Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
९८६
• गुरुलाघवचिन्तनेन मूलतो दोषोच्छेदः • द्वात्रिंशिका-१४/२४ मुक्तीच्छापि सतां श्लाघ्या न मुक्तिसदृशं त्वदः । द्वितीयात्सानुवृत्तिश्च सा स्याइर्दुरचूर्णवत् ।।२४।।
मुक्तीच्छापीति । द्वितीयात् = स्वरूपशुद्धानुष्ठानात् सानुवृत्तिश्च = उत्तरत्राऽप्यनुवृत्तिमती च सा = दोषहानिः स्यात् दर्दुरचूर्णवद् = मण्डूकक्षोदवत् । निरनुवृत्तिदोषविगमे हि गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिकं हेतुस्तदभावाच्चात्र सानुवृत्तिरेव दोषविगम इति भावः । तदुक्तं
"द्वितीयाद् दोषविगमो न त्वेकान्तानुबन्धवान् ।
गुरुलाघवचिन्तादि न यत्तत्र नियोगतः ।।" (योगबिन्दु २१७) ।।२४।। उक्ताऽऽशयमेव = व्याख्याततात्पर्यमेव आह- 'मुक्तीच्छापी'ति । पूर्वार्धार्थो व्याख्यात एव । स्वरूपशुद्धानुष्ठानात् = विषयशुद्धियुक्तस्वरूपशुद्धिसमेताऽनुष्ठानात् उत्तरत्राऽपि नियमेन अनुवृत्तिमती च = हि दोषहानिः स्यात् । तदभावाच्च = गुरुलाघवचिन्ता-दृढप्रवृत्त्यादिविरहात् हि सानुवृत्तिरेव दोषविगम इति । यथोक्तं अध्यात्मसारे → द्वितीयाद्दोषहानिः स्यात्काचिन्मण्डूकचूर्णवत् + (अ.सा.२/२५) इति। प्रकृते योगबिन्दुसंवादमाह- 'द्वितीयादिति । तद्वृत्तिस्त्वेवम् → द्वितीयाद् अनुष्ठानात् दोषविगमः कषायादिनिरोधरूपः सम्पद्यते, न तु = न पुनः एकान्तानुबन्धवान् = भस्मीकृतदर्दुरचूर्णविनाशवदेकान्तेन सर्वथोत्तरत्राप्यनुवृत्तिमान् । अत्र हेतुः - 'गुरुलाघवचिन्तादि' गुण-दोषविषया गुरुलघुभावमीमांसा = गुरुलाघवचिन्ता, आदिशब्दात् प्रवृत्तिश्च, न यद् = यस्मात् तत्र = स्वरूपशुद्धानुष्ठाने नियोगतः = नियमेन । तथाहि- तथाविधविवेकवैकल्येन कायमात्रक्रियाप्रधानत्वान्नाऽऽत्यन्तिको दोषविगमोऽत्र । यतः पठ्यते कायकिरियाए दोसा खविया मण्डुक्कचुण्णतुल्ल त्ति । सव्वावणए ते पुण नेया तच्छारसारिच्छा ।। (योगशतके-८६) + इति (यो.बि.२१७ वृ.)। अत्र → एत्तो च्चिय अवणीया किरियामेत्तेण जे किलेसा उ। मंडुक्कचुण्णकप्पा अन्नेहि वि वन्निया णवरं ।। किरियामेत्तं तु इहं जायति लद्धादवेक्खयाएऽवि। गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं ।। एत्तो उ निरणुबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयंपि ।। 6 (उ.प.१९१,२४१-२) इति पूर्वोक्ताः(पृ.७१९,७२२) उपदेशपदगाथाः स्मर्तव्याः ।।१४/२४।।
ગાથાર્થ - મોક્ષની ઈચ્છા પણ સજ્જનોને માટે પ્રશંસનીય છે. પરંતુ વિષયશુદ્ધ અનુષ્ઠાન મુક્તિસદશ નથી. બીજા અનુષ્ઠાન દ્વારા દેડકાના ચૂર્ણની જેમ અનુવૃત્તિયુક્ત દોષહાનિ થાય. (૧૪/૨૪)
જ સાનુબંધ-નિરનુબંધ દોષહાનિ છે ટીકાર્ય - સ્વરૂપશુદ્ધ અનુષ્ઠાન દ્વારા જે દોષહાનિ થાય છે તે ઉત્તર કાળમાં પણ દોષ સાથે આવે તે પ્રકારની હોય છે. દેડકાના ચૂર્ણની જેમ આ વાત સમજવી. દોષ ફરીથી પાછા ન આવે તે રીતે દોષહાનિ કરવાનું કારણ ગુલાઘવજ્ઞાનયુક્ત દઢપ્રવૃત્તિ વગેરે છે. બીજા અનુષ્ઠાનમાં તે ન હોવાથી દોષનું પુનરાગમન થાય તે રીતે જ દોષની હાનિ થાય છે. યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે “સ્વરૂપશુદ્ધ અનુષ્ઠાનથી થતીદોષહાનિ એકાંતે દોષ ફરી ન આવે તે રીતે થતી નથી. કારણ કે ત્યાં गुरुवाधवायंता वगैरे. डोय ०४ तेवो नियम नथी. डोतो.' (१४/२४) १. '...नुष्ठात्' इति मुद्रितप्रतावशुद्धः पाठः । २. हस्ताप्रतौ ...नुवृत्तिवती' इति पाठः । ३. हस्तादर्श 'सानुबन्ध' इति पाठः । ४. योगबिन्दुवृत्तौ 'एकान्तानुबन्धनात्' इति पाठः । स चाऽशुद्धः प्रतिभाति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org