Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
११६६
• कार्याभेदे सामग्रीभेदाऽयोगः • द्वात्रिंशिका-१७/१० वह्नौ तृणादेर्विजातीये च तत्राऽरण्यादेरिति ।. अन्यथा = कार्यभेदाऽभावे तु एकेन हेतुनाऽपरहेतोः अन्यथासिद्धिः उच्यमाना अन्यत्र प्रकृताऽतिरिक्तस्थले अतिप्रसङ्गकृत् । शक्यं ह्येवं वक्तुं घटेऽपि दण्डो हेतुर्न चक्रमिति । 'न शक्यं, स्वतन्त्राऽन्वयव्यतिरेकदर्शनाद्, एकेनाऽपराऽन्यथासिद्ध्यभावादिति च निश्चयनयाभिप्रेतं कार्यभेदे = कार्यविशेषे प्रामाणिके = प्रमाणसिद्धे सति भवेदपि = व्यवहारनयाऽङ्गीकृतं स्यादपि, यथा विजातीये = अरण्यादिजन्यवलिविजातीये वह्नौ तृणादेः विशिष्य हेतुत्वं विजातीये च = तृणादिजन्यवलिविजातीये च तत्र = वह्नौ अरण्यादेः विशिष्य हेतुत्वं इति । अरण्यादेरसत्त्वेऽपि तृणाद् वह्निः प्रजायत एव । तृण-सूर्यकान्तमण्यादिविरहेऽपि अरणितो वह्निर्जायत एवेति प्रत्यक्षतो दृष्टम् । ___ इत्थं तार्णत्वाऽऽरणेयत्व-माणेयत्व-पार्णत्वादेः वलिगतजातिविशेषस्य प्रमाणान्तरसिद्धत्वात् तार्णत्वावच्छिन्नं वह्नि प्रति तृणस्य, आरणेयत्वावच्छिन्नं प्रत्यरणेः, माणेयत्वावच्छिन्नं प्रति सूर्यकान्तमणेः, पार्णत्वाद्यवच्छिन्नं प्रति च पर्णादेहेतुत्वमित्येवं विशिष्य हेतुत्वकल्पनं व्यवहारनयस्याऽप्यभिप्रेतमेव । किन्तूत्कटदैवजन्ये कार्ये पुरुषकारस्याऽवर्जनीयसन्निधिकतयाऽन्यथासिद्धिर्योच्यते निश्चयनयेन सा नाऽङ्गीक्रियते व्यवहारनयेन, तत्र कार्ये वैजात्यस्य प्रमाणान्तराऽसिद्धत्वात्। न हि कञ्चन-कामिनी-राज्यादावुत्कटपुरुषकारोपार्जिते प्रबलदैवोपार्जिते वा किञ्चिद् वैजात्यमुपलभ्यते । यादृशं हि कञ्चन-कामिन्यादिकमुत्कटदैवेन समुपलभ्यते तादृशमेवोत्कटपुरुषकारेणाऽपि। ततश्च प्रकृतेऽनुत्कटपुरुषकारसहकृतदैवपरिपाकजन्ये कार्ये पुरुषकारस्याऽन्यथासिद्धिः निश्चयनयेनोच्यमाना न सङ्गतिमङ्गति। यतः कार्यभेदाभावे तु = कार्यवैजात्यविरहेऽपि एकेन हेतुना कुर्वद्रूपेण अपरहेतोः पुरुषकारादेः तं कार्य प्रति अन्यथासिद्धिः निश्चयनयेन उच्यमाना प्रकृताऽतिरिक्तस्थले दैव-पुरुषकाराऽतिरिक्तदण्ड-चक्रादिहेतुकस्थले अतिप्रसङ्गकृत् = अन्यथासिद्धत्वाऽतिव्याप्त्याक्षेपिका । शक्यं ह्येवं वक्तुं 'घटेऽपि दण्डो हेतुः, न चक्रमिति । दैवेन पुरुषकाराऽन्यथासिद्धिरिव दण्डेन चक्रादेरन्यथासिद्धिरपराकार्या सुरगुरुणाऽपीति व्यवहारनयाऽऽकृतम् ।
ननु ‘घटे दण्डो हेतुर्न चक्रमिति वक्तुं न शक्यम्, घटत्वावच्छिन्ने दण्ड-चक्रयोः स्वतन्त्राऽन्वयव्यतिरेकदर्शनात् । दण्डसत्त्वेऽपि चक्रव्यतिरेके घटानुत्पादात् तत्सत्त्वे चोत्पादात् चक्रस्य घटं प्रत्यन्यथासिद्धिर्न सम्भवति । एवं चक्रसत्त्वेऽपि दण्डाऽसत्त्वे घटानुदयात् तदन्वये चोदयाद् दण्डस्यापि घटं प्रत्यन्यथासिद्धिर्न सम्भवति । एकेन दण्डेन अपराऽन्यथासिद्ध्यभावात् स्वतन्त्रसिद्धान्वय-व्यतिरेकशालिકાર્યક્ષેત્તા નકકી થઈ શકે છે. જેમ કે વિજાતીય અગ્નિ પ્રત્યે તૃણાદિ કારણ અને અન્ય વિજાતીય અગ્નિ પ્રત્યે અરણિ વગેરે કારણ બની શકે છે. પરંતુ કાર્યગત વૈશિર્ય અસિદ્ધ કહેશે તો તેવી કહેવાતી અન્યથાસિદ્ધિ પ્રસ્તુત સિવાયના સ્થળમાં અનિષ્ટ આપત્તિને લાવનારી થશે. કારણ કે “ઘડા પ્રત્યે દંડ કારણ છે, ચક્ર વગેરે કારણ નથી” આવું કહેવું પણ શક્ય છે.
જો નિશ્ચયનય એમ કહે કે “આવું કહેવું શક્ય નથી. કારણ કે દંડની જેમ ચક્ર વગેરેના પણ સ્વતંત્ર અન્વય-વ્યતિરેક દેખાય છે. માટે દંડ દ્વારા ચક્રાદિની અન્યથાસિદ્ધિ થઈ ન શકે.' તો આ વાત પ્રસ્તુતમાં પણ સમાન છે કારણ કે દરેક કાર્ય પ્રત્યે નસીબની જેમ પુરુષાર્થના પણ અન્વય-વ્યતિરેક દેખાય જ છે.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org