Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 295
________________ ११९० • पुरुषकारप्राधान्यप्रकाशनम् . द्वात्रिंशिका-१७/२० अपिः कर्मणो बाधने पुरुषकारस्य तत्फलजनननियत्यभावनियतां नियतिं सहकारिणी समुच्चिनोति । तदिदमुक्तं- “कर्माऽनियतभावं तु यत् स्याच्चित्रं 'फलं प्रति । तद्बाध्यमत्र दादिप्रतिमायोग्यतासमम् (यो.बि.३३१)" ।।२०।। सूत्रकृताङ्गोक्तिरपि व्याख्याता। तदुक्तं कुवलयमालायां अपि → जाव य ण देन्ति हिययं पुरिसा कज्जाइं ताव विहणंति । अह दिण्णं चिय हिययं, गुरुं पि कज्जं परिसमत्तं ।। - (कु.मा. अनुच्छेद३३) इति। एतेन → स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः - (भ.गी.१८।४५) इति भगवद्गीतावचनमपि व्याख्यातम् । → निपानमिव मण्डूकाः सरः पूर्णमिवाऽण्डजाः । सोद्योगं नरमायान्ति विवशाः सर्वसम्पदः ।। उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम् । शूरं कृतज्ञं दृढसौहृदं च लक्ष्मीः स्वयं याति निवासहेतोः ।। (हितो.११७३,१७५) इति हितोपदेशश्लोकौ अपि सम्यक्पुरुषार्थप्राधान्यपरौ ज्ञेयौ। नन्वेवं सति → आकाशमुत्पततु गच्छतु वा दिगन्तम्, अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् । जन्मान्तराऽर्जितशुभाऽशुभकृन्नराणां, छायेव न त्यजति कर्मफलानुबन्धः ।। ( ( ) इत्यस्य कथं सङ्गतिः ? इत्याशड्कायामाह- अपि कर्मणः = दैवस्य बाधने = बाध्यत्वे बाधकत्वेनाभिमतस्य पुरुषकारस्य तत्फलजनननियत्यभावनियतां = तथाविधकर्मसाध्यफलोपधानाऽनयत्यव्याप्तां नियतिं सहकारिणी = दैवसम्पादितप्रतिस्खलनसहकारिकारणभूतां समुच्चिनोति । तादृशनियतिसहकारेण पुरुषकारः स्वसाध्यफलोपढौकनप्रवृत्तं तथाविधं दैवमुपहन्ति, गौतमप्रव्राजिततापसयत्नवत् । कर्मसाध्यफलोपधाननैयत्यव्याप्तां नियतिमपेक्ष्य तु पुरुषकारः न दैवमुपहन्ति, कुलवालकयत्नवत्, तथानियत्यन्यथाऽनुपपत्तेः । ततश्च सुष्ठुक्तं द्वादशारनयचक्रे श्रीमल्लवादिसूरिभिः → नियतिवशादेव किञ्चित् सद् असाध्यं, असद् असाध्यं, असत् साध्यं, सत् साध्यञ्च प्रतिपद्यते ८ (द्वा.न.च.भाग-१/पृ.२४०) इति । तदिदमुक्तं योगबिन्दौ'कर्मेति । तद्व्याख्या चैवम् → कर्म अनियतभावं तु = अनियतपरिणाममेव यत्स्यात् चित्रं = नानारूपं फलं = सुख-दुःखादिसमर्पणरूपं प्रति = समाश्रित्य तद् बाध्यं = निवर्तनीयं पुरुषकारेण अत्र = बाध्य-बाधकभावचिन्तायां, ‘कीदृशम् ?' इत्याह- दार्वादेः = दलविशेषस्य या प्रतिमायोग्यता तत्समम् + (यो.बि.३३१ वृत्ति) इति ।।१७/२०।। भूणायामां 'अपि' शनी अर्थ समुय्यय = संग्रड छे. भने पुरुषार्थ पावित ४२ छ तेमा કર્મજન્યફળને ઉત્પન્ન કરવાની નિયતિના અભાવને વ્યાપ્ત = વ્યાપ્ય = અવિનાભાવી એવી નિયતિનો स री तरी संप ४२वा भाटे भूण ॥थामा 'अपि' २०६ १५रायेद छे. યોગબિંદુમાં જણાવેલ છે કે “જે કર્મ અનિયતસ્વભાવવાળું હોય તેના વિવિધ સ્વરૂપ હોય. ફળની અપેક્ષાએ તે પુરુષાર્થ દ્વારા બાધ્ય છે. લાકડા વગેરેમાં રહેલી પ્રતિમાયોગ્યતાતુલ્ય તે કર્મ સમજવું.” (૧૭/૨૦) વિશેષાર્થ:- જે કર્મ પોતાનું ફળ અવશ્ય આપવાનો સ્વભાવ ધરાવે તે નિયત સ્વભાવવાળું કર્મ કહેવાય તથા તેવો સ્વભાવ ન ધરાવે તે અનિયતસ્વભાવવાળું કહેવાય.જે કર્મ નિયત સ્વભાવવાળું હોય તેનો પુરુષાર્થ દ્વારા બાધ થઈ ન શકે. “બાધ” શબ્દનો અર્થ છે તેની ફળજનનશક્તિને અલિત કરવી. પુરુષાર્થ દ્વારા કર્મનો બાધ કરવો હોય તો અવશ્ય ફળને જન્માવે તેવી નિયતિનો અભાવ અવશ્ય હોય તેવી નિયતિની સહકારી કારણ તરીકે અપેક્ષા પુરુષાર્થને રહે છે. મતલબ કે જે કર્મની નિયતિ અવશ્યફળોત્પાદક નિયતિના અભાવની વ્યાપ્ય હોય તે કર્મની ફલજનનશક્તિને પુરુષાર્થ અલિત કરી શકે છે. (૧૭૨૦) १. हस्तादर्श 'चित्रं प्रति फलं' इति पाठः । छन्दभङ्गात्, मुद्रितयोगबिन्दुपुस्तके चानुपलब्धेः सोऽत्र न गृहीतः ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378