Book Title: Dwatrinshada Dwatrinshika Prakran Part 4
Author(s): Yashovijay Upadhyay, Yashovijay of Jayaghoshsuri
Publisher: Andheri Jain Sangh
View full book text
________________
• विप्रजन्मनोरन्तरालेऽतिव्याप्तिः •
द्वात्रिंशिका-१५/२५
यत्किंञ्चिदिति । यत्किञ्चित्तद्ग्रहे = यत्किञ्चिद्वेदप्रामाण्याऽभ्युपगमस्य लक्षणमध्यनिवेशे काकस्य' जन्मनः पश्चात् प्राक् च ( विप्रजन्माऽन्तराले = ) विप्रजन्मनोरन्तराले = अप्राप्तिविश्लेषाभ्यां मध्यभावे ध्वंसप्रागभावतः काकशरीरसम्बन्धध्वंसप्रागभावावाश्रित्य सा प्रसिद्धाऽतिव्याप्तिः स्यात् । अयं भावः- यो ब्राह्मणः काको जातस्तदनन्तरं च ब्राह्मणो भविष्यति तस्य मरणाऽनन्तरं ब्राह्मणशरीराऽग्रहदशायामुत्तरब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव
=
१०५०
लक्षणसाम्राज्यादतिव्याप्तिः ।
तथा च पुनरप्यतिव्याप्तिर्दुर्वारैवेत्याशयेन ग्रन्थकारः पद्मनाभमतमपाकुर्वन्नाह 'यत्किञ्चिदिति । यत्किञ्चिद्वेदप्रामाण्याभ्युपगमस्य लक्षणमध्यनिवेशे शिष्टलक्षणकुक्षौ प्रवेशे क्रियमाणे तु ब्राह्मणजीवकाकभवोत्तरब्राह्मणभवे तदीयवेदाऽप्रामाण्याऽनभ्युपगमस्य प्रथमब्राह्मणभवीयवेदप्रामाण्याभ्युपगमसमानकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धाभावाऽसमानकालीनत्वेऽपि काकभवोत्तरकालीनब्राह्मणभवी
=
यवेदप्रामाण्याऽभ्युपगमसमकालीननिरुक्तयावच्छरीरसम्बन्धाऽभावसमानकालीनतयाऽव्याप्तिवारणसम्भवेऽपि
काकस्य जन्मनः पश्चाद् विप्रजन्माऽप्राप्तिकाले काकशरीरसम्बन्धध्वंसमाश्रित्य अतिव्याप्तिः स्यात् । तथा द्वितीयकाकजन्मकालात् प्राक् च द्वितीयविप्रभवीयशरीरविश्लेषकाले द्वितीयकाकशरीरसम्बन्धप्रागभावमाश्रित्य अतिव्याप्तिः स्यादित्याशयेन ग्रन्थकृदाह काकस्येति ।
अयं भावः यो चैत्राभिधानो ब्राह्मणः वेदप्रामाण्याभ्युपगन्ता काकजन्मनिबन्धनात् पातकाद् मृत्वा काको जातः तदनन्तरं च मृत्वा पुनर्देवदत्ताख्यो ब्राह्मणो भविष्यति तदनन्तरं च पुनः पातकात् काको भविष्यति तत्र स्थले तस्य मरणानन्तरं प्रथमकाकदेहत्यागानन्तरं ब्राह्मणशरीराऽग्रहदशायां देवदत्ताभिधानब्राह्मणदेहानुपादानावस्थायां शिष्टत्वस्य अतिव्याप्तिः स्यादेव उत्तरब्राह्मणभवकालीनवेदप्रामाण्याऽभ्युपगमसमानकालीनकाकशरीरध्वंसेनैव
=
देवदत्ताख्यब्राह्मणभवीयस्वारसिकवेदप्रामाण्यग्रहसमका
लीनेन प्राक्तनकाकदेहसम्बन्धध्वंसेन तदानीं तत्र विद्यमानेनैव लक्षणसाम्राज्यात् शिष्टलक्षणसत्त्वात् । आद्यकाकदेहविश्लेषोत्तरमप्राप्तदेवदत्ताख्यब्राह्मणभवे तत्र वेदाऽप्रामाण्याऽनभ्युपगमस्य देवदत्तभवीयस्वारसिकवेदप्रामाण्यग्रहसमकालीनयावदपकृष्टज्ञानावच्छेदकशरीरसम्बन्धविशेषाभावकूटसमानकालीनत्वात्; तादृशाऽभावकूटान्तर्गतस्य देवदत्तभवीयवेदप्रामाण्याभ्युपगमसमानकालीनस्य प्राक्तनकाकदेहसम्बन्धध्वंसस्याऽनपायादतिव्याप्तिर्वज्रलेपायितैवेति भावः I
=
=
=
ટીકાર્થ :- જો શિષ્ટલક્ષણની અંદર ગમે તે વેદપ્રામાણ્યસ્વીકારનો પ્રવેશ કરવામાં આવે તો કાગડાના જન્મ પછી બ્રાહ્મણશરીરગ્રહણ ન કરેલ હોય તે દશામાં કાકશરીરસંબંધધ્વંસની અપેક્ષાએ અતિવ્યાપ્તિ આવશે. તથા બીજા કાગડાના ભવની પૂર્વે બ્રાહ્મણશરીરત્યાગદશામાં દ્વિતીયકાકશરીરસંબંધના પ્રાગભાવને આશ્રયીને તે પ્રસિદ્ધ અતિવ્યાપ્તિ આવશે. કહેવાનો આશય એ છે કે જે વેદપ્રામાણ્યવાદી બ્રાહ્મણ બીજા ભવમાં કાગડો થયેલ છે તેમ જ ભવિષ્યમાં ફરીથી ત્રીજા ભવમાં બ્રાહ્મણ થવાનો છે તેનું મરણ થયા બાદ ત્રીજા ભવમાં બ્રાહ્મણશરીરનું જ્યાં સુધી ગ્રહણ ન કરેલ હોય તે દશામાં ત્રીજા બ્રાહ્મણભવકાલીન એવા વેદપ્રામાણ્યસ્વીકારને સમાનકાલીન એવો કાકશરીરધ્વંસ હાજર હોવાથી શિષ્ટલક્ષણ હાજર થઈ જશે. આમ અતિવ્યાપ્તિ આવશે.
१. हस्तादर्शे 'काकजन्म' इति मूलकारिकानुसारेणाऽशुद्धः पाठः । २ हस्तादर्शे '...दव्याप्तिः' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org