Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
११९८
• द्रव्य-भावक्रियाफलभेदोदाहरणानि • द्वात्रिंशिका-१७/२४ कर्मणोऽपीति । कर्मणोऽपि दैवसंज्ञितस्य एतदाक्षेपे = फलहेतुपुरुषकाराऽऽक्षेपे दानादौ सुकृतविशेषे विधीयमाने भावभेदतः = परिणामविशेषतस्तत्तारतम्यलक्षणात् फलस्य भेदः (=फलभेदः) प्रकर्षाऽपकर्षरूपः कथं नु स्यात् ? न कथञ्चिदित्यर्थः, तथा तथा तेन तेन प्रकारेण शास्त्रादिसङ्गतः = शास्त्रलोकसिद्धः । तथाविधपुरुषकारविकलात् कर्मणः फलाऽभ्युपगमे न कथञ्चित्तच्चित्रता युज्यते । फलहेतोः 'कर्मणः पुरुषकारमन्तरेणैकाऽऽकारत्वाऽऽपत्तेरिति परापेक्षमेतद् द्वितयं प्रतिपत्तव्यमिति ।।२४।। पधायकत्वे, न केवलं दादियोग्यतायाः प्रतिमाऽऽक्षेपे सर्वत्र तद्भाव इत्यपिशब्दार्थः, दानादौ सुकृतविशेषे विधीयमाने परिणामविशेषतः = अध्यवसायवैचित्र्यात् तत्तारतम्यलक्षणात् = भावन्यूनाऽऽधिक्यरूपात् फलस्य प्रकर्षाऽपकर्षरूपो विपाककालतारतम्यलक्षणश्च भेदः न कथञ्चिदपि स्यात् । न च सुकृतैक्ये परिणामविशेषात् फलोत्कर्षाऽपकर्षावसिद्धावेवेति शङ्कनीयम्, तादृशफलभेदस्तु तेन तेन प्रकारेण शास्त्रलोकसिद्धः = सच्छास्त्र-शिष्टलोकयोः प्रसिद्ध एव । शालिभद्रजीवसङ्गम-कपिलादासीकृतेन सुपात्रदानोदाहरणेन, वीरकशालापति-कृष्णकृतेन पालक-शाम्बकृतेन वा श्रीनेमिनाथवन्दनेन शीतलाचार्यकृतद्रव्यभाववन्दनेन च फलभेदः शास्त्रप्रसिद्ध एव । सद्भाव-विष्टिकृतराजसेवादितश्च फलभेदो लोकसिद्धोऽनपलपनीय एव । फलकालभेदश्च श्रावकप्रज्ञप्तौ उमास्वातिवाचकैः → भिन्नो जहेह कालो तुल्ले वि पहंमि गइविसेसाओ । सत्थे व गहणकालो महमेहाभेयओ भिन्नो ।। तह तुल्लम्मि वि कम्मे परिणामाइकिरियाविसेसाओ । भिन्नो अणुहवकालो जिट्ठो मज्झो जहन्नो य ।। - (श्रा.प्र.२०१/२०२) इत्येवमावेदितः । तथाविधपुरुषकारविकलात् = प्रशस्ताऽप्रशस्तपरिणाम-मन्दाऽमन्दाऽऽदरादिलक्षणाऽभ्यन्तरयत्नाऽसहकृतात् कर्मणः = दानादिक्रियाजन्यदैवात् सकाशात् फलाऽभ्युपगमे तु न कथञ्चित् = केनाऽपि प्रकारेण तच्चित्रता = दानादिकर्मसाध्यफलवैचित्र्यं युज्यते । फलहेतोः = स्वर्गादिफलसाधनस्य कर्मणः दानादिसुकृतलक्षणस्य दैवाऽऽख्यस्य वा पुरुषकारं शस्ताऽशस्ताध्यवसायादिलक्षणं अन्तरेण एकाऽऽकारत्वाऽऽपत्तेः = समानफलजनकत्वप्रसङ्गाद् इति हेतोः पराऽपेक्षं = परस्पराऽपेक्षं एतद् द्वितयं कर्म-पुरुषकारलक्षणं प्रतिपत्तव्यमिति । एतेन → पुरुषकारेण विना दैवं न सिध्यति + (म.भा.अनुशासन.६/७) इति महाभारतवचनमपि व्याख्यातम् ।
तदुक्तं उपदेशपदेऽपि → एवं जइ कम्मं चिय चित्तं अक्खिवइ पुरिसगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण ।। (उप.पद.३४६) इति । तद्व्याख्या चैवम् → एवं परोपन्यस्ताऽप्रतिमा
ટીકાર્ય - ભાગ્ય જેનું બીજું નામ છે એવા કર્મથી પણ જો ફળોત્પાદક એવો ઉદ્યમ થઈ જ જતો હોય તો દાન વગેરે વિશિષ્ટ સુકૃત કરતી વખતે અંતરના પરિણામમાં તરતમતાસ્વરૂપ ભેદભાવ થઈ જવાના કારણે ફળમાં પ્રકર્ષ અને અપકર્ષ સ્વરૂપે જે ભેદ પડી જાય છે તે કઈ રીતે સંગત થઈ શકે ? અર્થાત્ કોઈ પણ રીતે સંગત થઈ ન શકે. ઉપરોક્ત ફળભેદ કાલ્પનિક નથી પણ તે તે રીતે શાસ્ત્રમાં અને લોકમાં પ્રસિદ્ધ છે. તથાવિધ ઉદ્યમ વિના જ કેવળ કર્મ થકી ફળનો સ્વીકાર કરવામાં આવે તો સમાન ક્રિયાથી ફળમાં વૈવિધ્ય = ભેદભાવ જરા પણ સંગત થઈ ન શકે. કારણ કે ફળનું કારણ એવું કર્મ તો ઉદ્યમ વિના એકસરખું જ બની જાય. માટે ભાગ્ય અને પુરુષાર્થ- બન્ને એકબીજાની અપેક્ષા રાખે છે – એમ સ્વીકારવું જ પડે. (૧૭/૨૪) १. हस्तादर्श 'कर्मपुरुष...' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org