Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh

View full book text
Previous | Next

Page 239
________________ ११३६ • सामान्य - विशेषोपासनाफले केवलकालभेदः • द्वात्रिंशिका - १६/२४ साधु चैतद्यतो नीत्या शास्त्रमत्र प्रवर्तकम् । तथाऽभिधानभेदात्तु भेदः कुचितिकाग्रहः ।। विपश्चितां न युक्तोऽयमैदंपर्यप्रिया हि ते । यथोक्तास्तत्पुनश्चारु हन्ताऽत्राऽपि निरूप्यताम् ।। उभयोः परिणामित्वं तथाऽभ्युपगमाद् ध्रुवम् । 'अनुग्रहात्प्रवृत्तेश्च तथाऽदाभेदतः स्थितम् ।। आत्मनां तत्स्वभावत्वे प्रधानस्याऽपि संस्थिते । ईश्वरस्याऽपि सन्यायाद्विशेषोऽधिकृतो भवेत् ।। परमेश्वरगोचरविचारविशेषवैकल्येऽपि योगावञ्चकशक्त्या तत्प्रतिपत्तौ कालान्तरे मुक्तिलाभः । यथावस्थितविशेषविमर्शत ईश्वराभ्युपगमेन तद्भजनविशेषे तु मक्षु मुक्तिलाभ इत्यप्यवधेयम् । इदमेवाभिप्रेत्य ग्रन्थकृता वैराग्यरतौ वैराग्यकल्पलतायां च सामान्यतोऽपि येऽमुं सेवन्ते ते क्रमेण शिवभाजः । ये तु विशिष्य भजन्ते तेषामचिराद् भवति मुक्तिः ।। ← (वै.क.ल. २/१६८ + वै. रति. १/ १६७) इत्युक्तम् । ‘अमुं = परमेश्वरं', शिष्टं स्पष्टम् । = कुचितिकाग्रहः । ' कुतः ?' इत्याह- ऐदम्पर्यप्रियाः विपश्चितः यथोक्ताः तात्त्विकरूपाः । 'यदि नामैवं ततः = कारिकाचतुष्टयेनात्र योगबिन्दुसंवादमाह - 'साधु' इत्यादि । तद्वृत्तिस्त्वेवम् साधु च = सुन्दरं पुनः एतत् = कालातीतोक्तं, यतः = यस्मात् नीत्या परमार्थचिन्तारूपया शास्त्रं = आगमः अत्र देवतादौ अर्थे प्रवर्तकं प्रवृत्तिहेतुः । तथाभिधानभेदात्तु = मुक्त-बुद्धादिनामनानात्वेन पुनः भेदो देवता-कर्मादीनां ‘किम् ?' इत्याह कुचितिकाग्रहः कौटिल्याऽऽवेशरूप इति ( यो बिं. ३०८ वृ.) । विपश्चितां = विदुषां न युक्तः = घटमानः अयं वल्लभपरमार्था हि = यस्मात् ते किम् ?' इत्याह- तत्पुनः ऐदम्पर्यं चारु शुद्धं हन्त इति प्राग्वत् अत्रापि अस्मिन्नपि कालातीतोक्ते किं पुनः शेषविपश्चिदुक्ते निरूप्यतां निपुणाऽऽभोगेन ( यो . बिं. ३०९ वृ.) । अथ कालातीतमत-स्वमतयोर्विशेषेणाभेदं दर्शयन्नाह - उभयोः ईश्वर-प्रधानयोः परिणामित्वं कथञ्चिद्ध्रौव्येऽप्यपरापरपर्यायवत्त्वं स्थितं इत्युत्तरेण योगः । कुतः ? इत्याह तथाभ्युपगमात् तत्प्रकाराङ्गीकारात् ध्रुवं = निश्चितम् । तथाभ्युपगममेव दर्शयति- अनुग्रहात् उपष्टम्भात् तथाविधयोग्यजीवानामीश्वरेण प्रवृत्तेश्च व्यापारणात् प्रधानस्य । कथम् ? इत्याह- तथाद्धाभेदतः तत्प्रकारकालभेदेन स्थितं प्रतिष्ठितम् । अयमत्र भावः यदा कालभेदेन सत्त्वानामीश्वरस्तथा तथानुग्राहक इष्यते प्रधानञ्च तथा - तथाप्रवृत्तिमत् तदा नूनमेतयोर्न नित्यैकरूपता, किन्त्वनेकरूपतैवेति बलात्परिणामित्वमापन्नमनयोरिति ( यो. बिं. ३१०वृ.) । आत्मनां = जीवानां तत्स्वभावत्वे = अनुग्राह्यस्वभावत्वे प्रधानस्यापि निवृत्ताधिकारित्वलक्षणे तत्स्व = = = = = = = = = = = = = = યોગબિંદુ ગ્રંથમાં શ્રીહરિભદ્રસૂરિજી મહારાજે જણાવેલ છે કે → આ કાલાતીતમત સારો છે. કારણ કે પરમાર્થવિચારણાના દૃષ્ટિકોણથી ભગવાન વગેરે તત્ત્વ વિશે શાસ્ત્ર પ્રવર્તક છે. મુક્ત, બુદ્ધ વગેરે નામભેદથી ભગવાન વગેરેમાં ભેદ માનવો તે ફક્ત કદાગ્રહનો આવેશ છે. વિદ્વાનોએ આવો આવેશ રાખવો યોગ્ય નથી. કારણ કે જે પ્રાજ્ઞ પુરુષોને તાત્પર્ય = ઐદંપર્ય પ્રિય હોય છે પણ શબ્દ નહિ તે જ માણસ તાત્ત્વિક વિદ્વાન કે પ્રાજ્ઞ બને છે. તેથી કાલાતીતમતમાં પણ વિશુદ્ધ તાત્પર્ય વિચારવું જોઇએ. તે રીતે વિચારીએ તો ઇશ્વર અને પ્રકૃતિતત્ત્વ (= કર્મ) બન્ને ચોક્કસ પરિણામી બનશે. મતલબ કે ઈશ્વર જીવો ઉપર અનુગ્રહ કરવાના પ્રયોજનથી પ્રવૃત્ત થાય છે અને પ્રકૃતિતત્ત્વ કાળભેદથી પ્રવૃત્તિ १. मुद्रितप्रतौ ' अनुग्रहा प्र....' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378