूढाऽतितीव्ररागादिपरिणामलक्षणग्रन्थिभेदोऽपि, किं पुनः सामान्येन दैवबाधा ? इत्यपिशब्दार्थः । ग्रन्थिभेदोत्तरकालं तु पुरुषकार एव प्रायः समुच्छलति । तदुक्तं योगबिन्दौ → एवं पुरुषकारेण ग्रन्थिभेदोऽपि सङ्गतः । तदूर्ध्वं बाध्यते दैवं प्रायोऽयं तु विजृम्भते ।। (यो.बि.३३९) इति । एतेन → वीरिएणं तु जीवस्स समुच्छलिएणं गोयमा !। जम्मंतरकए पावे पा(?णा)णी मुहुत्तेण निद्दहे ।। - (ग.प्र. ६) गच्छाचारप्रकीर्णकवचनमपि व्याख्यातम् । प्रकृते → जह डहइ वायसहिओ अग्गी हरिए वि रुक्खसंघाए । तह पुरिसकारसहिओ नाणी कम्मं खयं नेइ ।। - (म.वि.२९१) इति मरणविभक्तिप्रकीर्णकवचनं, → जह डहइ वाउसहिओ अग्गी रुक्खे वि हरियवणसंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं णेई ।। - (म.प्र.प्र.१००) इति च महाप्रत्याख्यानप्रकीर्णकवचनं स्मर्तव्यम् ।
___ अनादित्वेऽपि ग्रन्थेः प्रागभावस्येव सदुपायनाश्यत्वं सम्भवत्येव । एतेन इहैव लब्धाधिकारे → तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा । नश्यति क्रियया विप्र ! पुरुषस्य तथा मलम् ।। जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्यमवान् भवेत् ।।
6 (महो.५/१८५-६) इति महोपनिषत्कारिके अपि व्याख्याते द्रष्टव्ये । प्रकृते → विरियारम्भो, भिक्खवे !, महतो अत्थाय संवत्तति - (अंगु.१/१०/४) इति अंगुत्तरनिकायवचनं, → यो च वस्ससतं जीवे, कुसीतो हीनविरियो । एकाहं जीवितं सेय्यो वीरियमारभतो दल्हं ।। - (ध.प.८/१३) इति च धम्मपदवचनमपि यथातन्त्रमनुयोज्यम् । 'कुसीतो = अलसः', शिष्टं स्पष्टम् । पूर्वोक्तं(पृ.११९०) → स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - (भ.गी. १८/४५) इति भगवद्गीतावचनमपि ग्रन्थिभेदसिद्धिपरतया व्याख्येयं यथातन्त्रमवसरज्ञैः। → पौरुषेणैव यत्नेन सहसाऽम्भोरुहास्पदम् । कश्चिदेव चिदुल्लासो ब्रह्मतामधिगच्छति ।। (यो.वा.मुमुक्षुप्रकरण-४/१४) इति योगवाशिष्ठवचनमपि आध्यात्मिकपुरुषकार
છે અતિ બળવાન પુરુષાર્થ દ્વારા ગ્રંથિભેદ જ ગાથાર્થ :- અને આ રીતે બળવાન પુરુષાર્થ દ્વારા જ ગ્રન્થિભેદ પણ થાય છે. ગ્રંથિભેદ પછી ઔચિત્યપૂર્વક જ પ્રવૃત્તિ થાય છે. કારણ કે ત્યારે સત્પુરુષાર્થની પ્રેરણા સ્વતઃ થાય છે. (૧૭૨૭)
ટીકાર્થ - ચરમાવર્ત કાળમાં પુરુષાર્થ અતિ બળવાન હોવાના લીધે અત્યંત બળવાન પ્રયત્ન દ્વારા માત્ર કર્મને અલિત કરવાનું નહિ ગ્રંથિભેદ પણ તેના દ્વારા જ થાય છે. ગ્રંથિભેદ થયા પછી ધર્મ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org