Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
१०५४
• क्षेत्रज्ञव्युत्पत्तिप्रदर्शनम् • द्वात्रिंशिका-१५/२६ काकेश्वरयोरतिव्याप्त्यव्याप्तिवारणार्थं असन् = न दुष्टलक्षणसमाधानसमर्थः२ । यद् = यस्माद् उत्कर्षश्चाऽपकर्षश्च अपेक्षयाऽव्यवस्थः । कीटिकादिज्ञानाऽपेक्षयोत्कृष्टत्वात् काकादिज्ञानस्य, ब्राह्मणादिज्ञानस्य च देवादिज्ञानाऽपेक्षयाऽपकृष्टत्वात्। इत्थं च तदवस्थे' एवाऽतिव्याप्त्यव्याप्ती ।
परमते ईश्वरात्मा शिव उच्यते, तद्भिन्नाश्चात्मानो जीवाः कथ्यन्ते । क्षेत्रज्ञपदमपि जीवस्यैव वाचकम्, क्षेत्रे = शरीरे तिष्ठन् घटादिकं जानातीति व्युत्पत्तेः । यथोक्तं शारीरकोपनिषदि → जीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञः - (शारी.पृष्ठ-२) इति । तदुक्तं शिवगीतायां अपि → व्यावहारिकजीवस्तु क्षेत्रज्ञः पुरुषोऽपि च 6 (शि.गी.१०/१७) इति, → अनादिवासनायुक्ताः क्षेत्रज्ञा इति ते स्मृताः - (शि.गी.२/२९) इति च । प्रकृते → अथो यो ह खलु वावैतस्य सोंऽशोऽयं यश्चेतामात्रः प्रतिपुरुषः क्षेत्रज्ञः सङ्कल्पाऽध्यवसायाऽभिमानलिङ्गः - (मैत्रा.२/५) इति मैत्रायण्युपनिषद्वचनम्, → आत्मसन्निधौ नित्यत्वेन प्रतीयमान आत्मोपाधिर्यः तल्लिङ्गं शरीरं हृद्ग्रन्थिरित्युच्यते तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते 6 (स.सा.२/६) इति च सर्वसारोपनिषद्वचनमप्यत्र यथातन्त्रं भावनीयम् । ईश्वरस्तु शरीरमृत एव सर्वं जानातीत्यक्षेत्रज्ञ उच्यते । पूर्वपक्ष्याशयस्तु भावित एवेति न तन्यते ।
वस्तुतस्तु जीवनिष्ठाऽऽधारतानिरूपिताऽऽधेयताविशिष्टस्य उत्कृष्टज्ञानावच्छेदकशरीराभावस्याऽभावो विशेषणविधया तत्र प्रविष्टोऽपि न दुष्टलक्षणसमाधानसमर्थः = परिष्कृतशिष्टलक्षणगतातिव्याप्त्यव्याप्तिदोषनिवारणप्रत्यलः, यस्मात् कारणात् उत्कर्षश्चापकर्षश्च ज्ञानगतः खलु अङ्गुलिनिष्ठह्रस्वत्वदीर्घत्वादिवत् अपेक्षया = सापेक्षतया अव्यवस्थः = अव्यवस्थितः = अनवस्थितः । न हि जात्या किञ्चित् ज्ञानमुत्कृष्टमपकृष्टं वा सम्भवति । एतदेव भावयति- कीटिकेत्यादि स्पष्टम् । इत्थञ्च ज्ञानगतोत्कृष्टत्वाऽपकृष्टत्वयोः मिथःसापेक्षत्वसिद्धौ हि वेदत्वेन स्वारसिकवेदप्रामाण्यग्रहोत्तरकालीनत्वे सति क्षेत्रज्ञवृत्तित्वविशिष्टोत्कृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावत्वावच्छिन्नप्रतियोगिताकाऽभाववत्त्वे सति वेदत्वेन वेदप्रामाण्यविरोधिस्वारसिकाऽभ्युपगमाऽभाववत्त्वं शिष्टत्वमित्युक्तावपि तदवस्थे = वज्रलेपायिते एव अतिव्याप्त्यव्याप्ती ।
तथाहि- यदा ब्राह्मणः पातकात्काको जातः तदानीमपि तत्र क्षेत्रज्ञवृत्तित्वविशिष्टस्य कीटिकाज्ञाननिष्ठाऽपकृष्टत्वप्रतियोगिकोत्कृष्टत्वशालिज्ञानावच्छेदकदेहसम्बन्धाभावस्य विरहेण निरुक्तलक्षणसाम्राશિષ્ટ લક્ષણમાં પ્રવેશ કરવામાં આવે તો પણ તે પરિષ્કાર વાસ્તવમાં દોષગ્રસ્ત શિષ્ટલક્ષણનું સમાધાન કરવા માટે સમર્થ નથી. કારણ કે ઉત્કર્ષ અને અપકર્ષ ભિન્ન-ભિન્ન અપેક્ષાએ અવ્યવસ્થિત છે, અનવસ્થિત છે, પરિવર્તનશીલ છે. અર્થાત જે જ્ઞાન એક અપેક્ષાએ ઉત્કૃષ્ટ છે તે જ જ્ઞાન બીજી અપેક્ષાએ અપકૃષ્ટ છે. જેમ કે કાગડાનું જ્ઞાન બ્રાહ્મણ જ્ઞાનની અપેક્ષાએ અપકૃષ્ટ = નિમ્નસ્તરનું હોવા છતાં કીડી વગેરેના જ્ઞાનની અપેક્ષાએ ઉત્કૃષ્ટ છે. તથા કાકજ્ઞાનની અપેક્ષાએ ઉત્કૃષ્ટ એવું બ્રાહ્મણાદિગત જ્ઞાન પણ દેવાદિના જ્ઞાનની અપેક્ષાએ અપકૃષ્ટ જ છે. આથી અતિવ્યાપ્તિ અને અવ્યાપ્તિ દોષ તેમના તેમ જ રહેશે. કારણ કે કાગડા વગેરેના જ્ઞાનમાં ન રહે અને મનુષ્યાદિના જ્ઞાનમાં રહે તેવી ઉત્કર્ષ નામની વિશિષ્ટ જાતિ १. मुद्रितप्रतौ ...रतिव्याप्तिवारणा..' इति त्रुटितोऽशुद्धश्च पाठः। २. हस्तादर्श ...धानासमर्थ' इत्यशुद्धः पाठः। ३. 'अपेक्षया व्यवस्थित' इति पाठो मुद्रितप्रतौ। मलग्रन्थानसारेण शद्धोऽपेक्षितः पाठोऽस्माभिरत्र योजितः । ४. हस्तादर्श '..वस्थ एव.' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org