Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• परमते तारतम्यशालिशिष्टत्वाऽसम्भवः •
परेषां तु न कथञ्चित् सर्वेषां वेदप्रामाण्याऽभ्युपगमादौ विशेषाऽभावात् । एतेन वेदविहिताऽर्थाऽनुष्ठातृत्वं शिष्टत्वमित्यपि निरस्तम् । यावत्तदेकदेशविकल्पाभ्यामसम्भवाऽतिव्याप्त्योः प्रसङ्गाच्च ।
परेषां वेदप्रामाण्याऽभ्युपगमलक्षणशिष्टत्ववादिनां तु न कथञ्चित् ' अयमस्मात् शिष्टतरः, स चाऽस्मात् शिष्टतम' इति सार्वजनीनः स्वरसवाही व्यवहार उपपद्यते; शिष्टत्वेन तदभिमतानां सर्वेषां वेदप्रामाण्याभ्युपगमादौ विशेषाऽभावात् । अयं च तेषामधिको दोषः ।
१०७५
किञ्च शुद्धात्मस्वरूपसाक्षात्कारे क्षीणदोषतैव नियामिका, न तु ब्राह्मणत्वजातिः वेदप्रामाण्याभ्युपगतिर्वा, वेदप्रामाण्यवादिनामपि ब्राह्मणानां निबिडतरमायाऽऽवृतत्वोपलम्भात् । ततश्च वेदप्रामाण्याभ्युपगमादेः तत्राऽन्यथासिद्धत्वमेव । प्रकृते स्वशरीरे स्वयंज्योतिःस्वरूपं सर्वसाक्षिणम् । क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः ।। ← ( रुद्र.४९) इति रुद्रहृदयोपनिषदुक्तिरपि दोषविलयस्यैव शिष्टत्वनियामकत्वं लक्षयतीत्यवधेयम् ।
एतेन = शिष्टतरत्व- शिष्टतमत्वव्यवहारानुपपादनप्रकारेण निरस्तमित्यनेनेदमन्वेति । येऽधीतवेदाः क्रियया विहीना जीवन्ति वेदैर्मनुजाधमास्तान् ।
वेदास्त्यजेयुर्निधनस्य काले नीडं शकुन्ता इव जातपक्षाः ।। आचारहीननरदेहगताश्च वेदाः शोचन्ति किं नु कृतवन्त इति स्म चित्ते । यन्नोऽभवद् वपुषि चाऽस्य शुभप्रहीणे स्थानं तदत्र भगवान् विधिरेव शोच्यः ।। ← (बृ.परा.स्मृ. ६/२१०-२११ ) इति बृहत्पराशरस्मृतिवचनात् वेदविहितार्थानुष्ठातृत्वं शिष्टत्वमिति परोक्तलक्षणं निरस्तम् ।
अत्रापि किं वेदविहितयावदर्थानुष्ठातृत्वमभिप्रेतं यदुत वेदविहितार्थैकदेशानुष्ठातृत्वम् ? इत्येवं याव - त्तदेकदेशविकल्पाभ्यां यथाक्रमं असम्भवाऽतिव्याप्त्योः प्रसङ्गाच्च । वेदविहितयावदर्थानुष्ठातृत्वस्य
परे. । वैनेतरद्दर्शनीखोना मते तो उपरोक्त तारतम्यवाणा शिष्टत्वनो व्यवहार ४। पए। संगत નહિ થઈ શકે. કારણ કે શિષ્ટરૂપે તેમને માન્ય એવા તમામ પુરુષોના વેદપ્રામાણ્યસ્વીકાર વગેરેમાં કોઈ ભેદભાવ રહેતો નથી. વેદપ્રામાણ્યસ્વીકારાદિ તો તમામ વેદવાદીઓમાં સમાન હોવાના કારણે શિષ્ટત્વનું તારતમ્ય પરદર્શનમાં અસંગત છે.
* વેદવિહિતઅર્થનું અનુષ્ઠાતૃત્વ શિષ્ટત્વ નથી #
एतेन. । ञभु विद्वानोनुं मंतव्य जेवुं छे } "वेध्भां विहित सेवी खाराधना वगेरेने हरे ते शिष्ट પુરુષ કહેવાય. તેથી વેદવિહિત અર્થનું અનુષ્ઠાતૃત્વ એ જ શિષ્ટત્વ છે.” પરંતુ ગ્રંથકારશ્રી કહે છે કે આ વાત પણ વ્યાજબી નથી. આનું કારણ એ છે કે વેદવિહિત તમામ આરાધનાનું કર્તૃત્વ એ શિષ્ટત્વ છે કે વેદવિહિત અમુક આરાધનાનું કર્તૃત્વ એ શિષ્ટત્વ છે ? એવા બે વિકલ્પ પ્રસ્તુતમાં ઉપસ્થિત થાય છે. પ્રથમ વિકલ્પ માન્ય કરવામાં આવે તો અસંભવ દોષ લાગુ પડશે. કારણ કે વેદમાં બતાવેલી તમામ બાબતોને કાયમ માટે કોઈ પણ બ્રાહ્મણ વગેરે આચરતા નથી. તથા બીજો વિકલ્પ સ્વીકારવામાં આવે તો અતિવ્યાપ્તિ घोष आवशे. डारएा } ‘हिंसा न अरवी, योरी न अरवी, दुहुं न जोल, परस्त्रीगमन न ...' हत्याहि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org