Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 287
________________ ११८२ • कर्मविरहे प्रायश्चित्तविधिवैफल्यम् • द्वात्रिंशिका-१७/१६ अपि च प्रायश्चित्तविधेरपि अदृष्टमन्तरा वैयर्थं प्रसज्येत । अधर्मनाशेनैव तस्य फलवत्त्वात्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानामप्रसिद्ध्या तन्नाशस्य कर्तुमशक्यत्वात्, दुःखप्रागभावस्याप्यसाध्यत्वात् । ध्वंसस्य व्यापारत्वे दोषान्तरमाह- ‘अपि चेति । अधर्मनाशेनैव = निषिद्धक्रियाजन्यदुरितध्वंसेनैव तस्य = प्रायश्चित्तविधेः फलवत्त्वात् = सफलत्वात् । न च तस्याऽधिकारसम्पत्तिरेव प्रयोजनम्, अधिकाराविरोधिन्यपि पातके तद्विधानात्, क्वचिच्च प्राणान्तिकस्यापि तस्य विधानाच्च । न च जन्मान्तरीयमपि पातकमधिकारं विरुणद्धि । न च प्रायश्चित्ताऽऽचरणदुःखमेव पातकफलं, नरकादेरिव तस्य तत्फलत्वाऽश्रवणात्, प्रायश्चित्तवैयर्थ्याच्च । तेन विनापि नरकादेरिव तस्यापि गलेपादिकया दुरितेनैव सम्पादनीयत्वात् । न खलु निवृत्तये कर्मजन्यमनिष्टं विधीयते । अपि तु कर्मणोऽनिष्टसाधनत्वं बोध्यते, विना प्रायश्चित्ताऽऽचरणदुःखं तत्तन्महारौरवादिदुःखोपभोगेनापि पापस्य विनाशप्रसङ्गाच्च (न्या.खं.खा. श्लो.६१-पृ.६२५) इति व्यक्तमुक्तं न्यायखण्डखाद्ये एतद्ग्रन्थकृता। इत्थञ्च यदि ह्यधर्मो न स्यात् तदा प्रायश्चित्तादिना नाश्यत्वं कस्यापि न स्यादिति प्रायश्चित्तविधिर्युर्घटः स्यात् । यदि च निषिद्धक्रियाभिर्दुरितं न जन्यते स्वध्वंसद्वारैव च नरकादिः जन्यते तर्हि ध्वंसस्य ध्वंसाऽप्रतियोगित्वेन प्रायश्चित्तविधिश्चरिताऽर्थो न स्यात् । तथा च प्रायश्चित्तकरणेऽपि नरकगमनादिकमनिवारितप्रसरमेव प्रसज्येत । न हि तेन निषिद्धब्रह्महत्यादीनां नाशः प्रतिबन्धो वा विधातुं शक्यते, तेषां पूर्वमेव विनष्टत्वात् । न च प्रायश्चित्तकरणतो निषिद्धक्रियाजन्यनरकादिदुःखानामेवोच्छेदान्नायं दोष इति वाच्यम्, नरकादिदुःखानां प्रायश्चित्तविषयकर्मजन्यानां = प्रायश्चित्तविषयभूतनिषिद्धक्रियाजनितानां अप्रसिद्ध्या = प्रायश्चित्तकरणकालेऽनुत्पन्नतया तन्नाशस्य = तादृशनरकादिदुःखोच्छेदस्य कर्तुमशक्यत्वात्, प्रतियोगिनोऽपि स्वध्वंसं प्रति कारणत्वात् । न हि मुद्गरप्रहारेणाऽनुत्पन्नघटस्य ध्वंस उपजायते कदापि । ननु प्रायश्चित्तविधेः नरकादिदुःखप्रागभावसाधकत्वेन सफलताऽस्त्विति चेत् ? न, दुःखप्रागभाव જ પ્રાયશ્ચિત્તનાશ્યરૂપે પણ ક્મસિદ્ધિ છે. अपि च. मने वजी महत्पनी पात भेछ शास्त्रोत प्रायश्चित्तविधि ५५ विना निष्ण જશે. (કારણ કે પ્રાયશ્ચિત્ત પાપના નાશ માટે કરવાનું છે. જો કમ કે પાપકર્મ જ ન હોય તો પ્રાયશ્ચિત્ત શા માટે કરવાનું ? નિષિદ્ધક્રિયાન્વેસના નાશ માટે કાંઈ પ્રાયશ્ચિત્ત કરવાનું નથી. કારણ કે ધ્વસનો કદિ ધ્વંસ થતો નથી.) પાપનો નાશ કરવા દ્વારા જ પ્રાયશ્ચિત્ત સફળ બની શકે છે. નરકાદિના દુઃખોનો પ્રાયશ્ચિત્ત દ્વારા નાશ થશે - આમ કહેવું પણ વ્યાજબી નથી. કારણ કે જે નિષિદ્ધ ક્રિયા બદલ પ્રાયશ્ચિત્ત કરવું પડે તેવી ક્રિયાથી ઉત્પન્ન થયેલ નરકાદિ દુઃખ જ અપ્રસિદ્ધ છે, = પ્રાયશ્ચિત્ત કરવાના સમયે અનુત્પન્ન છે. જે માણસ પરસ્ત્રીગમન, ખૂન વગેરે શાસ્ત્રનિષિદ્ધ ક્રિયા કરીને પ્રાયશ્ચિત્ત કરવા માટે શાસ્ત્રજ્ઞ સંત પાસે હાજર થયેલ છે તે સમયે તો નરકાદિના દુઃખો તેના જીવનમાં – આત્મામાં ઉત્પન્ન જ નથી થયા. તો તેનો નાશ પ્રાયશ્ચિત્તવિધિ કઈ રીતે કરી શકે ? અનુત્પન્ન દુઃખનો નાશ કરવો શક્ય જ નથી. કેમ કે નાશ પ્રત્યે પ્રતિયોગી પણ કારણ છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378