Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
११९६
• स्वरूपयोग्यताकारणस्य फलोपधायकत्वव्याप्त्यभावः • द्वात्रिंशिका-१७/२३ = प्रतिमाभावः सर्वतः = सर्वस्माद् ध्रुवो = निश्चितः प्रसज्येत । योग्यस्य दादिरेव अयोग्यता प्रतिमाऽनाक्षेपे वा इति = एतत्प्रसज्येत । न च = न पुनः एषा = अयोग्यता, लोक(प्र)सिद्धितः । न हि दादीनि प्रतिमानिष्पत्त्यभावेऽपि अयोग्यानीति प्रसिद्धिरस्ति, तदापि योग्यतयैव तेषां रूढत्वादिति ।।२३।।। दलस्य = प्रतिमोपादानकारणस्य स्वयोग्यतयैव = स्वकीयप्रतिमाजननयोग्यतयैव प्रतिमाऽऽक्षेपे = प्रतिमानिष्पत्त्या फलोपधाने स्वीक्रियमाणे हि सर्वस्मात् दार्वादेः सकाशात् प्रतिमाभावो निश्चितः प्रसज्येत । न चैवं भवति, किन्तु तक्षण-दल-वेधादिव्यापारैरेवाऽवहितप्रयुक्तैः योग्यात् काष्ठात् प्रतिमा निष्पद्यते । यथोक्तं बृहत्कल्पभाष्ये → जं पि य दारु जोग्गं जस्स उ वत्थुस्स तं पि हु न सक्का । जोएउमणिम्मविउं तच्छण-दल-वेह-कुस्सेहिं ।। - (बृ.क.भा.२१७) इति । युक्तञ्चैतत् । न हि समुचितसाधनव्यतिरेकेणोपादानमात्रात्कार्यसिद्धिः सम्भवति । तदुक्तं व्यवहारसूत्रभाष्ये → उवकरणेहिं विहूणो जह वा पुरिसो न साहए कज्जं - (व्य.सू.भा.१०/५४०) इति । ___ कल्पान्तरमाह- योग्यस्य = प्रतिमाजननयोग्यस्य एव दार्वादेः प्रतिमाऽनाक्षेपे = प्रतिमानुपधाने अयोग्यता वा = अथवा इति = एतत् प्रसज्येत । न चास्त्वयोग्यतैव तादृशदार्वादेः, फलानुपहितयोग्यतायां मानाभावादिति वक्तव्यम्, फलाऽभावेऽपि तत्र योग्यताव्यवहारस्य लोकसिद्धितः = प्रामाणिकलोकप्रसिद्धितः न पुनः प्रतिमाया अयोग्यता फलाऽनुपधायकदादौ वक्तुं शक्यते । तदापि = प्रतिमानुपधानदशायामपि योग्यतयैव = प्रतिमाजननसामर्थ्यवत्तयैव तेषां दादीनां रूढत्वात् = स्वरसतः
प्रसिद्धत्वात
तदुक्तं उपदेशपदेऽपि → न हि जोग्गे नियमेणं जायइ पडिमादि ण य अजोगत्तं। तल्लक्खणविरहाओ पडिमातुल्लो पुरिसगारो त्ति ।। 6 (उप.पद.३४३) तद्व्याख्यैवम् → न = नैव हि = यस्माद् योग्ये = दलभावापन्ने दादौ नियमेन = अवश्यन्तया जायते प्रतिमादि, किन्तु कस्मिंश्चिदेव पुरुषकारोपगृहीते। न च वक्तव्यं “शक्तयः सर्वभावानां कार्याऽर्थापत्तिगोचराः(?साधनाः)” (तत्त्वसङ्ग्रह१५८८, २८३९) इति वचनात् कार्यानुदये कथं योग्यता समस्तीति ज्ञातुं शक्यत इत्याशक्याह- न च = नैवायोग्यत्वं योग्यतया सम्भावितानां समस्ति। कुत इत्याह- तल्लक्षणविरहाद् = अयोग्यतालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्याમાનવામાં આવે તો તમામ લાકડા વગેરેમાંથી ચોક્કસ પ્રતિમાની ઉત્પત્તિ થઈ જશે. અથવા લાકડામાંથી પ્રતિમા ઉત્પન્ન ન થાય તો યોગ્ય એવા લાકડા વગેરેમાં જ અયોગ્યતા આવી જશે અર્થાત જે લાકડું પ્રતિમાને ઉત્પન્ન ન કરે, જે લાકડા વગેરેમાં પ્રતિમા ઉત્પન્ન ન થઈ હોય તે લાકડામાં પ્રતિમાજનનયોગ્યતાનો અભાવ માનવો પડશે. પરંતુ આવું તો નથી. જે લાકડામાં પ્રતિમા પ્રગટ થઈ ન હોય તેમાં અયોગ્યતા મનાતી નથી. કારણ કે તે લાકડામાં યોગ્યતા લોકોમાં પ્રસિદ્ધ છે. પ્રતિમાની નિષ્પત્તિ ન થયેલી હોય તો પણ “આ લાકડા વગેરે પ્રતિમા માટે અયોગ્ય છે' આ વાત લોકોમાં પ્રસિદ્ધ નથી. પ્રતિમા ઉત્પન્ન ન થઈ હોય તેવી અવસ્થામાં પણ તે લાકડા વગેરે પ્રતિમાજનનયોગ્ય તરીકે જ લોકમાં પ્રસિદ્ધ = રૂઢ છે. (૧૭૨૩). हस्तादर्श .........' चिह्नद्वयमध्यवर्ती पाठो नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org