Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• अन्ततः प्राग्भवीययत्नस्य कारणता • द्वात्रिंशिका-१७/११ ___ अथ देवोत्कर्षेण फलोत्कर्षदर्शनात्तदेव फलहेतुर्न यत्न इत्याशङ्कायामाहक्वचित्कर्मेव यत्नोऽपि व्यापारबहुलः क्वचित् । अन्ततः प्राग्भवीयोऽपि द्वावित्यन्योऽन्यसंश्रयौ ।।११।।
क्वचिदिति। क्वचित् कार्ये कर्मेव 'यत्नोऽपि क्वचित् कार्ये व्यापारबहुलः । अन्ततः ऐहिकयत्नप्राचुर्याऽनुपलम्भे प्राग्भवीयोऽपि स व्यापारबहुल आवश्यकः, उत्कृष्टयत्तं विनोत्कृष्टऽदैवानुत्पत्तेः, इति = एवं फलविशेषोत्कर्षप्रयोजकोत्कर्षवत्तयापि द्वौ दैवपुरुषकारौ अन्योऽन्यसंश्रयौ = फलजनने परस्पराऽपेक्षौ । यत उक्तं
अथ पुरुषकाराऽल्पत्वेऽपि दैवोत्कर्षेण शान्तिनाथचक्रवर्त्यादेः फलोत्कर्षदर्शनात् = तथाविधषट्खण्डसाम्राज्यादिकार्यविशेषोपलब्धेः पुरुषकारप्राचुर्येऽपि दैवाऽपकर्षे राजगृहद्रमकादेः फलोत्कर्षाऽदर्शनाच्च तदेव = परिपक्वदैवमेव फलहेतुः, न तु यत्न इत्याशङ्कायां व्यवहारनय आह- क्वचिदिति ।
ननु मल्लीनाथप्रभृतीनां तीर्थकरत्वलाभे दैवमेव केवलं निबन्धनं, न तु पुरुषकारोऽपि । न च दीक्षाग्रहणादिलक्षणस्य पुरुषकारस्याऽप्युपलभ्यमानत्वेन तत्कारणत्वाऽप्रतिक्षेपादिति वाच्यम्, दीक्षोपादानादेः मोक्षं प्रति कारणत्वेऽपि तीर्थकरत्वलाभं प्रत्यकारणत्वात्, अनेकेषां दीक्षोपादानेऽपि तीर्थकरलाभविरहात् । तत्कथं पुरुषकारस्य तत्र कारणतोपपादनीयेति चेत् ? अत्रोच्यते, अन्ततो गत्वा ऐहिकयत्नप्राचुर्याऽनुपलम्भेऽपि = इहलौकिकपुरुषकारोदग्रताविरहेऽपि प्राग्भवीयोऽपि = पूर्वभवकालीनोऽपि स पुरुषकारः विंशतिस्थानकाऽऽराधनादिलक्षणो व्यापारबहुलः आवश्यकः = अवश्यकल्पनीय एव, उत्कृष्टयत्नं विना उत्कृष्टदैवाऽनुत्पत्तेः = तीर्थकरत्वादिलाभाऽऽक्षेपकनिरतिशयकर्मोत्पत्त्यसम्भवात् । एवं प्रकारेण तीर्थकरत्वाद्युत्कृष्टफलविशेषं प्रत्युत्कृष्टदैवं पारलौकिकोत्कृष्टपुरुषकारश्च कारणम् । मम्मणादीनामुत्कृष्टधनलाभादिलक्षणफलविशेष प्रति तूत्कृष्टेहलौकिकपुरुषकार उत्कृष्टदैवञ्च कारणम्, फलविशेषोत्कर्ष प्रति यदीयोत्कर्षस्य प्रयोजकता तत्र तस्य कारणत्वन्यायात् । एवं प्रकारेण फलविशेषोत्कर्षप्रयोजकोत्कर्षवत्तयाऽपि दैव-पुरुषकारौ फलजनने परस्पराऽपेक्षौ = मिथः सव्यपेक्षौ इति सिद्धम् ।
ભાગ્યના ઉત્કર્ષથી ફળમાં ઉત્કર્ષ દેખાય છે. માટે ફળ પ્રત્યે ભાગ્ય જ હેતુ છે, પુરુષાર્થ નહિ.” આવી શંકાના નિરાકરણ માટે વ્યવહારનય જણાવે છે કે –
ગાથાર્થ - કોઈક કાર્યમાં ભાગ્યની જેમ ક્યાંક પુરુષાર્થ પણ વ્યાપારબહુલ થઇને કારણ બની શકે છે. છેવટે પૂર્વભવનો પુરુષાર્થ પણ કામ કરશે. આમ ભાગ્ય અને પુરુષાર્થ એકબીજાને સાપેક્ષ છે. (૧૭/૧૧)
હ પૂર્વભવીય પુરુષાર્થ પણ કારણ બની શકે છે ટીકાર્થ :- કોઈક કાર્ય પ્રત્યે જેમ ભાગ્ય કારણ બને છે તેમ કોઈક કાર્ય પ્રત્યે વ્યાપારબલ પુરુષાર્થ પણ કારણ બને છે. આ ભવનો પ્રચુર પ્રયાસ ન દેખાતો હોય તો છેવટે પૂર્વભવસંબંધી વ્યાપારબહુલ પુરુષાર્થ કારણરૂપે માનવો આવશ્યક છે. કારણ કે ઉત્કૃષ્ટ પુરુષાર્થ વિના ઉત્કૃષ્ટ ભાગ્ય ઉત્પન્ન જ થઈ ન શકે. આમ ફળ વિશેષના ઉત્કર્ષનું પ્રયોજક ભાગ્યની જેમ પુરુષાર્થ પણ છે. માટે કાર્ય ઉત્પન્ન કરવામાં ભાગ્ય અને પુરુષાર્થ બન્ને એકબીજાને સાપેક્ષ છે. १. मुद्रितप्रतौ 'अन्यतः' इत्यशुद्धः पाठः । २. हस्तादर्श 'द्वावप्य..' इति पाठान्तरम् । ३. हस्तादर्श ‘यत्नेऽपि' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org