Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text ________________
११८४
• साध्या साध्यकर्ममीमांसा • द्वात्रिंशिका-१७/१७ बलवद् अन्यद् = निर्बलं निहन्ति = स्वफलमुपदधानं प्रतिस्खलयति। ___नन्वत्रैवैकव्यभिचारादुभयोरन्योऽन्यापेक्षत्वक्षतिरित्यत्राहबलवद् अन्यद् दुर्बलं = तथाविधबलविकलं स्वफलं = निजकार्य उपदधानं = जनयत् प्रतिस्खलयति = अवरुणद्धि। तथाहि बलवता पुरुषकारेण बलापेतं = सोपक्रमं दैवमुपहन्यते, उपदेशपदप्रसिद्ध(उप.पद ३३०-३३९)ज्ञानगर्भमहामन्त्रिपुरुषकारेणेव स्वकुटुम्बवधाऽऽढौककं कर्म, निरुपक्रमेण च बलवता देवेन दुर्बलः पुरुषकारः, द्वारकावतीदाहप्रवृत्तौ वासुदेव-बलदेवपुरुषकार इव । दैवप्राबल्यावस्थामपेक्ष्यैव → दैवमुल्लङ्घ्य यत्कार्यं क्रियते फलवन्न तत् । सरोऽम्भश्चातकेनाऽऽत्तं गलरन्ध्रेण गच्छति ।। - ( ) इत्युक्तमित्यवधेयम् । सर्वदा सर्वत्र सर्वथैव द्वयोस्तुल्यबलतायामिदं नैवोपपद्यते । तदुक्तं योगबिन्दौ → दैवं पुरुषकारेण दुर्बलं ह्युपहन्यते । दैवेन चैषोऽपीत्येतन्नान्यथा चोपपद्यते ।। (यो.बि.३२७) इति । एतेन → द्वौ हुडाविव युध्येते पुरुषार्थों परस्परम् । य एव बलवांस्तत्र स एव जयति क्षणात् ।। - (यो.वा.मुमुक्षुप्रकरण-६/१०) इति योगवाशिष्ठवचनमपि व्याख्यातम्, पुरुषार्थपदेन इहलौकिक-पारलौकिककर्मणोर्ग्रहणात् । युक्तञ्चैतत् ।
अत एव द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिरपि → प्रवृत्तिप्रबन्धः फलपरिणामप्रबन्धः च प्राग्भवीयकर्माऽऽख्यपुरुषकारस्य साध्योऽसाध्यश्च, तीव्र-मन्दादिहेतूपसेवनसञ्चितत्वात् साध्याऽसाध्यव्याधिवत्, चलनीयोऽविचल्यश्च बद्धाऽबद्धमूलत्वात् वृक्ष-हट्टवत्, निकाचिताऽनिकाचिताऽवयवत्वात्, अयःशलाकाकलापवत् + (द्वा.न.अर-४/पृ.४८५) इत्युक्तम् । प्रकृते यत्नसाध्यं कर्माऽनुकूलं फलं प्रति यत्नसाफल्यमेव । पुरुषकाराऽसाध्यं बलवत्कुकर्मविपरीतं फलं प्रति तु पुरुषकारस्य वैफल्यमेवेत्येवं व्यवस्थाऽत्रावगन्तव्या । तदुक्तं निशीथभाष्ये बृहत्कल्पभाष्ये च → सज्झमसज्झं कज्जं, सज्झं साहिज्जए, न उ असज्झं । जो उ असझं साहइ, किलिंस्सइ न तं चेव साहेइ ।। 6 (नि.भा.४१५७ + बृ.क.भा.५२७९) इति । न चैवं स्वस्मिन्नुपक्रमणीयं कर्माऽनिश्चिन्वतो नाशार्थिनोः नाश्याऽविनिश्चये प्रवृत्त्यनुपपत्तिरिति शङ्कनीयम्, बलवतो नाश्यस्य संशयेऽपि सर्पादिदंशजन्यविषसंशये तन्नाशार्थं भेषजपानादाविव, विघ्नसंशयेऽपि तन्नाशार्थं मङ्गलकरणादाविव वा प्रवृत्त्यविरोधादिति व्यक्तमुक्तं उपदेशरहस्यवृत्तौ (उप.रह.४६ वृत्ति) ।
ननु अत्रैव = दुर्बलदैवस्य पुरुषकारोपहतत्वे निर्बलपुरुषकारस्य च दैवोपहतत्वे एव एकैकव्यभिचारात् = फलजननं प्रति एकैकव्यतिरेकव्यभिचारात् क्रमश उभयोः = दैव-पुरुषकारयोः अन्योऽन्याऽपेक्षફળ ઉત્પન્ન કરવા તૈયાર થાય ત્યારે બળવાન પુરુષાર્થની ઉત્પત્તિ અટકાવે છે. તથા જ્યારે નબળો પુરુષાર્થ પોતાનું સુંદર કાર્ય કરવા સજ્જ થાય ત્યારે બળવાન ખરાબ ભાગ્ય પુરુષાર્થજન્ય ફળની ઉત્પત્તિ થવા દેવામાં અલના ઊભી કરે છે. આ રીતે બળીયાનો વિજય થાય છે.)
नन्वौ. । साधू मानवामा में समस्या मे उभी थायछ पूर्व (au.al.१७/५ ५.११५५) ४९॥वेल. तुं કે “ભાગ્ય અને પુરુષાર્થ બન્ને એકબીજાની અપેક્ષા રાખીને કાર્ય કરે છે. તે સિદ્ધાંત અહીં ભાંગી પડશે. કારણ કે ભાગ્ય નબળું હોય અને પુરુષાર્થ બળવાન હોય ત્યારે ભાગ્ય વિસંવાદિ= વ્યભિચારી = અન્વયવ્યભિચારગ્રસ્ત બને છે. તથા પુરુષાર્થ નબળો હોય અને ભાગ્ય મજબૂત હોય તો પુરુષાર્થ અન્વયવ્યભિચારગ્રસ્ત બને છે. આમ પ્રત્યેકમાં વિસંવાદ આવવાથી બન્નેને કાર્ય કરવામાં એક બીજાની અપેક્ષા રહે છે – આ સિદ્ધાંત ભાંગી પડશે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378