Page #1
--------------------------------------------------------------------------
________________
उत्तरायणम्- वि.सं. २०६४
नन्दनवन कल्पतरू: २०
शासनसम्राङ्-विशेषः सङ्कलनम् कीर्तित्रयी
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये। कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
Jain Education Intemational
For Private
Use Only
Page #2
--------------------------------------------------------------------------
________________
उत्तरायणम्- वि.सं. २०६४
नन्दनवनक
नन्दनवनकल्पतरुः २०
FO
शासनसम्राड्-विशेषः
शासनसम्राड्-विशेषः
9.0
सङ्कलनम् कीर्तित्रयी
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ।।
Page #3
--------------------------------------------------------------------------
________________
....
..
नन्दनवनकल्पतरुः ॥ विंशी शाखा ।। (संस्कृतभाषामयम् अयन-पत्रम् ॥)
सङ्कलनम् : कीर्तित्रयी॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०६४ ई.सं. २००८
मूल्यम् : रू. ३००/
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाषा : 26622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o, Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाषा : 65312526
मुद्रणम् : (1) 'क्रिष्ना ग्राफिक्स', नारणपुरा गाम, अमदावाद ॥
दूरभाषा : 079-27494393 Crest Creative Unit Satellite, Ahmedabad-51 (M) : 9825381440
Aamunam
Page #4
--------------------------------------------------------------------------
________________
शताब्दीसमर्चना भारतवर्षमिदमनेकविधधर्मपरम्पराणामाश्रयभूतो देशोऽस्ति ।
प्रतियुगमेतासां विभिन्नधर्मपरम्पराणां समक्षं यथा स्वस्वदेश-कालानुरूपं युगकार्य भवति, स्वकीयाश्च काश्चन समस्या विद्यन्ते, तथैव तत्तत्कार्याणां कर्ता, समस्यानां च परिहर्ता कश्चिन्महापुरुषोऽपि समुद्भवत्येव । आचार्यश्रीविजयनेमिसूरीश्वरा अपि विंशशताब्द्यां जैनधर्मसङ्घस्यैतादृशा एव युगपुरुषा आसन् ।
स्वकीये काले समुद्भूतानां सङ्ख समाजं च पीडयन्तीनां नानाविधानां समस्यानां परिहारार्थं स्वीया समग्राऽपि क्षमता तैर्विनियोजिता, तथा ज्ञानसाधना-तीर्थोद्धार-जीवदया-शासनरक्षासङ्घौन्नत्याद्यानि कार्याणि तैस्तथा कृतानि कारितानि च यथा तेषां युगो 'नेमियुग' इति रूपेण जैनसङ्घन स्वीकृतः ।
___एतेषां जीवनकथेयं किल जैनसङ्घस्य भविष्यत्सन्तत्या दन्तकथात्वेन मंस्यते, या च दन्तकथा न कपोलकल्पिताऽपि तु पूर्णतः सत्येन परिमण्डिता तद्युगीनैतिहासिकतथ्यैश्च परिपूर्णा भवेत् ।
को नामाऽत्र विश्वस्याद् यत् - + पूज्यैः क्रियमाणे जिनप्रतिमानां प्राणप्रतिष्ठाविधाने प्रतिमासम्मुखं स्थापितो दर्पणः तत्क्षणमेव
खण्डशो भवति स्म ? - महम्मद-छेलनामको विश्रुत ऐन्द्रजालिकोऽपि यैः स्वीययोगशक्तिप्रदर्शनद्वारा साधुजनपीडनान्निवारित आसीत् ? | स्तम्भतीर्थे जीरालापाटकमध्ये जीर्णोद्धृतस्य जिनालयस्य प्रतिष्ठावसरे दिक्पालादिदेवेभ्यः तत्सान्निध्ये प्रदत्तं बलि-नैवेद्यमाकाश एवाऽन्तर्हितं जातम् ? न कदम्बगिरितीर्थे प्रतिष्ठामहे समुद्भूता झञ्झावाताद्या नैकोपद्रवा एषां महापुरुषाणां प्रभावात्
स्वयमेवोपशान्ताः? * तत्रैव तीर्थे द्वितीये प्रतिष्ठामहोत्सवे नूतनचैत्ये समुद्भूतो दवाग्निरेतेषामचिन्त्यमाहात्म्येन
विध्यातस्तथा तदर्थं क्रियमाणेऽनुष्ठाने देवताबलिरूपेणाऽऽकाशे उत्क्षिप्तानि नवनवतिः श्रीफलानि तु न पुनरधः पतितानि ?
Page #5
--------------------------------------------------------------------------
________________
+
+
+
❖
एतेषां महापुरुषाणां सान्निध्ये श्रीमाकुभाई श्रेष्ठिनाऽऽयोजितः शत्रुञ्जयादितीर्थयात्रामहासङ्घः स्वीयनगरेऽपि समागच्छेदित्याकाङ्क्षया गोण्डलराज्यस्य महाराज्ञी अन्नजलादिकं त्यक्तवत्यासीत् ?
पूज्यानां दृष्टिपथमागतानां वधार्थं सूनागृहं नीयमानानां पशूनां रक्षणं भवति स्मैव ? एतैर्महापुरुषैः स्वविरोधिनां निन्दकानां न्यायदृष्ट्या चाऽपराधिनामपि साधूनामभियोगात् कारावासाच्च रक्षणं कृतम् ?
+
+
शेरीसातीर्थे द्वयोजिनप्रतिमयोरेकतरां मूलनायकत्वेन चेतुं पूज्यैः कृतस्य प्रार्थन प्रतिध्वनिरूपेणैकस्याः प्रतिमाया निर्झरप्रवाहवद् अमृतस्य महाप्रवाहो निःसृतः ? मारणान्तिकानुपसर्गान् कष्टानि च विषह्याऽप्येते महापुरुषाः कापरडा- शेरीसा-वामजादिजैनतीर्थानां पुनरुद्धारं कृतवन्तः ?
भावनगरस्य राजवंशस्य कुलदेवतायाः श्रीखोडियारदेव्याः पुरतः प्रतिवर्षं बलिरूपेण सहस्रशः पशूनां जायमाना हिंसैतेषां महापुरुषाणां शक्तिसम्पन्नेन शिष्येण देवीं प्रतिबोध्य सार्वदिकत्वेन निवारिता ?
+
समग्रमपि जैनसङ्घमेकसूत्रयितुं वि.सं. १९९० तमे वर्षे आयोजितस्य श्रमणसम्मेलनस्य कर्णधाराः पूज्या एवाऽऽसन् ?
+
तैः कृतेषु सर्वेष्वपि कार्येषु शास्त्राज्ञैव प्राधान्यं भजति स्म, शास्त्रं च पुरस्कृत्य तैः कदापि कोऽपि विवादो वादो वा न समुत्थापितः स्वच्छन्दाचरणं वा न समाचरितम् ? आगमोद्धारकश्रीसागरानन्दसूरयोऽपि स्वीयसाधुत्वस्य प्रारम्भावस्थायां बहूनि वर्षाणि यावत् तेषां सन्निधौ शास्त्राध्ययनं कृतवन्तो योगांश्चोदूह्य गणि-पन्यासपदे अपि प्राप्तवन्त: ?
+
एतानि सर्वाण्यपि कार्याणि यद्यप्येकेनैव जनेन कर्तुं दुःशकान्यशक्यानि वा प्रतीयेरंस्तथाऽप्येतानि संवृत्तान्येवेति सर्वविदितमेव । एतान्येव च कार्याणि तेषां गच्छाधिपत्यं युगप्रवर्तकमहापुरुषत्वं च संसाधयमानानि भविष्यति काले तान् निःशङ्कं जीवद्दन्तकथात्वेन निरूपयिष्यन्ति ।
अथ च प्रवर्तमानोऽयं संवत्सरः शासनसम्राजां परमगुरुभगवतां तेषामाचार्यपदारोहणशताब्दीसंवत्सरः । अवसरमेनं निमित्तीकृत्य प्रकाशितोऽयं विशेषाङ्कस्तेभ्य एव भावाञ्जलिरूपेण समर्पयामः ।
फाल्गुनशुक्ला पञ्चमी नन्दनवनतीर्थम्
विजयशीलचन्द्रसूरिः
Page #6
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभाव:
प्रतिस्पन्दः नवनन्दनकल्पतरो ! भवतारणदक्ष गुरो !! भव मे हृदि हर्षकरो, जय दुर्गुणवारिमरो ! ।।
कुरुतां जनता बहुसुकृतं यदि वा दुरितं मतिविहतम् । कुरुतां महितां हितसुहितां
महतां हृदयं ननु सदयम् ।। संस्कृते प्राकृते साहिती वर्धयन् सर्वदा सर्वदो भारती हर्षयन् । हासयन् वाचकान् कल्पवृक्षोऽधुना राजतामाश्रितो राजतां नन्दने ।।
एच. वि. नागराजराव्
९० नवम उपमार्ग, नविलुमार्गः, कुवेम्पुनगरम्, मैसूरु ५७००२३
पूज्यवर्याः !
सादरं नैकाः प्रणतयः ।
ऊनविंशशाखायां मुनिधर्मकीर्तिविजयप्रणीता 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इति कथा साश्रुनयनं पुनः पुनः पठिता । पठता चाऽनुभूतं यदेषा घटना चित्रवत् प्रचलन्त्यस्तीति । अत्यन्तं हृदयद्राविणी कथैषा ।
अस्मिन् युगे देवभाषारक्षणाय क्रियमाणा भवतां प्रयत्नाः सुश्लाघनीयाः । तदर्थं लेखितुं वक्तुं वा शब्दा एव न विद्यन्ते ।
विदुषामनुचरः डॉ. राजेन्द्र जोषी लोहारदा (जि. देवास) म.प्र.
Page #7
--------------------------------------------------------------------------
________________
मान्यवराः
नन्दनवनकल्पतरोः १९ तमेऽङ्के प्रकाशितः विदुषः श्रीमतः एच्. वि. नागराजरावमहोदयस्य "संस्कृतिः संस्कृताश्रिता किम्" इतिशीर्षक: प्रस्तावः विचारप्रचोदकोऽस्ति ।।
___ संस्कृतशब्दस्य अर्थद्वये प्रयोगो दृश्यते । संस्कृतं नाम दैवी वाक्-इत्यादिस्थलेषु पाणिन्यादिभिराचार्यैः व्याकरणानुशासनेन सम्यक् कृतम् इत्येकोऽर्थः । संस्कारैः संस्कृतः पूर्वैःइत्यादिषु तु स्थलेषु गुणाधायकक्रियाविशेषैः प्रगुणीकृतो द्रव्यविशेषः इत्यपरः । (जैनशासनेषु शब्दस्य द्रव्यत्वमङ्गीकृतमित्यन्यदेतत् ।) संस्कृति-संस्कार-शब्दौ परस्परमेकोऽन्यस्य पर्यायौ । संस्कारो नाम दोषापनयनपूर्वकं गुणाधानम् । अतिशयविशेषाधानमित्यर्थः । अतिशयस्तु तत्र तत्र पृथग्विधः ।
"पञ्चविंशतिसंस्कारैः संस्कृता ये द्विजातयः । ते पवित्राश्च योग्याश्च ........ || अतः परं द्विजातीनां संस्कृतिनियतोच्यते । संस्काररहिता ये तु ............. || आश्वलायनः । "संस्कारैः संस्कृतः पूर्वैरुत्तरैरपि संस्कृतः ।" मनुः ? "कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।" मनुः
"पावनः पापक्षयहेतु । प्रेत्य परलोके । संस्कृतस्य यागादिफलसम्बन्धात् । इहलोके च वेदाध्ययनाद्यधिकारात् । कुल्लूकभट्टः ।।
संस्कृतिः संस्कृताश्रिता इत्यत्र शिक्षण-प्रशिक्षणैः वृद्धव्यवहारैः लोकव्यवहारानुसन्धानादिभिः सुभगकृतः सु-शीलगुणाचारयुक्तः यः तस्मिन् सभ्यताऽपरपर्यायः सुरुचिपूर्णः विनययुक्तः लोकावर्जकः सदाचरः सन्निधत्ते -इत्येवंरूपोऽर्थः स्यात् ।
संस्कृतिः संस्कृतवाङ्मये निहितास्तीत्यभिमानोऽस्तु नाम । परं संस्कृतानभिज्ञेषु संस्कृतिर्नास्तीति तु वक्तुमसाम्प्रतम् । शिक्षारूपसंस्कारेण तेजितः सम्यग् व्यवहरति सदाचरति । तदेवोक्तं - संस्कृतिः संस्कृताश्रिता इति । शिक्षैव संस्कारः । सुशिक्षिता एव संस्कृताः । अतः संस्कृतानभिज्ञाः देशीयाः विदेशीया: वा सुशिक्षिताः शीलगुणसदाचारयुक्ताः संस्कृता एवेति सर्वथा तेषु संस्कृतिः सभ्यता निहितैव ।
यत्तु अशिक्षितेषु ग्रामीणेष्वपि केषुचित् जनेषु क्वचित् संस्कृतिः लक्ष्यते इति तदपि लोकतः वृद्धव्यवहारादिभिः आहितसंस्कारस्यैव प्रभावः इति वक्तुं युज्यते । अतः सुष्ठुक्तं संस्कृतिः संस्कृताश्रिता शिक्षिताश्रिता इति ।
यलापुर कृष्ण शर्मा
Page #8
--------------------------------------------------------------------------
________________
Lessonam
डा. रूपनारायणपाण्डेयः
प्रयागः
मान्याः, सादरं प्रणामाः ।
'नन्दनवनकल्पतरोः' एकोनविंशी शाखाधिगता, प्रसादश्चानुभूतः । नूनं शिक्षणस्य संरचनायां साम्प्रतं परिवर्तनमपेक्ष्यते, किन्तु परिवर्तनेऽस्मिन् सदाचरणस्य बीजानि वप्तुं पदे पदे गुरुजनानां शिक्षकाणां धर्मोपदेशकानां नीतिगुरुजनानां पत्रकाराणां पत्रपत्रिकासम्पादकानां सञ्चारसाधनाकर्मणि रतानां सज्जनानां देवीनां च सच्चरितमपेक्ष्यते । अस्मासु सच्चरितस्य निधानं विधेयम् । तत्कथं स्यादिति चिन्तनीयम् ।
_ 'नन्दनवनकल्पतरुः' क्षेत्रेऽस्मिन् शनैः शनैः विविधाभिर्हद्यरचनाभिः प्रयतते । 'परोपकाराय सतां विभूतयः', 'गुणेषु यत्नः क्रियताम्', 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इत्यादिकथाभिः प्रतीयते । 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इति कथायां निर्धनस्य किन्तु नीतिमार्गारूढस्य धनपालस्य यच्चरितं मान्येन श्रीमता मुनिधर्मकीतिविजयेन निरूपितं तत् खलु सर्वथा हृदयं संस्पृशति । यद्येतादृशाः पुरुषा महिला वा संसारेऽस्मिन् सुलभाः स्युः, तदाऽस्माज्जगतो भ्रष्टाचारस्य समूलोन्मूलनं स्यात् । 'संस्कृतिः संस्कृताश्रिता किम्' इतिलेखे (आलोचने) श्रीमतो नागराजरावस्य विचारो विचिन्त्येत । वस्तुतः कामपि भाषामधीत्य कोऽपि चारित्र्योपेतो नैव भवति, किन्तु संस्कृतभाषामधीत्य जनाः समग्रसंस्कृतिरत्नभूताया भारतीयसंस्कृतेः समुन्नतमर्यादां सदाचारोपेतस्य जीवितस्य च रहस्यानि सम्यग् वेत्तुं शक्नुवन्ति, स्वकीयमपि च जीवितं चारित्र्योपेतं कर्तुं शक्ता भवन्ति । वैधपरिणयात्प्राग् यस्यां संस्कृतौ नार्यो न जाने, कति पुरुषान् प्रणयन्ति परिणयन्ति वा। ताः खलु कथं जानन्तु-अनसूयारुन्धती-सतीसीतासावित्रीप्रभृतीनां नारीणां सतीत्वस्योद्दात्तत्वम् ?
जयतु संस्कृतं संस्कृतिश्च ।
Page #9
--------------------------------------------------------------------------
________________
म
डॉ. वासुदेव वि. पाठकः 'वागर्थः' अमदावाद-१५.
नन्दनवनमाध्यमेन वर्धते तपः; कल्पतरुपुष्पैश्च तोषस्तोषः ॥
सम्पूज्या गुरुचरणानुरागिणः, संस्कृतसेवकाः सम्पादकवर्याः, नन्दनवनकल्पतरोः, सादरं प्रणतयः ।
नन्दनवनकल्पतरोः उत्तरोत्तरसमृद्धिः सद्गुरोः प्रसादतः, इत्यहो प्रसन्नताप्रदम् ॥
विविधप्रकारकः काव्यकलापः, समृद्धाः लेखाः, अनुवादाः, मर्म-नर्मविभागः, शास्त्रीयचर्चा, पुस्तकसमीक्षा, इत्यादिकं वैविध्यमास्वाद्यमेव । सामयिकेनाऽनेन सारस्वती-सेवा सम्पाद्यते, इत्यहो सादरं सप्रणाममभिनन्द्यम् ।
वन्द्याः देशिकाः विद्वांसः विजयशीलचन्द्रसूरिचरणाः, शिष्यत्वेन च तेषां प्रवृत्ता कीर्तित्रयी, सेवयाऽनया धन्यतामनुभूय धन्यान्करोत्यन्यानित्यनुकरणीयम् ।
सुभाषितानां समावेशः नूनमावकार्यः, चिरंतनबोधत्वेन तत्र । किन्तु, सुभाषितसङ्ग्रहेषु बहुधा वर्तन्त एते । अतः, अप्रकाशितानां नूनानां सुभाषितानां समावेशः यदि स्यात्, तर्हि साहित्यसमृद्धिः वर्धयिष्यन्तीति मन्ये । पञ्चतन्त्रस्वरूपाः जिज्ञासामूलाः कथाः अपि आवकार्याः ।
सुज्ञाः भवन्तः ॥
सुज्ञे सङ्कलने, चित्ते सौख्यं हि भवति भृशम् ।
सारस्वते तथा वित्ते समृद्धिश्च सुखावहा ॥
सम्पादकीयं सूचयति यत् बालास्तु निर्दोषाः । वस्तुतस्तु, तेषां शिक्षकाणां शिक्षणं, पालकानां प्रशिक्षणं, संस्कृत-संस्काराश्च करणीयाः । मूले सिञ्चनं श्रेयस्करम् । Teacher is to be taught. शिक्षकाणां शिक्षणम् अनिवार्यम् । तेषां दृढाः भारतीयाः संस्काराः, सहजतया छात्रेषु संक्रान्ताः स्युः । एतदर्थं, महावीरस्य, बुद्धस्य, व्यासस्य, वाल्मीके:, शंकरस्य, विवेकानन्दस्य, नानककबीरतुलसीदासादिनां च साहित्यं सततं पाठनीयम् । राष्ट्रभक्तानां चरित्रैस्तेषां परिचयः कार्यः राष्ट्रभक्तिवृद्ध्यर्थम् । एवं कृते, स्यात् संस्कृतिरक्षणम्, विपरीतवातावरणेऽपि ॥
अस्तु शिवम् ॥
Page #10
--------------------------------------------------------------------------
________________
एतस्मिन् विशेषाङ्क-प्रकाशने द्रव्यसहायकनां नामावली
मुख्याः सहायकाः
१.
२.
३.
सहयोगिनः
१.
४.
५
श्रीसुमतीनाथ जैन मन्दिर ट्रस्ट, महावीर जैन सोसायटी, गोधरा
श्री वीशानीमा जैन संघ, गोधरा
श्राविका उपाश्रयनी बहेनो, गोधरा
श्रीमहावीर जैन श्वे. मू. पू. संघ, ओपेरा, अमदावाद श्रीविश्वनन्दीकर जैन श्वे. मू. संघ, पालडी, अमदावाद शेठ हठीसिंह केसरीसिंह ट्रस्ट, हठीभाईनी वाडी, अमदावाद शेठ हठीसिंह केसरीसिंह जैन उपाश्रय ट्रस्ट, पांजरापोल, अमदावाद शाह अतुलभाई चन्द्रकान्तभाई, ओपेरा, अमदावाद
Page #11
--------------------------------------------------------------------------
________________
कृति
शासनसम्राट श्रीविजयनेमिरिस्तवनानि
ऋषभदेव-प्रार्थनम् गुरुस्तुतिः
श्रीसूरिस्तवशतकम् श्रीगुरुदेवस्तवनम्
श्रीदेवगुर्वष्टकम् गुप्त क्रियापदमाचार्याष्टकम् दण्डकवृत्तेन गुरुस्तुति:
श्रीविजयनेमिसूरीश्वरमहाराजानां परदर्शनात्मविचारखण्डनपुरस्सरस्वदर्शनात्मविचारमण्डनात्मकः स्वाध्यायः
स श्रेयसे स्ताद् गुरुनेमिसूरिः
शासनसम्राट् स्तवनम्
श्रीनेमिसूरिन् । जयताद् मुनीन्द्र |
मधुराष्टकम् गुरुगुणसङ्कीर्तनम्
समर्पणम्
दण्डकच्छन्दोमयी गुरुस्तुति:
सम्पूज्याः गुरवः गुरुणा शिष्यगौरवम्
अस्मद्गुरुम्
हे ज्योतिर्मय
गजेन्द्र-मोक्षः
मेघगीतम्
गङ्गागीतम्
शासनसग्राद विशेष:
शासनसम्राट्..... एकं लघुकवनम्
चित्रमयो विजयनेमिसूरिः
शासनसम्राट्
शासनसम्राजां दीर्घदर्शिता निर्भीकता च
गौरवम्
पत्रम् ग्रन्थसमीक्षा
'कनीयसी' (कथासङ्ग्रहः विद्योत्तमाकालिदासीयम्
आलोचनम्
कथा
साक्षात्कार: प्रभोरस्मात्
मर्म - नर्म
प्राकृतविभागः
आयरियसिरिविजयने मिसूरियो पहावपुष्णा गुणा
गुरुथुणणगं (१) (२)
गुरुण
कथा
अनुक्रमः
कर्ता
मुनिकल्याणकीर्तिविजयः आचार्यश्रीविजयनन्दनसूटि आचार्य श्रीविजयनन्दनसूरिः
श्रीविजयनेमिसूरिशिष्यः, आचार्यश्रीविजयपद्मसूरिः आचार्यविजयलावण्यसूरिः
श्रीविजयनेमिरिशिष्यः प्रवर्तकत्री यशोविजयद
विजयने मिसरिशिष्यः, पं. श्रीप्रताप विजय
',
आचार्यश्रीविजयधुरन्धरसूि मुनिरत्नकीर्तिविजयः मुनिरत्नकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः
आचार्यश्रीविजयशीलचन्द्रसूरिः, मुनिकल्याणकीर्तिविजयः
पण्डितशशिनाथ झा - मैथिल:
पण्डितः जगदीश - झा मैथिल:
डॉ. वासुदेव वि. पाठक: 'वागर्थः '
डॉ. वासुदेव वि. पाठकट 'वागर्थ '
डो. वासुदेव वि. पाठक 'वागर्थः'
डो. वासुदेव वि. पाठक: 'वागर्थः '
जगन्नाथ पाठक:
डो. आचार्य रामकिशोर मिश्रः राजेशकुमार मिश्र:
अमृत पटे मुनिरत्नकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिकल्याणकीर्तिविजय:
मुनित्रैलोक्यमण्डनविजय: मुनिधर्मकीर्तिविजयः
एच्. वि. नागराजराव
मुनिराजसुन्दरविजयः कीर्तित्रयी
विजयने मिसूरिप्रशिष्यः, आचार्यविजयकस्तूरसूरि : श्रीविजयनेमिसूरिशिष्यः, पं. श्रीप्रतापविजय विजयशीलचन्द्रसूरिः
डॉ. आचार्यरामकिशोर मिश्रः
r
११
१३
१५
१७
१८
१९
२०
२१
२२
२४
४७
४८
४९
५०
५२
५३
५४
५५
५६
५८
७१
१४७
१५२
१५६
१६१
१६५
१६७
१७१
१७२
१७४
१७७
१७९
१८१
१८२
Page #12
--------------------------------------------------------------------------
________________
ऋषभदेव-प्रार्थनम्
मुनिकल्याणकीर्तिविजयः
(रागः वैष्णवजन तो तेने रे कहीए......) ऋषभजिनेश्वर ! तव पदकमले, मम चित्तं मधुकरतु रे त्वद्गुणकुसुममरन्दरसानां, पानोत्सवमाचरतु रे.....
तरूं लतेव त्वां गुणगेहं, सुकृतास्पदमाश्रयतु रे विषयभुजङ्गमपाशविनाशे, शिखिलीलामनुहरतु रे.....
४.....
कमलं दिनकरमिव गुणभास्कर !, त्वां दृष्ट्वा प्रविकसतु रे कुमुदनिभं ननु चन्द्रविकाशे, प्रह्लादनमनुभवतु रे...... त्वया विना स्वामिन् ! जलमध्ये, मीनसदृशमिह ताम्यतु रे त्वां दृष्ट्वा जलधरमिव केकी, हर्षभरैर्बत गर्जतु रे..... हृदयनिविष्टे जिन ! सिंहे त्वयि, दोषेभैर्नहि बिभ्यतु रे त्वन्नामामृतपानैः पुष्टं, कर्ममल्लमाह्वयतु रे..... त्वद्ध्याने मग्नं गतराग !, सुख-दुःखे विस्मरतु रे विहितसमस्तभुवनकल्याण !, त्वयि नित्यं समरसतु रे....
६.....
'ऋषभदेव-प्रार्थनम्
Page #13
--------------------------------------------------------------------------
________________
शासन सम्राट श्रीविजयनेमि सुरिस्तवनानि
गुरुस्तुति: आचार्यश्रीविजयनन्दनसूरिः
अचिन्त्यचिन्तामणिकल्पशाखिने, विशुद्धसद्ब्रह्मसमाधिशालिने । दयार्णवायाऽर्थितदायिने सतां, नमो नमः श्रीगुरुनेमिसूरये
२
जगद्गुरूणां गुरवे महस्विने, महाशयायाऽऽगमतत्त्ववेदिने । परोपकाराय शरीरधारिणे, नमो नमः श्रीगुरुनेमिसूरये अपीरितं स्वप्नदशासमुद्भवं, प्रसादपुण्येन यदीयदर्शनम् । तनोति नॄणामविगीतसम्पदो, नमो नमः श्रीगुरुनेमिसूरये क्षमैक सन्मार्गविभासनक्षमाः, सुवर्णरम्याः स्फुरदर्थभासिनीः । तमः शमा गा दधतेंऽशुमालिने, नमो नमः श्रीगुरुनेमिसूरये प्रभावभूत् सिद्धिनिधानमद्भुतं पुरा प्रवृत्तं भरताद्यचक्रिणः । कदम्बतीर्थं पुनरुद्धृतं यतो, नमो नमः श्रीगुरुनेमिसूरये
अनेकभूपैश्च निषेविताङ्घये, गृहीतजीवाभयदानवर्त्मने । सदैव दीनोद्धरणैकचेतसे, नमो नमः श्रीगुरुनेमिसूरये
कृतापराधेऽपि च मादृशे जने, दयार्द्रचित्ताय हितैषिणेऽन्वहम् । प्रमोदमैत्रीकरुणात्मदृष्टये, नमो नमः श्रीगुरुनेमिसूरये
सुलक्षणामार्तमनोमनोहरां, प्रसादनीमाकृतिमेव बिभ्रते । अशेषसौभाग्यगुणश्रियाऽऽश्रितां, नमो नमः श्रीगुरुनेमिसूरये
गुरुस्तुतेरष्टकमात्मने हितं, गुरोः शुभाशीर्वचनानुभावतः । प्रभातकाले पठतां सतामिदं तनोतु सिद्धिं सुधियं च सम्पदः
शासनसम्राड्-विशेष:
n
સો
ોકો
॥५॥
En
॥७॥
॥८॥
un
Page #14
--------------------------------------------------------------------------
________________
।। श्रीसूरिस्तवशतकम् ।।
आचार्यश्रीविजयनन्दनसूरिः
प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपाश्र्वं सर्वसिद्धीनां, समागत्येक्साधनम् શી प्रणम्य श्रीमहावीरं, गणभृगौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः
રો धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनवार्चिषः जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगद्विभूषणं रूपं, वीर्यं भुवनविश्रुतम्
૪ श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा ।। यस्यैश्वर्यं समैश्वर्यं, सौभाग्यं जगदद्भुतम् રોક तं सर्वोत्कृष्टसद्वीर्य, सद्गुरुं शिवदायकम् । दर्शनज्ञानचारित्र-समृद्ध्युत्कर्षशालिनम् संयमश्रेणिमध्यस्थं, योगसाम्राज्यशोभिनम् । आचार्य नेमिसूरीशं, भक्त्या स्तवीम्युदारया ॥७॥ जल्पन गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते वक्तु-मक्षमोऽहं कथं स्तुवे ॥८॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कः स्यात् तथाऽप्यहं स्तौमि, व्युल्लसद्बालचापलः ॥॥ किञ्चाऽज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् । यन्मां वाचालयत्येषा, त्वयि भक्तिरवारणा ॥१०॥ नाऽयुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिरः ॥११॥ तवाऽनुभाव एवाऽयं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं प्रमार्थतः કરી दृष्टमात्रैश्च त्वत्पादै-जन्मान्तरकृतान्यपि । म्लायन्त्येनांसि पद्मानि, तरसेन्दुकरैरिव ને રૂપી
॥ श्रीसूरिस्तवशतकम् ॥
Page #15
--------------------------------------------------------------------------
________________
४
ज्ञानध्यानतपोदग्धां-हसामेव भवान्तरे । उदेति भव्यलोकानां, भक्तिस्त्वय्यत्र योगिनि हीनसत्त्वसमाक्रान्ताः, पापकर्मोदयाश्च ये । त एव पादसेवां ते, न जानन्ति प्रमादिनः गाम्भीर्येण महाम्भोधिं, सहस्रांशुं च तेजसा । धैर्येण मन्दरशृङ्गं त्वं जयस्यतिविक्रमः ये सर्वेऽपि तपोब्रह्म-सत्यसत्त्वादयो गुणाः । त्वय्येव ते वसन्त्युच्चै-र्विमुच्य विष्टपत्रयम् इदं च नाऽद्भुतं नाथ !, विश्वकल्याणकारक ! । समुद्रमेव गच्छन्ति, मणयः सरितो न हि महाघोरभवाटव्या-मटतां भव्यदेहिनाम् । त्वमेवाऽतिप्रयत्लेन, शुद्धमार्गोपदेशकः त्वं चाऽविरतिजम्बाल - जालसंक्षालनक्षमः । बहूनां भव्यसत्त्वानां, संसारोद्वेगशालिनाम् पापपुञ्जोत्पादितश्च, तावत् तापोऽत्र देहिनाम् । यावत् तेषां न नाथ ! त्वं, सदानन्दो हृदि स्थितः प्रहताशेषसंसार - विस्तारो मुनिशेखर ! । घोरसंसारकान्तार - सार्थवाहस्त्वमेव च नाथ ! त्वां चोररीकृत्य, शङ्कारहितचेतसः । लभन्ते भूरि कल्याणं, निर्विकारत्वमागताः त्वं हि दीक्षां समादाय, निर्मलीकृतमानसः । सन्तोषसेवितो धन्यो, जातो धन्यावतंसकः सर्वशास्त्रेषु नैपुण्य-मादधत् त्वं महोदयः । गुरूणां पूज्यपादानां, भक्तिप्रवणतान्वितः त्वमेव चाऽधुना नाथ !, संसारे सुखकामिभिः । आदेयोऽसि प्रयत्नेना-डशेषसम्पद्विधायकः
निपतन्तो महाघोरे, सत्त्वा नरककूपके । अहिंसाहस्तदानेन त्वया नाथ ! समुद्धृताः
शासनसम्राड्- विशेष:
સો
॥१५॥
સો
॥१७॥
॥१७॥
॥१९॥
ારો
રો
રો
ોરકો
॥२५॥
શારદા
॥२७॥
રા
Page #16
--------------------------------------------------------------------------
________________
मैत्र्यादिभिश्चतुर्भेदं, यच्चाऽऽज्ञादिचतुर्विधम् । ध्यानं तत्सर्वदा नाथा-ऽवस्थितं चेतसि तव ॥२८॥ अष्टाङ्गयोगकौशल्य-मष्टसिद्धिप्रवीणता । अष्टाङ्गयोगदृष्टेश्च, नैपुण्यं ते महामृतम्
રો एकादशाङ्गविज्ञत्वं, द्वादशोपाङ्गवेदनम् । छेदसूत्रेषु दक्षत्वं, कस्य दृष्टं त्वया विना તરૂણી पूर्वाचार्यक्रमायात-शुद्धाचारनिषेवकः । सामाचारीसमायुक्तः, समाधिस्थानसंस्थितः રી द्वादशभावनोद्युक्तः, सक्लेशदशकोज्झितः । अकल्प्यषट्कनिर्मुक्तो, रतः संवेगसागरे રૂરી बाह्याभ्यन्तरग्रन्थ-त्यागी निर्ग्रन्थपुङ्गवः । प्रभावश्च निस्तन्द्रः, षट्सु कायेषु यतवान् ॥३३॥ प्रज्ञप्त्यादिमहायोगो-द्वहनं प्रविधाय वै । समाराध्य महामन्त्रं, सूरिमत्रमनुत्तरम्
રજો सुधर्मस्वामिनः पट्ट-पारम्पर्यसमागतम् । प्राप्तवांस्त्वं पदं सूरेः, सार्वसंघशिरोमणिः શોરૂકો तथाभूः सर्वविद्वद्भिः, सेवितस्य सदा मुदा । निर्ग्रन्थप्रथमाख्यस्य, तपोगच्छस्य नायकः ॥३६॥ न्यायशास्त्रेषु सम्पूर्णाः, केचित् सिद्धान्तसागराः । केचिद् व्याकरणाभिज्ञाः, केचित् शास्त्रार्थकोविदाः॥३७॥ केचिद् ग्लानादिसाधूनां, वैयावृत्त्यादितत्पराः । योगोद्वाहिनः शुद्धा-चारशीलसमन्विताः ॥८॥ जिनाज्ञां पालयन्तश्च, त्वदाज्ञानिरताः खलु । तवैवं शिष्यसङ्घाताः, प्रसिद्धा एव भूतले ॥३९॥ भगवन् करुणासिन्धो !, शुभलेश्य ! सुयोगभूत् ! ।। विगतस्पृह ! ते नाथ !, कथं पुण्यं प्रवर्णये ॥४०॥ दुर्भिक्षसमये नाथ !, भूरिधर्मोपदेशतः । अनेकद्रव्यलक्षाणां, श्रीमतां त्याजनेन वै ॥४२॥
॥ श्रीसूरिस्तवशतकम् ।।
Page #17
--------------------------------------------------------------------------
________________
૪૬ો
पशूनां मनुजानां च, बहूनामभयार्पणम् । कारयामासिषे यत् त्वं, तज्ज्ञातं कस्य नो भवेत् ॥४३॥ ज्ञानार्थिनां तदर्थाय, ज्ञानशाला व्यधापयः । धर्मक्रियापराणां च, श्रावकाणां कृते पुनः ૪૩ उपदेशामृताच्चैत्य-पौषधालयकान्यपि । बहूनि श्रेष्ठिसंघेभ्यो-नाथत्वं निरमीमपः
॥४४॥ शत्रुञ्जयमहातीर्थ-संरक्षणतत्परः । चैत्योद्धाराण्यनेकानि, चारुणि त्वं व्यधापयः ॥४५॥ मरुदेशे च ग्रामे तु, कर्पटहेटकाभिधे । स्वयम्भूपार्श्वप्रासादे, दर्शनाद्धर्षकारिणि समस्ताशातना घोरा, दूरीकृत्य प्रयत्नतः । महासङ्कटकालेऽपि, जीवितमप्युपेक्ष्य च ॥४७॥ स्वयम्भूपार्श्वनाथस्य, शान्तिनाथस्य च प्रभोः । अन्येषामपि तीर्थेशां, बिम्बानां जन्मनाशिनाम् ॥४८॥ समागते शुभे घने, महोत्सवविभूषिते । प्रतिष्ठाप्य महामत्र-स्तदुद्धारस्त्वया कृतः ॥४९॥ मेदपाटे महादेशे, ये ना निर्मलाशयाः । शौर्यवन्तोऽतिभद्राश्च, राजशासनतत्पराः
॥५०॥ परन्तु भद्रकत्वात् ते, कुगुरुपाशपाशिताः । सद्गुरोश्च वियोगेन, धर्मयोगवियोजिताः ॥५१॥ तेषां सर्वाङ्गिनां नाथ !, धर्मबोधनहेतवे । अनेकविद्वत्साधूनां, मण्डलालङ्कृतः प्रभुः ॥५२॥ पवित्रीकृत्य पादाभ्यां, मेदपाटस्य मेदिनीम् । केवलधर्मबुद्ध्यैव, गहनां विकटामपि हितया प्रियया चैवा-ऽम्भोदगम्भीरया गिरा । शुद्धधर्मावभासिन्या, व्यस्तदोषसमाजया ॥५४॥ तान् सर्वानपि सद्धर्म, वीतरागप्रकाशिते । अस्थापयस्त्वमानन्द-श्रद्धानिर्मलमानसान्
शासनसम्राड्-विशेषः ।
Page #18
--------------------------------------------------------------------------
________________
मरुदेशे महाराज !, त्वयाऽनेके जनवजाः । धर्म स्थिरत्वमानीता, मूर्तिमन्तव्यतान्विते । ૨૬ો अन्येष्वपि च देशेषु, विहारक्रमतः खलु । बोधिता बोधदानेन, त्वया मांसाशिनोऽप्यति છો विदुषोऽपि प्रभूतांस्त्वं, धर्मकर्मपराङ्मुखान् । योग्यसदुपदेशेन, धर्मकर्मस्वयोजयः
૧૮ના एवं सत्यस्वरूपं ते, न जानन्त्यल्पबुद्धयः । मातङ्गा इव शार्दूल-विक्रमं लेशमात्रकम् । जिनेशाज्ञाबहिर्भूता, सर्वसङ्घबहिष्कृताः । चाण्डाला इवाऽस्पृश्या, ये केचिन् मार्गदूषकाः ॥६०॥ ते तु त्वन्नाममात्रस्य, श्रुत्यैव ज्वरपीडिताः । किं श्रुत्वा गर्जनां सैंहीं, शृगालाः स्वास्थ्यमासते ? ॥६१॥ अदृष्टव्यानना ये च, देवद्रव्यादिनाशकाः । ते सर्वे त्वत्प्रतापेन, ग्लायन्ति पेचका इव ॥२॥ जिनेशाज्ञां समुलङ्कच, योगोद्वहनमन्तरा । . सन्ति ये पण्डितम्मन्याः, सूरित्वाडम्बरान्विताः ॥३॥ ते वराकास्त्वधोवीर्या, धैर्यसत्त्वविवर्जिताः । निस्तेजांसि निजास्यानि, त्वदग्रेऽधः प्रकुर्वते ॥४॥ तथाऽप्यत्र किमाश्चर्यं, लोकसिद्धमिदं हि यत् । प्रदीप्ते भुवि मार्तण्डे, खद्योता हततेजसः ॥६५॥ त्रिकालाबाधितामाज्ञां, सर्वज्ञस्य जिनेशितुः । सम्यक् प्रपालयन्नाथ, त्वमेवाऽस्यधुना भुवि ॥६५॥ ये श्रेष्ठिकुलसजाता, द्रव्यकोटीविभूषिताः । तेऽपि त्वां नाथ ! नाथेति, ब्रुवाणाः पर्युपासते ॥६६॥ देशाधीश्वरमान्या ये, देशसाम्राज्यशालिनः ।। तेऽपि त्वन्मीलनानन्दं, वाञ्छन्ति त्वरयाऽन्वहम् ॥७॥ कलाकलापविज्ञा ये, सर्वशास्त्रविशारदाः । ते सर्वेऽप्यात्मभक्त्या ते, किङ्करत्वमुपागताः ॥८॥
॥ श्रीसूरिस्तवशतकम् ॥
७
Page #19
--------------------------------------------------------------------------
________________
मेदपाटनरेशोऽपि, यत्त्वां स्तवीत्यहर्निशम् । तत् त्वत्पुण्यस्य साम्राज्यं, के न जानन्ति सद्धियः ॥६॥ सहस्रांशुरिव स्वाभां, चन्द्रमाश्चन्द्रिका इव । क्षणमप्यात्मनस्त्वं नु, न मुञ्चस्यप्रमत्तताम् ॥७॥ त एव कृतिनो लोके, त एवाऽभ्युदयान्विताः । त एव भवकान्तारो-लङ्घने सन्ति पण्डिताः ॥१॥ तव पञ्चविधाचार-व्यवहारव्रतशालिनः । नाथ ! ये पादपद्मस्य, सेवनां कुर्वतेतराम् ॥७२॥ समस्तमुत्तमं नाथ !, वर्तते तव सुन्दरम् । सद्बुद्धिलेशहीनोऽहं, तत्र किं वर्णनक्षमः રોગ્રી तथाऽपि भक्तिरागेण, पूज्ययोस्तव पादयोः । प्रेरितेन स्तुतं किञ्चिद्, भिक्षुणा बालबुद्धिना। હજી धन्यः सौराष्ट्रदेशः स, धन्या मधुपुरी पुरी । या त्वया जन्मना नाथ, बन्धुरा पावनीकृता ॥५॥ लक्ष्मीचन्द्रः पिता धन्यः, धर्मकार्येषु कोविदः । येन त्वं बाल्यतो धर्म-संस्कारैः संस्कृतोऽन्वहम् ॥६॥ धन्या माता च दीपाली, सुशीला रनकुक्षिणी । या हि सौभाग्यसाम्राज्य-निधिं पुत्रमजीजनत् ॥७७॥ धन्यस्त्वं नाथ ! नाथानां, तत्कुलाम्बुनिधौ विधुः । यस्त्वं विज्ञाततत्त्वोऽभूः, प्राप्य सर्वज्ञशासनम् ॥७८॥ अधन्योऽप्यधुना धन्यो, जातोऽहं त्वां स्तुवन् प्रभो । धन्या एव हि नाथ ! त्वां, स्तुवन्ति विमलाशयाः॥७९॥ आजन्माऽन्यो न नाथो मे, श्रीमन्तं त्वां विना यतः । अहं सद्दर्शनज्ञान-चारित्रस्थैर्यमापितः ॥०॥ चिन्तारनं न वाञ्छामि, नैव च चक्रवर्तिताम् । नैव राज्यं न चेन्द्रत्वं, नैवाऽन्यच्चाऽस्त्यतिप्रियम् ॥१॥ कित्त्वेका नाथ ! ते पादा-म्भोजयोः सेवनाउनघा । सदाऽस्त्वित्यभिलाषो मे, वर्धते सुतरां सदा ॥२॥
शासनसम्राड्-विशेषः
Page #20
--------------------------------------------------------------------------
________________
भवादृशेषु नाथेषु, यतः प्राप्तेषु मादृशाम् । मज्जतां भवपाथोधौ, क्रियाज्ञानप्रमादिनाम् अनन्तानन्दपूर्णस्य, मोक्षस्य कारणं परम् । जैनेन्द्रशासने सम्यक्-श्रद्धानं जायते भृशम् ૮૪ ततः प्रपञ्चं विज्ञाय, संसारस्य सुदुस्तरम् । महामोहस्य विस्तारं, सर्वव्यसनकारणम् ज्ञाततत्त्वा नरा भूत्वा, श्रद्धाक्षालितचेतसः । जिनाज्ञां पालयित्वा च, पारम्पर्येण मोक्षगाः ॥८६॥ सेवा तिष्ठतु ते नाथ !, दर्शनं पुण्यकारणम् । केषां सम्पत्तये न स्या-दीक्षणं चाषपक्षिणः ॥७॥ सद्भक्त्या भजताजनं, यूयं भव्याः कृतादराः । आचार्य नेमिसूरीशं, यदि भाग्यभरालसाः ૮૮ ज्ञानप्रकाशसूर्याया-ऽज्ञानध्वान्तविनाशिने । करुणानां निधानाय, नमः श्रीनेमिसूरये ૮૬ો विबुधैः कृतसेवाय, महामेरुपमाय च । माध्यस्थ्यशालिने तस्मै, नमः श्रीनेमिसूरये ॥०॥ निर्मलीमसचित्ताय, रागसन्तापहारिणे । विश्वोपकारदक्षाय, नमः श्रीनेमिसूरये शौचसन्तोषपूर्णाय, भुवनाह्लादकारिणे । गाम्भीर्येण समुद्राय, नमः श्रीनेमिसूरये રોકરો त्रैलोक्यवन्दनीयाय, भोगतृष्णाविघातिने । महानन्दनिवासाय, नमः श्रीनेमिसूरये
રૂા कल्पद्रुमाय काम्याथै, स्तुत्याय तत्त्ववेदिभिः । रम्याय शुद्धयोगेन, विख्याताय सदा भुवि
જો जन्मव्यसननाशाय, यमिभिः सेविताञ्जये । स्यत्सुधातुलवाचाय, शिवाय शिवदायिने वर्याराधनमाप्ताय, मानां मुकुटाय च । स्तुत्यपादाब्जयुग्माय, नमः श्रीनेमिसूरये s૬ો
रामसूरय
॥ श्रीसूरिस्तवशतकम् ॥
Page #21
--------------------------------------------------------------------------
________________
१०
स्तम्भतीर्थे महातीर्थे, त्रम्बावत्यपराभिधे । श्रीपार्श्वशप्रसादेन, भूरिसौभाग्यपूरणे नवर्ष्यङ्कनिशानाथै- र्मिते (१९७९) संवत्सरे शुभे । मृगशीर्षे सिते पक्षे, सम्प्राप्ते दशमीदिने राजनगरमुख्येभ्यः, पुरेभ्यो भक्तिशालिषु । श्रेष्ठिवर्गेष्वनेकेषु, मीलितेषु समुत्सवम् साधुसाध्व्यादिसङ्घाते, प्राप्ते सङ्घे चतुर्विधे । महामहोत्सवे जाते - अनेकद्रव्यव्ययेन वै
शासनसम्राड्
॥९७॥
en
महानिशीथमुख्येषु, सूत्रेषूक्त विधानतः । योगोपधानमालायाः, परिधापनवासरे मालायाश्च महामन्त्रं, विदधतो महौजसः । पूर्वयुगप्रधानानां स्मृतिं कारयतो विभोः नेमिसूरेः क्रमाम्भोज-शुद्धभक्त्यनुभावतः । वाचकोदयशिष्येण, नन्दनाख्येन भिक्षुणा विहितं स्तवनं शुद्ध-स्वात्मकल्याणहेतवे । आमेरु बोधिलाभार्थं, पठन्तु भव्यदेहिनः सद्गुरोः स्तवनं कृत्वा, नेमिसूरेर्विभोर्मया । समर्जितं सुपुण्यं यत्, तेन लोकोऽस्तु बोधिभाक् ॥ १०५ ॥
- विशेष:
meen
૫૦૦ની
॥१०१॥
સો
ગોગો
श्रीतीर्थङ्करमहावीरप्रभुशासनोद्धरणधुरीणशुद्धसम्यक्त्वविभूषित
सकलजगदुद्धर्तुकामितादिपरमगुणसमूहसमन्वित
शत्रुञ्जयरैवतादिमहातीर्थसंरक्षणसमुद्धरणप्रवण
श्रीभगवत्यादिसकलयोगोद्वहनसूरिमन्त्रसमाराधनपूर्वकप्राप्तसूरिपद
संविग्नशाखीयतपोगच्छाचार्यभट्टारक
॥१०४॥
श्रीमद्विजयनेमिसूरिभगवच्चरणेन्दीवरमिलिन्दायमान
सिद्धान्तवाचस्पतिन्यायविशारदानुयोगाचार्य
महोपाध्यायोदयविजयगणिशिष्य-मुनिनन्दनविजयविरचितं
'सूरिस्तवशतकं ' सम्पूर्णम् ॥
Page #22
--------------------------------------------------------------------------
________________
।। श्रीगुरुदेवस्तवनम् ।।
श्रीविजयनेमिसूरिशिष्यः आचार्यश्रीविजयपद्मसूरिः
(शार्दूलविक्रीडितवृत्तम् ) अर्हद्भास्करकेवलीन्दुविरहेऽस्मिन्भारते विश्वसत्, तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वितः । उद्दधे भविकान् भवान्धुपतितान्सद्देशनारज्जुतो, यस्तं मद्गुरुनेमिसूरिममदं वंदे मुदाऽहर्निशम् प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः, सच्चारित्रपवित्रदेहमसुभृद्भद्रडूरं सर्वदा । कर्मस्तम्बलवित्रसाम्यनिलयं प्रस्थानसंसाधकं, तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः
॥१॥
॥२॥
योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः, प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीपाननम् । पञ्चाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छप, निस्तन्द्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम्
॥३॥
सत्त्वे यस्य निरस्तवीर्यप्रसास्तीर्थान्वयास्तस्करास्तत्सत्यं खलु भास्करे समुदिते चन्द्रादितेजः कियत् । सौभाग्यादिगुणावलिं गणयितुं शक्तो न वाचस्पतिस्तं चिंतामणिजित्वरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥४॥
॥ श्रीगुरुदेवस्तवनम् ॥
Page #23
--------------------------------------------------------------------------
________________
१२
यो निर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितो, योऽनङ्गारतिकारकोऽपि विमलानङ्गार्थसंसाधकः । निःसङ्गोऽप्युपकारदीनकरुणाद्यैः सद्गुणैः सङ्गवान्, तं कुर्वे प्रणिधानगोचरमहं श्रीनेमिसूरीश्वरम्
कालेऽस्मिन् गणधारिगौतम इव प्रौढप्रभावाञ्चितो, भूपालेभ्यगणैर्गुणैक रसिकै रिज्योऽपि नम्रश्च यः । आयोपायविचक्षणः श्रमणसङ्ग्रापायनिस्फेटकस्तं वन्दे ममतावितानरहितं श्रीनेमिसूरीश्वरम्
विज्ञातः स्वपरार्थशास्त्रविसरो येनाऽऽशु बुद्धेर्बलाद्, यः पञ्चातिशयैर्युतोऽत्र जयति स्थानाङ्गपाठानुगैः । चित्तं सद्गुणनिर्गुणेऽपि समतां यस्याऽन्वहं सङ्गतं, नित्यं सोऽपि तनोतु मङ्गलततिं श्रीनेमिसूरीश्वरः
न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं, सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकम्पाभृतः । सप्तक्षेत्रधनव्ययादिनिरता जाता नेकेऽङ्गिनस्तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिसूरीश्वरम् ॥७॥
प्राक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते, सञ्जातोऽखिलशास्त्रयोगकुशलो यस्याऽनुभावादहम् । सिद्धान्तार्थरहस्यमप्यवगतं भक्त्या मयाऽन्तःस्थया, तं नौमीप्सितदानकल्पविटपिश्रीनेमिसूरीश्वरम्
वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलिं ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधितस्तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः
शासनसम्राड्- विशेषः
॥५॥
દા
॥८॥
un
સો
Page #24
--------------------------------------------------------------------------
________________
GHALIB
( श्लेषोल्लसितानि पञ्चचामरवृत्तानि ) नमामि नेमितीर्थपं सदा सुशीलशालिनं, समस्तसूरिचक्र चक्रवर्तिता विराजिनम् । प्रदीपदीपमालिकाधिक प्रकाशशालिकां, विधाय विश्वनालिकां दधानमात्मसम्भवम् ॥१॥
शिवाङ्गनाङ्गजं तथाऽप्यलं शिवाङ्गजन्मनि, समुद्रजातरूपचारुवैभवोपशोभितम् । ततो नु साधुशङ्खगं नरं च चक्रिमुत्तमम्, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥२॥
विशालनेमचन्द्रमोललाटपट्टशालिनं, सुबालचन्द्रवज्जगज्जनप्रमोददाकृतिम् । अलक्ष्यलक्षलक्षणोपलक्षितं दमक्षमं,
नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥३॥
★ अत्राऽष्टके नेमिनाथप्रभोः नेमिसूरिगुरोश्च स्तुतिर्विहिता - इ
श्रीदेवगुर्वष्टकम् ।"
आचार्यविजयलावण्यसूरिः
-इत्यतस्तन्नाम देवगुर्वष्टकमिति सार्थकम् ॥
श्रीदेवगुर्वष्टकम् ।
१३
Page #25
--------------------------------------------------------------------------
________________
१४
पयोदनादतर्जिकम्बुकण्ठपेशलध्वनिचमत्कृताखिलाङ्गराजिराजिगीतगौरवम् । निजौजसा हि सज्जनार्दनावलेपलोपिनं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥४॥
सुदर्शनप्रधानपुरुषोत्तमैकबान्धवं,
प्रकल्प्य कल्पनाकृतं सुखं नु भोगराजिजम् । निधानमादधानमात्मशर्मणां यथास्थितं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥५॥
क्षमाधरं वरं सुवृद्धिमाढ्यतां गतं गतं, ततो दधानमात्मसार्वभौमसम्पदां पदम् । क्षमाभृदुत्तमाङ्गचुम्बिताङ्घ्रिपद्मरेणुकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥६॥
विभाव्य नामगौ नमो च वर्गप्रान्तगावपि, युतौ गुणेन च श्रिया च चक्रिमादिभागगौ । ततोऽमरद्रुकामधेनुकामरलतोऽधिकं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥७॥
पदत्रयप्रचारगाञ्च गां मुखाङ्गणं गतां, तथाऽप्यशेषदेशकाललीनभावगामिनीम् । सुधाप्रवाहवाहिनीं वहानमिज्यताभृतं, नमामि नेमितीर्थपं सदा सुशीलशालिनम् ॥८॥
(शार्दूलविक्रीडितवृत्तम्)
देवश्लेषगुरुङ्गमष्टकमिदं गीतं शमालिप्रदं, दक्षाऽभ्यर्थनया प्रणुन्नमनसा भक्त्येकलीनात्मना लावण्येन प्रवर्त्तकेन रचितं पञ्चादिमैश्चामरैः,
श्रोतॄणां पठतां नृणां च शिवदं स्तात् पुष्पदन्तावधि ॥९॥
शासनसम्राड्-विशेष:
Page #26
--------------------------------------------------------------------------
________________
गुप्तक्रियापदमाचार्याष्टकम् ।।
श्रीविजयनेमिसूरिशिष्यः प्रवर्तकश्रीयशोविजयः
गुप्तेन्द्रियं सकलशास्त्रमहाब्धिमन्थबुद्धिप्रभावसमवाप्तपवित्रबोधम् । गुप्तक्रियापदमयेन च मुक्तकेन, श्लोकाष्टकेन महयामि सुमेन नेमिम् ॥१॥ श्रीवीरनाथवरवाक्यरसानुसारिन् !, मिथ्याप्रपञ्चरचनारहितप्रचार ! । दुर्बोधलोकवरबोधकरप्रताप ! चारित्रपात्र ! सततं शरणं चते त्वाम् ॥२॥ श्रीदेहकान्तिकलनाविधुरेव साक्षाद्, द्राक्षाभवाक्यरसकप्रथितप्रभाव ! । श्रीमन्नयावलिविदाप्रतिमाकूते ! त्वम्, भद्रङ्कर ! प्रतिदिनं शमशान्तवृत्ते ! ॥३॥ यत्पादपङ्कजमथो विबुधाश्रयस्स्यात्, पापौघशान्तिकरणं हरणं मदस्य। पुण्यप्रभावपरिबोधितभिल्लवृन्द, तन्नेमिसूरिवरमाप्तवरं प्रणव्यम् कस्येह दुःखभरनाशकरा यदीयवाणी न च श्रुतिसुखा विबुधाग्रगानाम् । सौख्यालयं विबुधजातविवन्दितं तं, श्रेयोनिधिं समयवेदकमाप्तसूरिम् यद्ध्यानभाजस्सततं मनुष्या, यस्योपदेशाच्छिवराजमार्गम् । प्रापन्ति सौख्यालयमाप्तदीप्तं, सूरिं तु तं सौख्य महेनम्
દો
गुप्तक्रियापदमाचार्याष्टकम् ॥
Page #27
--------------------------------------------------------------------------
________________
श्लोक-२
श्लोक-३
श्लोक-४
श्लोक- ५
श्लोक-६
श्लोक-७
श्लोक-८
श्रीनेमिसूरीश्वरराजमुख्य ! पुण्यौघराजाऽथ दिने दिने मे । भूमण्डलेऽवद्य विमुक्त देह ! श्रीवीरभक्तांहसमेव पूज्य !
१६
नेमे ! बुधस्याऽऽप्तभवाब्धिपोत ! पापानि दुःखैकनिबन्धनानि । कल्याणवल्लीसुविताननाब्द ! शश्वद्यशोवृद्धिवितानक ! त्वम्
n
॥८॥
भ्वाद्युभयपदिनश्चतेगू याचन इत्यस्य अस्मदर्थैकवचने "चते" इति रूपम् ।
भ्वादिगणपठितपरस्मैपदिनः अव-रक्षणगतिकान्तिप्रीतितृप्त्यवगमनप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनाहिंसादहनभासवृद्धिषु इत्यस्य पञ्चमीविभक्त्या: हौ प्रत्यये परे " अव"
इति रूपम् ।
अथवा भ्वादिगणपठितत्वेन डुकंग करणे इत्यस्य पञ्चम्यां हौ प्रत्यये परे "कर" इत्यपि रूपमत्र गुप्तक्रियापदतया बोध्यम् ।
भ्वादिगणपठितोभयपदिनः श्रिग्-सेवायामित्यस्याऽऽड्यूर्वकस्य पञ्चमीविभक्त्यां हिप्रत्यये परे "आश्रय" इति रूपम् । श्रीमद्धेमचन्द्राचार्योक्तस्य प्रथमाध्यायस्य तृतीयपादपठितेन "अदीर्घाद्विरामैकव्यञ्जने" इत्यनेन असंयुक्तव्यञ्जने यकारे परे द्वित्वं वेदितव्यमत्र ।
भ्वादिगणपठितपरस्मैपदिनः इं दुं दुं शुं खुं गतौ इत्यस्य पञ्चमीविभक्त्या हौ प्रत्यये परे सम्पूर्वकस्य 'समय' इति रूपमत्र गुप्तक्रियापदतया वेदितव्यम् ।
भ्वादिगणपठितपरस्मैपदिनः अर्हमह - पूजायाम् इत्यस्य पञ्चम्यां हौ परे मह इति रूपम् ।
“पतीन्द्रः स्वामिनाथार्यः प्रभुर्भर्त्तेश्वरो विभुः ईशितेनो नायकश्च" इत्यभिधानचिन्तामणिपठितः स्वामिवाचकः इनशब्दो बोध्यः ।
शासनसम्राड्-विशेष:
दिवादिगणपठितपरस्मैपदिनः दों छोंच् छेदने इत्यस्य धातोरवपूर्वकस्य पञ्चम्या विभक्त्या हौ प्रत्यये परे 'अवद्य' इति रूपमत्र वेदितव्यम् ।
दिवादिगणपठितपरस्मैपदिनः षच् अन्तकर्मणि इत्यस्य धातोः पञ्चम्या विभक्त्या हौ प्रत्यये परे ओतः श्ये इति औकारलोपे कृते 'स्य' इति रूपमत्र ।
Page #28
--------------------------------------------------------------------------
________________
CB
दण्डकवृत्तेन गुरुस्तुतिः
विजयने मिसूरिशिष्यः पं. श्रीप्रतापविजयः
त्रिभुवनजनमानसाम्भोजलीलाविधौ हंसकल्पं समूलव्यपास्ताखिलद्वेषिवर्गं क्षमागारमानन्दपीयूषयूषोदधिं विश्वविख्यातकीर्तिं हताशेषदोषं प्रमादार्णवालोडनस्वर्णधात्रीभृदंह्रिद्वयं शान्तमुद्राङ्कितं रम्यकायं गतापायमौदार्यसौभाग्यसम्पत्तिगेहं कृपाम्भोनिधिं ज्ञानसिन्धुं प्रणम्राखिलच्छेक लोकोत्करं सद्गुणाम्भोनिधिं न्यङ्कृतानङ्गतुङ्गोद्धतैरावणात्यन्तशक्तिं तपस्या-निरुद्धाऽस्थिराक्षप्रबन्धं नयाम्भोनिधिम् ।
चरणकरणधारिणं छिन्नदुर्मोहजालं कषायोज्झितं वादिचूडामणिं निर्ममं पापवन्ध्यं सदाचारयुक्तं विकारव्यपेतं सुधर्मोत्तमक्ष्मारुहोल्लासनैकाम्बुवाहं स्थिरस्वान्तमाप्ताभिवन्द्यं मुनीन्द्रं हि सिद्धान्तपाथोधिपारङ्गमं शारदाम्भोधिजास्यं सदासेव्यपादं प्रबोधप्रदं प्रौढतेजस्विनं सत्प्रभावाकरं भव्यचेतश्चको रैणचिह्नायमानं निशानाथशान्तं गतप्राणिवैरं निरीहं वचोनीरनिर्धूतनिः शेषभव्योच्चलान्तर्मलम् ।
परमहिममन्दिरं शुद्धचारित्रयुक्तं कलानां गृहं सर्वसम्पत्करं विश्वबन्धुं निरङ्कं गताकं विमानं शुभध्यानयुक्तं विलीनाखिलारातिसन्दोहमन्यूनपुण्यं सदा देशनारञ्जितानेकलोकं कुकर्माद्रिनिर्भेददम्भोलिकल्पं पवित्राशयं विश्वजाड्यापहारं शुभैकास्पदं ब्रह्मचर्योत्तमालङ्कृतिभ्राजितं सर्वविद्याप्रवीणम् ।
गतोपाधिवृन्दं जितान्तः सपत्नं सरोजाक्षयुग्मं महोधाम सन्तोषभाजं जगच्चिन्तितार्थाऽनिमेषद्रुमम् । रसपशुपतिनेत्रसंख्यामितेद्धैर्गुणैर्भूषिताङ्गं विपत्यौघविध्वंसकं पञ्चधाचारसम्पालकं शुद्धशीलं मृषावादशून्यं कुवाद्युत्कटेभोत्करध्वंसने पञ्चवक्त्रं सतां कारितश्रीजिनेन्द्रोक्त सद्धर्मपीयूषपानं हतानेक सन्देहजालं शुभप्राणिनां षण्मताभिज्ञमंहोहरं धैर्यगाम्भीर्ययुक्तं कृतिप्राञ्चितं सर्ववाचंयमेशं प्रतापान्वितं दीप्तिमन्तं पयोनाथगम्भीरवाचं मुदा नौमि निर्ग्रन्थचूडामणिं नेमिसूरीश्वरम् सर्वदा ॥१॥ दण्डकवृत्तेन गुरुस्तुति:
१७
www.jalnemon.org
Page #29
--------------------------------------------------------------------------
________________
श्रीविजयनेमिसूरीश्वरमहाराजानां परदर्शनात्मविचारखण्डनपुरस्सरस्वदर्शनात्मविचारमण्डनात्मक: स्वाध्यायः ।
-आचार्यश्रीविजयधुरन्धरसूरिः
॥१॥
॥२॥
॥३॥
॥४॥
(गीयते प्राभातिक-रागेण) जयति जिनशासने सूरिसम्राड् गुरु-र्नेमिसूरिः सकलतत्त्वसिन्धुः । श्रुतनिधिः सेवधिः सद्गुणानामयं, करुणरसजलधिसमसत्त्वबन्धुः आत्मनोऽभावसिद्ध्यै मुधा नास्तिक, यत्यते सर्वयन नित्यम् । युक्तियुक्तं यतस्तत्र प्रतिबन्धकं, भवति यद्वरचनरचनं नु सत्यम् चित्स्वरूपं क्षणस्थायिनं सौगतः, सर्वदा चेतनं वक्त्यगौणम् । किन्तु यद्वचनहतशेषशक्तिः सदो-मध्यमध्यासितो भजति मौनम् यत्प्रभाभूतिभिर्भीतभीतैश्चिद-द्वैतवादैररण्यं प्रयातम् । मायया संयुतं ब्रह्म तत्रापि तैः, स्वीकृतं 'घट्टकुट्यां प्रभातम् देहिनो व्यापकत्वं विदेहात्मनो, रहिततां संविदादेर्वदन्ति । कणभुजो गौतमा यत्समीपे परं, गोतमीभूय मूका भवन्ति ज्ञपयितुं चेतनं सकलकरणैरक-रिमिह कापिलाः संयतन्ते । येन संशिक्षिताः कर्तुमालोचना, मूर्ध्नि नित्यं त्रिदण्डं वहन्ते शाश्वतं नश्वरं जन्यमपि सम्भवे-दात्मतत्त्वं ह्यनेकान्तवादे । नाऽन्यथा बन्धमोक्षव्यवस्था भवेत्, स्थापितं येन विद्वद्विवादे दर्शनोदयकरो नन्दनो धीमतां, सर्वथा बाल्यतो ब्रह्मचारी । विश्वविज्ञानवित् पद्मपाद: प्रमो-दामृतापूर्ण-लावण्यधारी इत्थं मया श्रीविजयादिनेमिः, सूरि: स्तुतस्तर्कविचारगर्भम् । श्रीतीर्थरक्षोद्धरणादिकार्ये, धुरन्धरः स्तात्सुखदायको मे
કો
દો
॥७॥
usll
०
/
शासनसम्राड्-विशेषः
Page #30
--------------------------------------------------------------------------
________________
स श्रेयसे स्ताद् शुरुनेमिसूरिः
मुनिरत्नकीर्तिविजयः
यस्य प्रसादात् सकलापि सम्पत्, सम्पद्यते सिद्ध्यति चाडप्यभीष्टम् । कलौ हि साक्षात् सुरवृक्षतुल्यः, स श्रेयसे स्ताद् गुरुनेमिसूरिः ॥१॥
नामाऽपि मत्रायत एव यस्य, विपत्क्षयायाऽथ च चित्तशुद्ध्यै । सद्ब्रह्मतेजोमयमूर्तिमान् यः, स श्रेयसे स्ताद् गुरुनेमिसूरि:
રો
यस्याऽऽशिषा मन्दधियोऽपि कामं, विद्वत्सु मान्याः सुधियो भवन्ति । ज्ञानप्रकाशं विदधद् मुनीन्दुः, स श्रेयसे स्ताद् गुरुनेमिसूरिः ॥३॥
यदृष्टिपातोडप्यभयाय तेषां, ये नीयमानाः पशवो वधाय । अनन्यकारुण्यपरीतचेताः, स श्रेयसे स्ताद् गुरुनेमिसूरिः
જો
प्राणान् पणीकृत्य य उद्दधार, तीर्थानि कष्टानि विषा चाऽपि । बोधिं व्यधत्ताऽतितमां विशुद्धां, स श्रेयसे स्ताद् गुरुनेमिसूरिः
॥५॥
रहस्यपूर्णामपि लुप्तप्रायां, प्राणप्रतिष्ठादिपरम्परां च । विस्फूर्तसत्त्वो [दजीवयद् यः, स श्रेयसे स्ताद् गुरुनेमिसूरिः ।
॥६॥
सम्प्रेक्ष्य यस्य प्रतिभामनन्यां, भवन्ति मुग्धाः सुधियः समेऽपि । युगप्रधानाभप्रतापशाली, स श्रेयसे स्ताद् गुरुनेमिसूरिः
છો
धैर्य धरित्र्या धरणीधरस्य, स्थैर्यं समुद्रस्य च गम्भीरत्वम् । कालस्य ताटस्थ्यमथो तटिन्या, निर्बन्धता व्योममणेः प्रतापः
सत्त्वं मृगेन्द्रस्य विधोश्च कान्ति-निर्लेपता पद्मदलस्य चाऽपि । निःसङ्गता गन्धवहस्य यस्मिन्, स श्रेयसे स्ताद् गुरुनेमिसूरिः
॥॥ युग्मम् ॥
स श्रेयसे स्ताद् गुरुनेमिसूरिः | १९
Page #31
--------------------------------------------------------------------------
________________
शासनसमाट्-स्तवनम्
मुनिरत्नकीर्तिविजयः
पूजय पूजय रे ! नेमिसूरिगुरुचरणम्, भविजन ! पूजय रे ! जिनशासनधुर्धरणम् ! दुःखदुरितहरनामस्मरणं भविजनहितकरशरणम् । शीलसुगन्धितपावनचरणं पापतापसंहरणम्....पूजय०
॥२॥
विहितकुसुमशरनिजकिरणं, निर्मलमन्तःकरणम् । यत्सान्निध्यं भवभयहरणं, दर्शनमपि शङ्करणम्... पूजय० वचनं यस्य हि संशयहरणं, हृदयं करुणाझरणम् ।
अनुपमधैर्ययुतान्तःकरणं, कूतगिरिदाहरणम्.... पूजय० विहितानेकसुतीर्थोद्धरणं, योगक्षेमकरणम् । शासनसेवैकव्रतधरण-मासादितबुधमरणम्...पूजय०
॥३॥
જી
स्मारितपूर्वपुरुषसच्चरणं, गुरुजनहृदयाभरणम् । प्राप्तचतुर्विधसङ्घादरणं, जिनशासनजयकरणम्....पूजय०
॥५॥
२० शासनसम्राड्-विशेषः
Jati ducation international
Page #32
--------------------------------------------------------------------------
________________
श्रीनेमिसूरिन् ! जयता मुनीन्द्र !
मुनिधर्मकीर्तिविजयः
क्षान्त्यादिनिःशेषगुणप्रधारिन् ! दोषादिनाशे बहुयलकारिन् ! । गच्छाधिप ! श्रीजिनशासनेऽहो ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! ॥१॥
રો
तपोगणे व्योम्नि शुभरे हि दिवाकर ! प्रोत्तमसूरिमुख्य ! । विभिन्नतीर्थोद्धरणैकनिष्ठ ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र ! गृहीतवाणीशुभमङ्गलाशी-विद्वज्जनश्रेणिषु मुख्यरुप ! । छिन्नान्यतीर्थेशमतप्रभुत्व ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
!॥३॥
श्रीहेमहीरादिगुरोर्हि तुल्य ! प्रभावक ! श्रीजिनशासनस्य । समस्तजीवाभयसम्प्रदायिन् ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥४॥
ब्रह्मवताचाररतेषु वर्य ! दान्तेषु चाऽऽराधनतत्परेषु । सक्लिष्टकर्मावलिनाशरक्त ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥५॥
समग्रसादिगणेऽशुभस्य प्रवर्तमानस्य विदूरकारिन् ! सुसौख्यसंस्थापक ! सद्गुणेश ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥६॥
मृगेन्द्रसाधारणसत्त्वधारिन् ! सद्भूतवीरप्रभुतत्त्वलापिन् ! विशुद्धचारित्रगुणानुरागिन् ! श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
॥७॥
अस्यां शताब्द्यां प्रणुतिर्मयैषा कृता मुदा सूरिपदस्य भक्त्या । स्पृहाऽस्ति सद्धर्मरतो भवेयं सदाऽऽशिषा सद्गुरुनेमिसूरे:
ટો
श्रीनेमिसूरिन् ! जयताद् मुनीन्द्र !
airaveena
Page #33
--------------------------------------------------------------------------
________________
मधुराष्टकम् मुनिधर्मकीर्तिविजयः
वदनं मधुरं वचनं मधुरं हसनं मधुरं गमनं मधुरम् । नयनं मधुरं श्रवणं मधुरं
विभुनेमिगुरोर्निखिलं मधुरम् ॥१॥ शक्तिर्मधुरा भक्तिमधुरा युक्तिमधुरा मुक्तिर्मधुरा । सृष्टिर्मधुरा दृष्टिर्मधुरा
विभुनेमिगुरोर्निखिलं मधुरम् ॥२॥
२२ / शासनसम्राड्-विशेषः
Page #34
--------------------------------------------------------------------------
________________
क्षान्तिर्मधुरा शान्तिर्मधुरा दीप्तिमधुरा तृप्तिमधुरा । प्रीतिर्मधुरा कीर्तिमधुरा
विभुनेमिगुरोनिखिलं मधुरम् ॥३॥
आज्ञा मधुरा प्रज्ञा मधुरा दीक्षा मधुरा शिक्षा मधुरा । आस्था मधुरा निष्ठा मधुरा
विभुनेमिगुरोनिखिलं मधुरम् ॥४॥
कणं मधुरं चरणं मधुरं भजनं मधुरं यजनं मधुरम् । कवनं मधुरं मननं मधुरं
विभुनेमिगुरोनिखिलं मधुरम् ॥५॥
सत्त्वं मधुरं तत्त्वं मधुरं स्म णं मधुरं शरणं मधुरम् । ओजो मधुरं तेजो मधुरं
____ विभुनेमिगुरोर्निखिलं मधुरम् ॥६॥
रीतिर्मधुरा नीतिमधुरा रागो मधुर: त्यागो मधुरः । धैर्यं मधुरं शौर्यं मधुरम्
विभुनेमिगुरोनिखिलं मधुरम् ॥७॥
जननी मधुरा जनिभूर्मधुरा जनको मधुरो वंशो मधुरः जननं मधुरं मरणं मधुरम्
विभुनेमिगुरोर्निखिलं मधुरम् ॥८॥
मधुराष्टकम्
२३
Page #35
--------------------------------------------------------------------------
________________
शासनसम्राजां परमगुरूणां पूज्याचार्य श्रीविजयनेमिसूरीश्वराणां सूरिपदारोहणशताब्द्यां समर्चना
गुरु गुणसङ्कीर्तनम्
गूर्जरभाषया गुरुगुणकीर्तनरचयिता : संस्कृतभाषया समपद्यमनुवादकः आचार्यश्रीविजयशीलचन्द्रसूरिः मुनिकल्याणकीर्तिविजयः
भूमिका
जैनेषु तीर्थकराणां पूजाः पञ्चोपचाराऽष्टोपचारा, सप्तदशोपचारैकविंशत्युपचारा यावदष्टोत्तरशतोपचाराऽपि भवन्ति । एवं गुरूणामप्यष्टप्रकाराद्याः पूजा: भवन्ति । तासु पूजासु गीयमानो गीतिसमूहोऽप्यभेदोपचारात् पूजा एव कथ्यते ।
किञ्चैतासु गीतिषूपयुज्यमाना गानपद्धति: (रागः) प्राचीना गूर्जरदेशीया महाराष्ट्रदेशीया मरुदेशीया वा भवति । क्वचित् शास्त्रीयरागा अपि प्रयुज्यन्ते ।
अथ च मम पूज्यगुरुवर्यैराचार्य श्रीविजयशीलचन्द्रसूरिभि: प्रायो वर्षचतुष्टयात् प्राक् चेन्नईनगरे वर्षावासकाले परमगुरूणां शासनसम्राजां पूज्याचार्य श्रीविजयनेमिसूरीश्वराणां भक्त्यर्थं गुरुगुणकीर्तन - नाम्नाऽष्टप्रकारा पूजा गूर्जरभाषया विरचिताऽऽसीत् । मुद्रणं प्राप्तैषा पूजा गुरुभक्तेषु बहु प्रचारं प्रसारं च प्राप्ता ।
इतश्चैतद् वर्षं शासनसम्राजां सूरिपदारोहणशताब्धा वर्षमिति मयाऽपि गुरुभक्तिनिमित्तं किञ्चित् कर्तव्यमिति विचार्य पूजाया अस्या एव संस्कृतभाषया समपद्यमनुवादः कर्तव्यः - इति मनसिकृत्य प्रवृत्तं, परमगुरूणां गुरुवर्याणां चाऽनुग्रहेण साफल्यमपि प्राप्तम् ।
अत्राऽनुवादे गीतिषु सर्वत्र गूर्जरभाषीय - पूजास्था गानपद्धतय एवाऽऽश्रिताः सन्ति । दोधकवृत्तानां च स्थानेऽनुष्टुब्वृत्तं (काव्यं) समाश्रितमस्ति । क्वचिच्च सङ्क्षेपोऽपि कृतोऽस्ति । अपि चैतद् गूर्जरं गुरुगुणकीर्तनं संस्कृतभाषयाऽनूदितमस्तीति तस्याऽभिधानं गुरुगुणसङ्कीर्तनम् इति कृतमस्ति ।
( अनुवादकः )
२४
शासनसम्राड् - विशेष:
Jain Exuearch Internationa
Page #36
--------------------------------------------------------------------------
________________
गुरुगुणसङ्कीर्तनम्
प्रथमा जलपूजा श्रीशड्डेश्वरपार्श्वेशं नमामि सुखदं सदा । यन्नामस्मृतिमात्रेणोपशाम्येद् विघ्नपावकः ॥१॥
नमस्यामि बुधाराध्यां पावनां श्रुतदेवताम् ।
यत्प्रसादेन मूोऽपि मुखरत्वमवाप्नुयात् ॥२॥ वात्सल्यवारिधिं सौम्यं गुरुं वन्दे त्रिधा मुदा । यत्कृपालेशमालिए जडः सत्स्फूर्तिमान् भवेत् ॥३॥
जैनशासनसाम्राज्ये विक्रमाद् विंशके शते ।
आविर्भूतो नवो राजा नेमिसूरिर्गणाधिपः ॥४॥ तपागच्छाधिपत्यं योऽधारयत् सङ्घनेतृताम् । भवभीरोर्गुरोस्तस्य पादपद्मे प्रणौम्यहम् ॥५॥
अप्रमेयान् गुणांस्तस्य गातुमिच्छामि भक्तितः ।
लब्धोऽद्याऽवसरो वो ह्यगण्यपुण्यराशितः ॥६॥ यथा भावजिनेन्द्रस्य नवाङ्गयां न हि पूजनम् । भावाचार्यस्य सुगुरोस्तथा नैवाऽङ्गपूजनम् ॥७॥
वस्त्रपात्रादिभिर्नूनं भावसद्गुरुपूजनम् ।
स्थापनागुरुपूजा तु प्रकारैरष्टभिः किल ॥८॥ जल-चन्दन-पुष्पैश्च धूप-दीपाक्षताशनैः । फलैश्चेत्यष्टधा पूजा रच्यते स्थापनागुरोः ॥९॥
एषा नैमित्तिकी पूजा विधेया नैव प्रत्यहम् ।
वास-धूप-प्रदीपैश्च गुरुमूर्तिं समर्चयेत् ॥१०॥ गुरुमूर्ती ततः कृत्वा सुगुरोः स्थापनं मुदा । अष्टधापूजनव्याजात् गुणलेशं स्तवीम्यहम् ॥११॥
गुरुगुणसङ्कीर्तनम् । २५
Page #37
--------------------------------------------------------------------------
________________
गीतिः
(रागः भैरवः) स्तौमि नेमिसूरिमहाराजम्, वीरजिनेश्वरशासननभसि नव्योदितदिनराजम्..... निर्मलसंयमि-पञ्चमगणधरसन्ताने सञ्जातः । जगच्चन्द्रसूरिर्यन्नाम्ना तपगच्छो विख्यातः
॥१॥ स्तौमि.... तदीयान्वये हीरविजयगुरु-देव-सिंहसूरीशाः । तपःपूतकाया व्रतनिष्ठा निर्मलबोधयतीशाः
॥२॥ स्तौमि.... जविंशशतके तत्पट्टे बुद्धि-वृद्धिविजयाख्यौ । ढुण्ढकमतमथ हित्वा जातौ दृढसंविग्नमती यौ ॥३॥ स्तौमि.... तस्य पट्टपूर्वाचलशिखरे रविरिव जगदुद्योतः । विजयनेमिसूरिरिह जातः सकलशुभानां स्रोतः
॥४॥ स्तौमि.... सौराष्ट्रे मधुपुरवरनगरे वर्षाद्यदिने प्रातः । निधि-लोचन-निधि-चन्द्र(१९२९)वत्सरे जातो महसां व्रातः ॥५॥ स्तौमि.... दीवाली तज्जननी ख्याता, लक्ष्मीचन्द्र इति तातः । विनयवांश्च कुशलस्तत्तनयो नेमचन्द्र आख्यातः ॥६॥ स्तौमि.... बाण-वेद-निधि-विधुमित(१९४५)संवति ज्येष्ठशुक्लसप्तम्याम् ।। वृद्धिविजयगुरुपार्श्वे दीक्षां प्राप्तवान् स बहु रम्याम् ॥७॥ स्तौमि.... नेमिविजय इत्यभिधां प्राप्य ज्ञान-तपो-व्रतलीनः । ख-रस-नन्द-शशधरमित(१९६०)वर्षे गणि-पण्डितपदपीनः ॥८॥ स्तौमि.... वेद-रसाम्बर-विधुमित(१९६०)वर्षे भावनगरपुरि जातः । सूरीणां प्रथमोऽस्मिन् शतके विहितयोगसङ्घातः ॥॥ स्तौमि.... सकलमतिक्रान्तं तस्याऽऽयु: शासनसङ्ग्रहितार्थम् । ज्ञानार्जन-पाठन-नवसर्जन-तीर्थोद्धति-रक्षार्थम्
॥१०॥ स्तौमि....
२६ शासनसम्राड्-विशेषः
Page #38
--------------------------------------------------------------------------
________________
॥११॥ स्तौमि....
॥१२॥ स्तौमि....
जिनशासनसम्राड् गच्छेशः सूरिचक्रचक्री च । गीतार्थोऽथ जगद्गुरुराजः शुद्धब्रह्मवती च तस्य गुणानां गानं कर्तुं, ननु मे नाऽऽस्ते शक्तिः । तदपि प्रसभं तद्विषये मां नुदति हृदिस्था भक्तिः । विवेकहीनो गुणरहितोऽहं दुर्बोधोऽजश्चाऽथ । त्वद्गुणगानात् स्यां हि सुवृत्त इत्याशासे नाथ ! निर्मलजलकलशं परिगृह्य पूजेद् यो गुरुवर्यम् ।। प्राप्स्यति सोऽथ सकलकल्याणं शुद्धशील इह वर्यम्
॥१३॥ स्तौमि....
॥१४॥ स्तौमि....
द्वितीया चन्दनपूजा
दहत्यात्मगुणान् सर्वान् भवदावानलो द्रुतम् । शमयत्यचिरात् तं च जैनदीक्षा समादृता ॥१॥
दीनतायाः समस्तायाः क्षयः स्यात् सत्वरं यया । गुणालीनां सुजननी दीक्षा साऽऽराध्यतां बुधैः ॥२॥
मुमुक्षा यदि चित्ते स्यात् सद्गुरोः स्याच्च सन्निधिः । वैराग्यं चापि शुद्धं चेत् दीक्षाऽमोघा भवेद् ध्रुवम् ॥३॥
वर्ण्यते पत्र सद्दीक्षा नेमिसूरीशसदगुरोः । संयमाराधनं शुद्धं स्फारं ज्ञानार्जनं तथा ॥४॥
सेवनात् पूजनाद् ध्यानात् सद्गुरोः पादपद्मयोः । शाम्यन्ति पापसन्तापाश्चान्दनं तेन पूजनम् ॥५॥
गुरुगुणसङ्कीर्तनम् | २७
Page #39
--------------------------------------------------------------------------
________________
गीतिः (रागः हालो हालो हालो हालो मारा नन्दने रे....)
दीक्षामङ्गीकृतवन्तं प्रणमन्तु सज्जना रे.... फलितः पुण्यसमूहो नेमचन्द्रविहितो ध्रुवं रे जातो बाल्ये वयसि दृढतरविरागभाक् हित्वा शिक्षण-वाणिज-कुटुम्बकानि सगौरवं रे धार्मिक-संस्कृतशिक्षार्थं कृतबुद्धिाक्..... दीक्षा० ॥१॥
काव्यम् भावनगरपुर्यां हि पित्रोरनुज्ञया गतः । वृद्धिचन्द्रगुरोः पार्श्वे ज्ञानार्जनसुहेतुतः ॥२॥
__ गीतिः सुगुरुर्वृद्धिचन्द्र इह संविग्नो ननु संयमी रे सुविहितमार्गदेशको हितकारी शमिराट् तत्पदसेवनतश्च ज्ञानाभ्यासपुरोगमी रे एवं वैराग्येऽपि प्रष्ठोऽभूद् विभ्राट.... दीक्षा० ॥३॥
काव्यम् दुःखपूर्णोऽस्ति संसारस्तस्याऽसार: प्रभासते । प्रव्रज्यां च विना तस्य कालोऽपि विषमायते ॥४॥
गीतिः
दीक्षाग्रहणार्थं न हि पित्रोरनुमतिराप्यते रे गुरवोऽनुमतिमृते न हि दत्ते तां साक्षात् तेन च निश्चयमथ कृत्वा गृहवासस्त्यज्यते रे वैराग्यं हि विजयते प्राकृतपुण्यवशात् ॥५॥ दीक्षा....
काव्यम् गृहं त्यक्त्वा मुनेर्वेषं धृत्वा स्वयं समागतम् । संवीक्ष्य गुरुणा दत्ता दीक्षा तस्मै विरागिणे ॥६॥
२८
शासनसम्राड्-विशेषः
Page #40
--------------------------------------------------------------------------
________________
गीतिः गुरुणा नेमिविजय इत्यभिधा दत्ता सादरं रे जननी-तात-कुटुम्बान् सोऽप्यनुकूलितवान् तैरप्याशीर्दत्ता “भवमूलं जहि सत्वरं" रे एष च शास्त्राभ्यासे लीनोऽभून्मतिमान् ॥७॥ दीक्षा....
काव्यम् शाब्दे न्याये स्वसिद्धान्ते पारगोऽभूत् स लीलया । अन्यांश्चाऽध्यापयामास गर्विष्ठानां च गर्वहा ॥८॥
गीतिः स्वगुरोर्वैयावृत्त्ये सावधानमतिको ह्ययं रे त्याग-विराग-तपस्सु च सुतरामुद्यमवान् अनिशं संयमशुद्धाराधननिरतः स स्वयं रे तेन च गुर्वाशींषि नितरामधिगतवान् ॥९॥ दीक्षा....
काव्यम् गुरोः स्वर्गमनोर्ध्वं च सोऽभूद् ज्ञानार्जने रतः । शास्त्रपूतैः प्रवचनैः सर्वत्राऽभूच्च विश्रुतः ॥१०॥
गीतिः निजजीवनमपि शास्त्रैर्नियमयति च खलु सोऽनिशं रे नैकग्रन्थप्रणेता निर्मलप्रज्ञावान् जिनशासनगगनाग्रतले सज्ज्ञानविरोचिषं रे सर्वानुग्रहकामनया स नु दीपितवान् ॥११॥ दीक्षा....
काव्यम् सर्वेषामागमानां ते योगविधिपुरस्सरम् । स्वाध्यायं मुनिषु शुद्धं युगेऽत्राऽवर्तयन् वरम् ॥१२॥
गुरुगुणसङ्कीर्तनम् । २९
Page #41
--------------------------------------------------------------------------
________________
गीतिः श्रीहरिभद्रमुनीशैर्यशोविजयवाचकवरै रे हेमाचार्यैश्वाऽपि रचितग्रन्थानाम् पठनाध्यापनमुद्रणकर्माणि ननु गुरुरै रे ऐदम्प्राथम्येन कृतानि हिताय सताम् ॥१३॥ दीक्षा....
___काव्यम् एवं ज्ञानप्रवृद्ध्यर्थं सर्वात्मना प्रयलवान् । विदुषामाश्रयस्थानं जगत्यपि प्रसिद्धिमान् ॥१४॥
गीतिः कन्याशाला स्तम्भनपुरनगरे ननु स्थापिता रे धार्मिक-संस्कृतशालाः बहुशः स्थापितवान् ज्ञानाराधनशीलगुरुर्नु सकलहितवाञ्छिता रे तस्य ज्ञानेनाऽभूत् सोऽपि हि शंवान् ॥१५॥ दीक्षा....
३० शासनसम्राड्-विशेषः
Page #42
--------------------------------------------------------------------------
________________
तृतीया पुष्पपूजा षण्णां जीवनिकायानां, पालकस्तातसन्निभः । यतनावान् दयालुश्च, मुनिर्भवति सर्वदा ॥१॥
सर्वदा समतायुक्तः, स्थूलसूक्ष्मशरीरिषु । जिनोक्तरीत्या भावेन, द्रव्येणाऽपि दयायुतः ॥२॥
दयाकार्याणि यानीह कृतानि नेमिसूरिभिः । तेनोपमामहं तेभ्यो ‘लघु-हीर' इति ददे ॥३॥
आमोदपूर्णपुष्पैश्च भरितं सत्करण्डकम् । ढौके भवत्कृपामोदप्रसारार्थं गुरुत्तमाः ! ॥४॥
गीतिः (राग: वैष्णवजन तो तेने रे कहीए..../ वीरजिणंद जगत उपकारी)
वन्देऽहं सद्गुरुभगवन्तं भावदयोदन्वन्तं रे मनो-वचः-कायैः शमवन्तं स्वात्मगुणैर्विलसन्तं रे ॥१॥ वन्देऽहं.... दुःखितमीक्षित्वा सद्दयया नयनयुगं ननु गलति रे जनमथ वा पशुजनमथवाऽपि नूनमेष उद्धरति रे ॥२॥ वन्देऽहं.... वध्यपशूनामुपरि यदा हि गुरुदृक्पातो भवति रे गुरुकरुणातोऽवश्यं तेषां संरक्षणमथ भवति रे ॥३॥ वन्देऽहं.... गुरुभिर्बहुषु प्रदेशेष्वेवं जीवरक्षणं कृतमिह रे जीवदयासंस्थानामृणमथ प्रेरणया दूरितमिह रे
॥४॥ वन्देऽहं.... अब्धितटीयेषु ग्रामेषु सौराष्ट्रे विहरगी रे ज्चालितानि ह्यनले जालानि दाशान् प्रबोधयनी रे ॥५॥ वन्देऽहं.... राजादीनुपदिश्य हि गुरवो जीवदयां कलयन्तो रे व्यसनमुक्तिमथ सौराष्ट्राणां राजभिरनुरचयन्तो रे ॥६॥ वन्देऽहं....
गुरुगुणसङ्कीर्तनम् । ३१
Page #43
--------------------------------------------------------------------------
________________
॥७॥ वन्देऽहं....
॥८॥ वन्देऽहं....
गुरुसान्निध्यं यत्र भवेन्ननु तत्र न हिंसाचरणं रे गुरूपदेशाज्जीवदयार्थं भवति च धनसङ्ग्रहणं रे नेत्र-सिद्धि-निधि-गगनाब्दे(१९८२) किल गूर्जरदेशे जाता रे अतिवृष्टिस्तत्कारणतश्च घोराऽऽपत् सजाता रे । अनुकम्पाजलनिधिगुरुराजो जनतार्थं धनचयनं रे भोजनगृहमपि धर्मिजनार्थं कारितवन्तः श्रयणं रे दयानुकम्पाकार्याण्येवमगण्यानि विहितानि रे कुणाशीलप्रमगुरुराजैः कथमहमिह गायानि ? रे ।
॥९॥ वन्देऽहं....
॥१०॥ वन्देऽहं...
३२ / शासनसम्राड्-विशेषः
Page #44
--------------------------------------------------------------------------
________________
चतुर्थी पुष्पपूजा जिनाः हि प्राप्य कैवल्यं तीर्थं प्रवर्तयन्त्यरम् । विना तीर्थं च तीर्थशाः सम्भवन्त्येव नो किल ॥१॥
चतुर्विधोऽस्ति सङ्घो यः प्रथमो वा गणाधिपः ।
तीर्थमित्युच्यते तच्च नमन्ति जिनपा अहो ! ॥२॥ भावतीर्थं समाश्रित्य द्रव्यतीर्थं समुलसेत् । भावोत्पादाद् द्रव्यमपि तीर्थं स्थावरमृद्धिमत् ॥४॥
__ जिना गणधराश्चापि मुनयोऽन्येऽपि साधकाः ।
यत्र मोक्षं लभन्ते हि तत्र तीर्थं विरच्यते ॥५॥ एवं जातानि तीर्थानि कारणैर्विविधैरिह । परन्तु कालग्रस्तत्वात् जीर्णानि कानिचित् खलु ॥६॥
तेषामुद्धरणं कर्तुं रक्षणं वर्धनं तथा ।
अस्मिन् युगे प्रयतितं पूज्यैः श्रीनेमिसूरिभिः ॥७॥ तपागच्छाधिपतयो नेमिसूरिगुरुत्तमाः । तीर्थरक्षाप्रवृत्तौ हि सङ्घाधाराः सदाऽभवन् ॥८॥
तीर्थोद्धर्तृगुरूणां नु प्रसरेद् भुवने यशः । तदर्थं धूपपूजां हि करोमि गुरुसम्मुखम् ॥९॥
गीतिः (रागः तीरथनी आशातना नवि करिये) तीर्थाराधने सज्जनाः प्रसजन्तु, प्रसजन्तु रेऽनुषजन्तु, भवजलनिधिमाशु तरन्तु, वियतां सुखदाम..... नैकानि तीर्थानि नु जीर्णानि, लोकैर्विस्मृतप्रायाणि, गुरुणा ह्यनुभूय दुःखानि, उद्धृतानि मुदा..... कदम्बगिरितीर्थोद्धतिरथ विहिता, प्रत्यूहसमूहं जित्वा, ग्रामीणान् विश्रम्भयित्वा, जाता जय-वाक्.....
गुरुगुणसङ्कीर्तनम्
Page #45
--------------------------------------------------------------------------
________________
४...
नष्टचरं श्रीशेरीसाभिधतीर्थं, गुरुभिर्यतितं हि तदर्थं, देवसाह्यात् तन्नवीभूतं, स्थानं यशसाम्.... मरुधरदेशे कापरडातीर्थमस्ति, इह भिल्लसमूहो वसति, बहुशोऽपक्रियाः विदधाति, जिनचैत्ये हहा ! ...... भैरवपुरतः प्राणिबलिं स हि धरति, मदिरामपि बहु ढौकयति, तीर्थं च सदाऽऽशातयति, न हि त्राता कोऽपि.....
सूरिवरा ननु तीर्थमिदं रक्षन्ति, भैरवमूर्ति विसृजन्ति, बहुकष्टैन हि त्रस्यन्ति, दृढसत्त्वगृहम्..... जावालनगरे हिंसाचारं रुद्ध्वा, अम्बिकालयमथ रक्षित्वा, नृपसाह्यं चैव गृहीत्वा, रचितं जिनसद्म..... राणकपुर-स्तम्भतीर्थ-मातरतीर्थं, वामज-तालध्वजतीर्थं, मधुमती-वलभीपुरतीर्थं, गुरुभिरुद्धृतम्..... तारङ्गा-गिरनार-शत्रुञ्जयेषु, सम्मेतशिखरमुख्येषु अन्येष्वपि जिनतीर्थेषु, भयमासीत् प्राक्.... आक्रमका बहवः सदाऽप्यायान्ति, इतरेऽपि मुधा पीडयन्ति, गुरवो निजबुद्ध्या तथाऽपि, रक्षन्ति मुदा..... एवं साधारतया गुरुराजैः, प्रत्यूहतमोदिनराजैः, तीर्थावनमिह कृत्वा यः, प्राप्तं यशोधाम..... शासन-तीर्थसुरागतो पतिशुद्धा बोधि-शीलगुणाद्यैर्वृद्धा, भवभय-संयमरुचिऋद्धा सम्पद् गुरूणाम् ....
३४ शासनसम्राड्-विशेषः
Jain Educatioriternational
Page #46
--------------------------------------------------------------------------
________________
पञ्चमी दीपकपूजा युगप्रधाना बहवः सञ्जाता वीरशासने । वर्याः शासनधुर्याश्च शासनोगासने रताः ॥१॥
सर्वेषां सूरीणां तेषां भासो यद्दर्शनाद् भवेत् ।
नेमिसूरि: स जयतु युगप्रधानसन्निभः ॥२॥ हेमचन्द्र-हीरसूर्योः हेम-हीरयुगौ यथा । वृत्तो नेमियुगो नेमि-सूरिपस्य वरस्तथा ॥३॥
अयं निजः परो वेति-हित्वा सङ्घहितेच्छया ।
गुरुभिर्व्ययितं सर्वं, क्षणशो निजजीवनम् ॥४॥ एतस्मात् कारणात् प्राप्ते गुरुणा बिरुदे वरे । जिनशासनसम्राट् च तपागच्छपतिस्तथा ॥५॥
समुज्ज्वलति दीपो हि जैनशासनमन्दिरे ।
नेमिसूरीशसदृशस्तेनाऽस्तु दीपपूजनम् ॥६॥ शासनोद्योतनं श्रेष्ठं गुरुणा यत् प्रवर्तितम् । निर्मलं दीपज्योतिधूत्वा तद् दर्शयाम्यहम् ॥७॥
गीतिः
(रागः तेजे तरणीथी वडो रे....) शासनभासनदीपका रे परमप्रभावकराः जिनशासनशुचिसेवने रे त्रिकरणयोगपरा रे गुरवो सिंहसमानाः सत्त्वतो रे व्याप्ता दृढसम्यक्त्वतो रे संविग्नाः प्रवराः ...१... मनसा वाचा कर्मणा रे ब्रह्मव्रतनिष्ठाः बाल्यादेवाऽऽजीवनं रे शुद्धचरितप्रष्ठाः रे गुरवो... एतच्छीलप्रभावतो रे बिम्बप्रतिष्ठा यत्र क्रियते गुरुभि-र्जायते रे मङ्गलमाला तत्र रे गुरवो...
गुरुगुणसङ्कीर्तनम् । ३५
T
Page #47
--------------------------------------------------------------------------
________________
लुप्ता योगविधि-क्रिया रे प्रायः श्रीसङ्के तामुद्धृत्य प्रवर्तिता रे सूरिवरैरनधै रे गुरवो... शास्त्र-परम्परमादृतं रे योगोद्वहनैरलम् सुविहितसूरिपदोन्नता रे शतकेऽस्मिन् प्रथमं रे गुरवो... पूजनविधयो बहुविधा रे विधिग्रन्थेभ्यो वराः लोकोपकृत्यै ह्युद्धता रे गुणकारिप्रवरा रे गुरवो... प्राणप्रतिष्ठासद्विधी रे रुद्धः सङ्के भयात् सत्त्वबलाद्धि प्रवर्तितो रे गुरुभिर्विघ्नजयाद् रे गुरवो... जिननिलया निर्मापिता रे बोधेः शुद्ध्यर्थम् ... जिनप्रतिमाश्च प्रतिष्ठिता रे धर्मसमृद्ध्यर्थं रे गुरवो... येषामुपदेशदानतो रे बहुसङ्घाः प्रवराः षड्'रि विधानैर्निःसृता रे तीर्थायात्रासु परा रे गुरवो... माकुभाईश्रेष्ठिनो रे सोऽतीव महान् ...। अहमदाबादतो निःसूतो रे गुरुनिश्राबलवान् रे गुरवो... जीर्णोद्धतिर्जिनसद्मनां रे उपधानादिक्रियाः उद्यापनमुख्योत्सवा रे गुरुपुण्यैरक्षया रे गुरवो... ज्ञानालय-ग्रन्थालया रे पौषधशाला वराः सद्धर्मशालाः स्थापिता रे गुरुवचनैः प्रवरा रे गुरवो... क्लेश-कलह-कोलाहला रे सङ्केषु ये जाताः गुरुवचसां हि प्रभावतो रे शीघं ते शान्ताः रे गुरवो... गुरुभिः शासनसेवने रे सर्वात्मना यतितम् । चित्त-तनु-जनुषां तथा रे भवनं सफलीकूतं रे गुरवो... गुणजलनिधयो गुरुवर रे सत्त्वशीलधुर्याः मन्दधिया नहि मादृशा रे कथमपि ते वर्णाः रे गुरवो...
__ ३६ / शासनसम्राड्-विशेषः
Page #48
--------------------------------------------------------------------------
________________
षष्ठी अक्षतपूजा
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः । गुरवः किन्तु विरलाः शिष्यचित्तापहारकाः ॥१॥
तमोमयं तु शिष्याणां जीवनाध्वानमाशु ये । प्रकाशयन्ति प्रकटं गुरवो दीपकोपमाः ॥२॥
निःस्पृहाः सरलोदाराः संवेगिनश्च संयताः । गुरवो दुर्लभाः लोके शासनैक हितैषिणः ॥३॥
ईदृशां गुरुवर्याणां चन्द्रशीतलसन्निधिम् । सम्प्राप्य भाग्यवान् शिष्यः साधयेदात्मनो हितम् ॥४॥ संयमाराधने शुद्धे, गुर्वाज्ञापालने रतः । समर्पितश्च यः शिष्यः, कल्याणं तस्य निश्चितम् ॥५॥
एतद्धि शासनं जैनं श्रेष्ठयोर्गुरुशिष्ययोः । संयोगादेव निर्विघ्न -मविच्छिन्नं च वर्तते ॥६॥
साम्प्रतं कलिकालेऽस्मिन् सद्गुरुर्दुर्लभः शुचिः । दुष्प्रापश्चाऽपि शिष्पौघो गृह्णन् गुरुपरतन्त्रताम् ॥७॥
अद्भुताः स्वयमेवाऽऽसन् गुरवो नेमिसूरिपाः । महान्तः प्रतिभावन्तः तच्छिष्याश्चाऽपि विश्रुताः ॥८॥
गुरोः सम्मुखमालिख्य नन्द्यावर्त्तं सदक्षतैः । सद्गुणैरक्षतान् बाढं तच्छिष्यान् वर्णयाम्यहम् ॥९॥
गीति:
(राग: जिम जिम ए गिरि भेटीए रे....) पुण्यैः सद्गुरुराप्यते रे सद्रलत्रयदायी सुपुण्याः सच्छरणं करुणालयो रे जिनवचनामृतपायी सुपुण्याः सुगुरुपदाम्बुजसेवया रे जन्म सफलतां यायि सुपुण्याः गुरवः स्युराराधका रे केऽपि प्रभाविताभाजः सुपुण्याः उभयगुणैरतिशोभितो रे नेमिसूरिगुरुराजः सुपुण्याः
m
રો
गुरुगुणसङ्कीर्तनम्
३७
Page #49
--------------------------------------------------------------------------
________________
सद्गुरवो भवभीरवो रे वत्सलताजलनिधयः सुपुण्याः प्राप्तं तच्छरणं यकै रे तेषां सिद्धा निधयः सुपुण्याः રો श्रीदर्शनसूरीश्वरो रे प्रथमः पट्टधरो यः सुपुण्याः शास्त्राणां पारङ्गतो रे न्यायविदां ननु मुख्यः सुपुण्याः લોકો तदनु ह्युदयसूरीश्वरो रे शुद्धचरित्रासेवी सुपुण्याः गीतार्थेषु शिरोमणी रे गुरुपदपङ्कजसेवी सुपुण्याः
રેકો. तच्छिष्यो हि दयानिधी रे सङ्घनायक आख्यातः सुपुण्याः श्रीनन्दनसूरीश्वरो रे ज्ञानितया भुवि ख्यातः सुपुण्याः ોદ્દો शिष्यो गभीरस्तृतीयको रे विज्ञानामुनीशः सुपुण्याः । विमलः शान्तरसाकरो रे चारित्रगुणतटिनीशः सुपुण्याः ॥७॥ तुर्यः पद्मसूरीश्वरो रे ज्ञातसकलसिद्धान्तः सुपुण्याः । भूरिग्रन्थविधायको रे जगदुपकारी प्रशान्तः सुपुण्याः ટો अमृतसूरिवरस्ततो रे कविरत्नं बुधधुर्यः सुपुण्याः । कृतयलो धर्मद्युतौ रे शास्त्रविशारदवर्यः सुपुण्याः । वैयाकरणशिरोमणी रे संस्कृतभाषाप्राज्ञः सुपुण्याः । श्रीलावण्यसूरीश्वरो रे षष्ठ: शिष्यो विज्ञः सुपुण्याः श्रीकस्तूरमुनीश्वरो रे प्राकृतवाक्कृतिमुख्यः सुपुण्याः । सिद्धान्ताम्बुमहोदधी रे परमगुरोश्च प्रशिष्यः सुपुण्याः दिग्दन्तावलसन्निभा रे अष्टावपि द्युतिमन्तः सुपुण्याः । मध्ये नेमिसूरीश्वरा रे ग्रहगणपतयः सन्तः सुपुण्याः ॥१२॥ तेजस्विनोऽन्ये प्रभूतका रे सच्छिष्या विद्वांसः सुपुण्याः । शासनभासनकारका रे संयमिनो ज्यायांसः सुपुण्याः ते शिष्याः विबुधा बहून् रे ग्रन्थान् विरचितवन्तः सुपुण्याः । संस्कृत-प्राकृत-गुर्जरै रे लोकानुपकृतवन्तः सुपुण्याः
૪ एतच्छिष्यकदम्बकं रे गुर्वाज्ञामनुसारि सुपुण्याः । आराधन-सत्साधनै रे जन्मभ्रमणविनिवारि सुपुण्याः शीलन्धरगुरुशासने रे अहमपि स्थान प्राप्तः सुपुण्याः । एतन्मम सौभाग्यकं रे जनिसाफल्यमिहाऽऽप्तः सुपुण्याः ॥१६॥ जिनगणधरपट्टाम्बरे रे सत्तेजा दिनराजः सुपुण्याः । प्रतिजनि मम सम्प्राप्यतां रे एतादृशगुरुराजः सुपुण्याः
સાફરો
शासनसम्राड्-विशेषः
Page #50
--------------------------------------------------------------------------
________________
सप्तमी नैवेद्यपूजा सद्गुणाः सन्ति षटत्रिंशद् गुरूणां शास्त्रवर्णिताः । तैः सर्वैः शोभमानं तु नमामि नेमिसूरिपम् ॥१॥
द्रव्य-क्षेत्र-काल-भावान् जानानो निजप्रज्ञया ।
साध्यं साधयति शुद्धं शुद्धसाधनशक्तितः ॥२॥ आशयः सुविशालोऽस्ति समुदारं मनः परम् । परमतस्य सह्यत्वं दीर्घदृष्टिर्वरा परा ॥३॥
निजः परो वा यः कोऽपि सम्पर्क सद्गुरोरियात् ।
पङ्क्तिभेदमकृत्वैव कल्याणं तस्य वाञ्छति ॥४॥ भववैद्यसमा ये च भूताश्च मधुरैर्गुणैः । अतो मधुरनैवेद्यैः पूजयामि गुरुन् मुदा ॥५॥
गीतिः
(रागः भैरवी) गुरवो जिनशासनशृङ्गाराः
गुरवः शिवपदसाधनसाराः वर्णनमिह भावाचार्याणां शास्त्रेषु यत् कथितं तत् सर्वं ननु परमगुरूणां चरिते सम्यक् प्रथितम्...
निरुपमप्रतिरूपं सुदृढं ब्रह्मचर्यनिर्वहणम्
निखिले साधुगणे इह काले नेमिगुरूणां प्रवणम्... जैनन्याये बहुसद्ग्रन्थान् गुरवो विरचितवन्तः हैमे व्याकरणेऽपि विवरणे लघु-गुरुणी कृतवन्तः...
शास्त्राणामविरुद्धं वृत्तं सुविहिततर आचार:
गुरुभिरथाऽऽचीर्णः प्रथितश्च नियतं धर्माधारः... बहुविधसमुदायानां धुर्या वर्याः पूज्याचार्याः येषां निर्णयमनुमन्वन्ते जयन्तु ते गुरुवर्याः ...
गुरुगुणसङ्कीर्तनम् | ३९
Page #51
--------------------------------------------------------------------------
________________
कलहा अथ च समस्याः सङ्के यदा बाढमुद्भूताः
मुनिसम्मेलननिश्चितमतयो गुरवस्तदा प्रवृत्ताः ... ६... अम्बरनिधिनिधिचन्द्र(१९९०)मिताब्दे राजनगरपुरि सारम् सकलगच्छसाधूनां जातं सम्मिलनं सुखकारम् ...
सर्वमान्यगुरुभिस्तत्राऽऽप्तं सर्वेषां साहाय्यम्
दीर्घदृष्टियुतबुद्ध्या लब्धं शुभकारि च साफल्यम्... ..८... आणंदजी-कल्याणजिसंस्था-याः पथदर्शनकाराः नगरसेष्ठिनः सङ्घाग्रण्यो येषामाज्ञाधाराः ...
गच्छाधिपतेः पुण्यं किल भोः ! सकलसङ्घमङ्गलकृत्
परमगुरूणां शासनकाले एषोक्तिः सफलाऽभूत्... १०... शिष्याणामनुशासनकार्य वज्रकठिनमुद्रा ये निरताः किन्तु हितकरणार्थं करुणाभृतहृदयास्ते...
गुरुवर्याणां पुण्ये चरणे यत्र तत्र कल्याणम्
पुण्या दृष्टिर्यत्र गुरुणां पतति, तत्र सुखममितम्... १२... निरपेक्षा निजपुण्येऽन्येषां दुःखे करुणाधारा: प्रदोषेषु मध्यस्था अपि प्रपीडाप्रतिकाराः ...
१३... शीलवतां तेषां सद्गुरूणां बहवो जगदुपकाराः क्थयेयं ननु क्थमहमबलो गुरवः कृपाकूपाराः ... १४...
शासनसम्राड्-विशेष:
Page #52
--------------------------------------------------------------------------
________________
अष्टमी फलपूजा सेवया शुद्धमार्गस्य प्रोज्ज्वलं जीवनं कृतम् । नापवादलेशोऽपि गुरुभिरादृतः कदा पूर्णरागः प्रवचने शुद्धं च व्रतपालनम् । देशनाऽवितथा चेति गुरूणां गुणसम्पदः एवं गुणसमृद्ध्या हि समृद्धा गुरुपुङ्गवाः । सम्प्राप्ताः स्थविरावस्थां कालो हि सर्वकारणम् ॥३॥ सप्तसप्ततिः सर्वायुर्दीक्षा वर्षे कषष्टिका । चत्वारिंशच्च वर्षाण्येकाधिकानि तु सूरिता मधुमतीपुरे जन्म-भुवि जन्मस्थलान्तिके ।। दीपावल्यां हि विध्यातो दीवालीसुतदीपकः संयमस्य फलत्वेन समाधिः साधितः शुचिः । अन्त्यकाले, त्वतोऽर्चेऽहं सूरीशं फलढौकनात् ॥६॥
गीतिः (रागः प्रीतलडी बंधाणी रे अजित जिणंदशुं । अपूर्व अवसर एवो....)
गुरुवर्याणां गौरवगाथा गीयताम् ॥ वार्धक्यं बहु पीडयति गुरुपुङ्गवं दुःखयति व्याधीनां वृन्दमतीव रे । शीघविहारी गुरुरपि हस्तालम्बनं वाञ्छति शिष्यजनानां प्रतिपदमेव रे.... १ ... गुरुवर्याणां...
साभ्रमतीपुरि भुवन-ख-खाक्षि(२००३)वत्सरे चातुर्मास्यं गमितं मङ्गलसद्म रे । श्रीसले चाऽऽशीर्वर्षा गुरुभिः कृता तेनाऽस्ति शुभमद्याऽपि निश्छद्म रे ॥.... २ ... गुरु०... विहरणकाले क्षीणतया वपुषो ननु पादन्यासेऽशक्ता गुरवोऽतीव रे ।
गुरुगुणसङ्कीर्तनम् । ४१
Page #53
--------------------------------------------------------------------------
________________
४२
विज्ञपयन्त्यपवादाचरणार्थं तदा शिष्याः सङ्ग्राग्रण्यश्वाऽपि सहैव रे.... ३
नैवाऽऽचर्यः प्राणान्तेऽप्यवादको गुरुवर्याणामेषा दृढसन्धाऽत्र रे शिष्याणां पुनरधिका चिन्ता सुस्थिते: तेनैवं ते प्रार्थयमानास्तत्र रे.... ४
शिष्याः सङ्घजनाश्च समेऽपि नु चिन्तिता मिलिता गलिताश्रुजला भक्तेः सद्म रे ईक्षित्वा तद् गुरुहृदयं द्रवितं तदा स्वीकृतवन्तो विज्ञप्तिं गुणवर्ष्म रे
...
ततः कदम्बाद्रौ तीर्थे तु समागताः वर्षावासकरणमिह मनसिकृत्य रे नगरश्रेष्ठि- सङ्ग्राग्रण्यः किन्त्वागताः मधुमतीपुरमानेतुं तानधिकृत्य रे .... ७
अपवादोऽसौ प्रथमः शुद्धे जीवने सेवित्वा तं विहृताः सौराष्ट्रं च रे वर्धमानपुर - बोटादादिषु सोत्सवं प्रतिष्ठादि कृतवन्तः सु-विधिभिश्च रे.... ६
शासनसम्राड्-विशेषः
५
करिष्यते नहि चैत्यप्रतिष्ठानं मया सहसा गुरुभिर्गदितं भावि मर्म रे श्रुत्वा तत् स्तब्धा जाताः सर्वे जनाः रुदन्त्यरुद्धमुखाश्च समे गतशर्म रे.... ८ आगतवन्तो जन्मभुवि गुरुवस्ततः इन्द्रिय-ख-नभो-नयन (२००५) मिते संवत्यरे सङ्घ-नगरयोर्मङ्गलमालाऽवर्तत सर्वेषां हृदयानि हर्षभृतान्यरे.... ९
गुरु०
गुरु०
***
गुरु०
...
...
गुरु०
गुरु०
गुरु०
गुरु०
Page #54
--------------------------------------------------------------------------
________________
किन्तु तदाऽस्वस्थीभूता गुरुसत्तमाः संस्तारकवशमाप्ताः क्षीणतया हि रे समाधानमद्भुतमासीत् चित्ते परं तन्मयता स्वरमणतायां सततं हि रे.... १०
चटशाखी पतितोऽकस्माद् चड्रो ननु तारकपातः खे निर्घातोऽथाऽपि रे अथाऽन्यदा मध्याह्ने मार्तण्डाभितः मण्डलमशुभं जातं गगनव्यापि रे.... ११ निवेदयन्ति सङ्केता अशुभा इमे आयत्यामशुभां घटनां च तमांसि रे गुरुदेsपि स्वास्थ्यहानिरनिशं तदा सङ्ग्राग्ग्राणां चिन्ताचान्तमनांसि रे १२ शिष्या अप्यनिशं गुरुसेवाकर्मणि सावहिता वैयावृत्त्ये प्रगुणाश्च रे चिकित्सका अनुभविनो रोगपरीक्षणे आगत्योपचरन्ति गुरुवर्यांश्च रे
१३
वैद्येङ्गितमथ सर्वैर्ज्ञातचरं तदा अन्तिमवेला सन्निहिता गुरूणामरे समादृता बुधशिष्यैर्लघु निर्यामणा गुरुवर्यास्त्वपि निर्भीका मृत्यावरे धनत्रयोदश्यहनि गुरुभिर्भाषितं दीपावलीमिह सन्द्रक्ष्यामि नैव रे प्रत्याख्यातं दीपालीदिवसेऽशनं स्वात्मलीनता सहजसमाधिश्चैव रे.... १५
....
१४
आवश्यकषट्कं कृत्वा सायं खलु चित्तं कृत्वा धर्मध्यानमयं च रे आत्मतेजसा द्युतिमद् गुरुवदनं ननु विस्मितवन्तः शिष्याः सङ्ग्रो वीक्ष्य रे.... १६
...
***
गुरु०
गुरु०
गुरु०
गुरु०
गुरु
गुरु०
***
गुरु०
गुरुगुणसङ्क
४३
Page #55
--------------------------------------------------------------------------
________________
सप्तवादने ससमाधि खलु साधितो गुरुभिर्मृत्युमहो भव्यो रम्यश्च रे हित्वौदारिकपुद्गलसंयोगं तदा गुरुभिर्दिव्यगतिः प्राप्ता प्रवरा च रे.... १७ ... गुरु० दीवालीमातुर्जातास्ते यत्र नु । तत्र विदेहा दीपावलिदिवसे हि रे प्रोद्भूता यन्मूर्तिः कार्तिकप्रतिपदि तद्दिवसे पञ्चत्वं प्राप्ता सा हि रे
૨૮ शिष्य-सङ्ग-तपगच्छादि सकलं तदा गुरुविरहे निथिं सञ्जातं ह्यरे कर्म-काल-प्रकृतीनामेष क्रमो ननु सर्वैः स्वीकर्तव्यो निरुपायं हरे,
s देहहानभूमौ रचितं गुरुमन्दिरं अग्निदाहभुवि शोभते सच्चैत्यं च रे प्रममहोदयपूर्णपरमगुरवो मम शीलेन्दुर्वदति शरणं नित्यं च रे
४४ | शासनसम्राड्-विशेषः
Page #56
--------------------------------------------------------------------------
________________
कलशः
(रागः तोडी)
स्तवनं परमगुरूणां गीतं गुरुभगवत्स्तवनेन ममाऽन्तःकरणं जातं शीतम्... स्तवनं ... गुरुगुणनीरनिधेः कुत्राऽपि सन्दृश्यते नह्यन्तः तत्पारं कथमहमिह प्राप्स्ये निःसत्त्वो मतिमन्दः ... तथाऽपि मा- साहसखगवन्मे साहसमेतज्जातम् गुरुवर्याणां पुण्यप्रभावात् सफलतया च समाप्तम्... अल्पोक्तिः पुनरुक्तिश्चाऽपि प्रतिपदमिह चेद् दृष्टा दुष्टोक्तिः सा नैवाऽस्ति पर - मलङ्कृतित्वेनेष्टा... गुरुदर्शनतः पुण्योदयमय-नन्दनवनमथ जातम् विज्ञानार्क करैश्वित्रं खलु बोधपद्ममिह भातम्... अमृततुल्यगुणैर्लावण्यप्रतिपूर्णं गुरुहृदयम् कस्तूरैणसदृशपरिमलमथ वासयति दिनिचयम्... श्रीविज्ञानसूरीश्वरपट्टे जातः कस्तूरसूरिः यशोभद्रसूरिस्तत्पट्टे तदनु शुभङ्करसूरि : . तत्पट्टोदयशैले सूर्योदयसूरिर्गच्छपतिः । शीलचन्द्रनामा तच्छिष्यो गुरुगुणगीतिं भणति... द्रविडदेशे चेन्नइनगरे गुरुनिश्रायां स्फीतम् चन्द्रप्रभजिनसान्निध्ये गुण-कीर्तनमेतद् गीतम्...
१...
२...
३...
४...
५...
६...
७...
C...
गुरुगुणसङ्कीर्तनम्
४५
Page #57
--------------------------------------------------------------------------
________________
प्रशस्तिः पूज्यैः सद्गुरुवौर्राचार्यैः शीलचन्द्रसूरीशैः । परमगुरूणां गीता गूर्जरवाण्या सुगुणगीतिः ॥१॥ सैषा गुरुगुणगीतिः समपद्यमनूदिता यथाधिषणम् । संस्कृतगिरेति जातं गुरुगुणसङ्कीर्तनं शुभदम् ॥२॥ शासनसम्राजामिह सूरिपदारोहणशतीमवाप्य । वेदरसाभ्राक्षि(२०६४)मिते संवति पुण्यतमावसरे ॥३॥ गुरुभक्त्यर्थं लिखितं गुरुभक्तानां च भक्तिसक्तानाम् । गुरुगुणसङ्कीर्तनमिह वितनोतु समग्रकल्याणम् ॥४॥ युग्मम् ॥
४६ शासनसम्राड्-विशेषः
Page #58
--------------------------------------------------------------------------
________________
समर्पणम्
पण्डितशशिनाथ-झा-मैथिल:
(शार्दूलविक्रीडितम्) येषां बुद्धिरुपेत्य मुक्तिविषयं वृद्धिं गता गौरवान्नानन्दं तत एव याति कमलावासे विमुक्तादरा । गम्भीरागमयोगतोऽतिविमलामासेवमाना परां सूरिप्रौढिमनर्गलां भुवि चिरं ते सन्तु सूरीश्वराः ॥१॥
येषां दर्शनतोऽपि भव्यजनता भाग्योदयं मन्यते, सौख्यं नन्दनगं परं सुमतितो विज्ञानजं भाषते । सिद्धिं त्वष्टविधां सपद्मनिलयां नाडतो वरामीहते,
ते कल्पान्तमवन्तु धर्मकुसुमां विश्वम्भरां सूरयः ॥२॥ येषां वागमृतं निपीय विबुधा वीतस्पृहा जानते,
विषयषु भक्तिसुलभं रूपं परं तद्धितम ।
गीर्वाणोक्तिसुमावली यदुदितां कस्तूरसा नेहते ते धन्या मितजीवतत्त्वनिचयाः सूरीश्वरा वाग्मिनः ॥३॥
येषां नो कमला धनार्थिमहिता मानं गता मानिता सोमाद्यैरपि या सुमित्रपदवीं नीता सुभद्राशया । ते वाचस्पतितो वरा नृतिकलाः सल्लभा आगमे
सद्वीरोक्ति प्रकाशनासमसमुद्योता बुधाग्रेसराः ॥४॥ , येषां पादरजो नरेन्द्रमुकुटे यात्युन्नतिं मौक्तिकात्, रामाराममुखाऽपि कामघटना प्राप्ता न यन्मानसम् । ते वीरोक्तिविबोधिसम्पदतुला स्थैर्ये सुमेरुपमा नीत्या श्रीभरतावनौ कलिघटां भीष्मां जयन्तून्नता: ॥५॥
नेतस्तान् मितवानिधीन् प्रति मया सूक्त्याऽल्पया योग्यया रीत्या योजितया शमादिफलिका सम्मानतो योद्गता । स्पष्टाभासतया मितार्थविधुरा साऽन्योक्तिसूक्तावली
सन्नाम्ना प्रथिता सकर्णनिवहैराकल्पमस्त्वादृता ॥६॥ *स्वयंरचितस्य अन्योक्तिसूक्तावलीग्रन्थस्य समर्पणं पण्डितवर्येण पूज्याचार्यश्रीनेमिसूरिभगवते कृतमस्ति । इयं तत्रस्थैव स्तुतिः ॥
समर्पणम्
४७
saw.jahmedia.org
Page #59
--------------------------------------------------------------------------
________________
दण्डकच्छन्दोमयी गुरुस्तुतिः । पण्डितः जगदीश-झा-मैथिलः
जयति मुनिवरो महीमण्डले मण्डनो भारते चाडम्बरे द्योतनस्तेजसांराशिरासीत् स्वतेजश्चयैः सत्कदम्बादितीर्थोद्धृतौ पेशलो जैनधर्मोद्धुरो निर्भरो धर्मकृत्ये रतोऽनारतं प्राणिसावने बद्धकक्षः सदा दीनकारुण्यकल्पद्रुमः सज्जनः साधुसङ्के समानो महाबन्धुरो बन्धुवर्णोद्धरो विश्वविख्यातकीर्तिः कृतार्थोऽखिले शासने सर्वदा स्वीयततोऽमलान्तस्तलः कोविदस्तत्त्वविज्ञानपाथोनिधिः शेवधिः सद्विवेकावलेः प्राप्तशिष्यावलीचीर्णसद्वन्दनो नैकजैनागमश्रद्धसच्छ्रावकैः सेवितांहिद्वयो धर्मविस्तारकः सारसङ्ग्राहिचित्तो मरालो यथा नीर-दुग्धद्वयात् क्षीरपाणोद्यतो दुःखिदुःखावलीशान्ति-सन्तानको भीमसंसारकान्तारसंभ्रामिणां मार्गदेशी पर: कुत्सिताचारसक्तात्मनामम्भसा चारुचर्यासु शिक्षाव्रतः सुन्दरः सर्वदा सौम्यचित्तः सुधीः प्रेमपीयूषपाः पापवून्दापनोदादरो बन्धुरो निन्द्यकविली-दूरगोऽनारतं स्वार्थचिन्ता सदा त्यागचीर्णोद्यमोऽन्योपकारव्रतन्यस्तचित्तः सदा नेमिसूरीश्वरः सर्वलोकप्रियः प्रातरुत्थाय कल्याणकामैः सदा चिन्तनीयो मुदा निश्चलेनाऽऽत्मना बाल्यतो ब्रह्मचर्यव्रताराधकः साधकः सर्वजीवेषु साम्यव्रतस्याऽनिशं योगियोगीश्वरस्तेजसा भास्कर: प्रोच्चगाम्भीर्यतोऽसौ महासागरः॥
४८ | शासनसम्राड्-विशेषः
Page #60
--------------------------------------------------------------------------
________________
सम्पूज्या: गुरवः ।।
डॉ. वासुदेव वि. पाठकः 'वागर्थः' स्मरणं क्रियते गुरचरणानां, मननं मधुरं गुरुवचनानाम् ॥ गौरववन्तो गुरवश्वाऽस्मद् यच्छन्त्येय समग्रं शश्वत्; विनाशयित्वा तेऽज्ञानान्धं शं कुर्वन्ति च निजशिष्याणाम्; मननं मधुरं० ॥ भेदं विना भद्रभद्रैस्ते हितं साधयन्त्येव जीवने; अत्युदारता गुरुवर्याणां सम्पूज्यास्ते ननु लोकानाम्; मननं मधुरं० ॥ दानवमानवदेवानामपि व्यापकतश्च समग्राणामपि; समुत्सुकाः कर्तुं हि गौरवं; भक्तिश्चाऽऽत्मतया वन्द्यानाम्; मननं मधुरं० ॥
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५ (गुजरात)
RANDRAP
रमणीयपदावलिसकलितं, श्रमणीयकुलावलिसंलसितम् ॥ शमनीयहृदावलिसनितं,
कमनीयकलाकलितं ललितम् ॥११॥ सरसं मधुरन्धरणिप्रथितं, कविना रचितं हितदं जगति ॥ वरप्रेमकरं परमं प्रसृतं, कवितं रसितं सततं जयति ॥१२॥
(युग्मम्-गोमूत्रिकाबन्धः-तोटकच्छन्दः)
मुनिधुरन्धरविजयः
a namannmarwanamuasaiDuRIKA
सम्पूज्याः गुरवः ॥
४९
Page #61
--------------------------------------------------------------------------
________________
गुरुणा शिष्यगौरवम् । डो. वासुदेव वि. पाठकः 'वागर्थः'
परम्परायासहजामरता, ऋणमुक्त्या पावनता । गुरुशिष्ययोर्दिव्यान्यावान्, दृढायितुं तत्परता ॥१॥ स्मरणं कार्यं गुरुचरणानां, मननं मधुरं गुरुवचनानाम् । वन्द्यानां वैश्विकं वन्दनं, ध्यानं चैवाऽऽत्मनि लीनानाम् ॥२॥ प्राप्यते येन सत्येन प्रीत्यात्मिका, सर्वकल्याणदात्री त्वहिंसा । कान्तिदं शान्तिदं सत्यरूपं शिवं, सुन्दरं सद्गुरोराशिषा साधयेत् ॥३॥ गुरोः शरणसातत्यं संसारे सारदं शुभम् । तस्याऽऽशीर्वादसातत्यं संसारतारकं वरम् ॥४॥ अहङ्कारनाशेन च नम्राः, श्रद्धया च समृद्धिम् । कृत्वा सद्गुरुकृपया भद्राः, लभामहे समृद्धिम् ॥५॥ गौरवं गुरुवर्याणां पूज्यानां पूजनं प्रियम् । श्रद्धाविनयसेवाभिरर्चनमर्जनं वरम् ॥६॥
५० शासनसम्राड्-विशेषः
Page #62
--------------------------------------------------------------------------
________________
शुद्धं चित्तं शुद्धं वित्तं, सरलं सज्जीवनं विशुद्धम् । भद्रा वाणी, पाणी कार्ये सद्देशिक ! नत्वा संयाचे ॥७॥ गुरवः गौरवाढ्याश्च गौरवं गुरुसेवया । गुरुभ्यो गौरवं प्राप्यं, गुरुत्वं किं गुरुं विना ॥८॥ प्रपन्नेभ्यश्च शिष्येभ्यः सर्वज्ञानमयो गुरुः । ज्ञानं दत्वा परां शान्ति दिशत्येव; गुरुं नुमः ॥॥ यस्याऽऽज्ञया कार्यमहं करोमि, स एव विश्वस्य विकासहेतुः । चित्ते समेषां निवसन्सदैव, यः प्रेरकः स च गुरुर्वदान्यः ॥१०॥ स्वस्थं दीर्घ नरायुश्च सुखसमृद्धिदं परम् । आशीभिर्देशिकानां हि उद्-यानं जीवने वरम् ॥११॥ दक्षिणतश्चोत्तपर्यन्तम्, अखण्डभारतराष्ट्रकल्पनम् । एवं कृत्वा राष्ट्रगौरवं, भजे मुदा वैश्विकान् देशिकान् ॥१२॥ वर्णद्वयेन वैशिष्ट्यं गुरुपदे समन्वितम् । प्रथमे तु गुणोत्कर्षः ऋजुतैवाऽपरेण च ॥१३॥ सत्यं यत्परमं मुदाऽऽत्मनिरतैर्भद्रं यहोवात्मकमर्हन्-बुद्धमयं शिवं गुरुवरैर्नित्यं यहुर्मज्द वा । सत्-नामेति नु राध्यते सुमनसैः ह्यल्लाह ताओ इति, तत्त्वं तद् विदधातु शान्तिमतुलां तुष्टिं च पुष्टिं शुभाम् ॥१४॥
उदितः सूर्यः अज्ञानान्धनाशाय सद्गुरुवर्यः ॥ (हाइकु)
गुरुणा शिष्यगौरवम् । | ५१
Page #63
--------------------------------------------------------------------------
________________
अस्मद्गुरुम् डॉ. वासुदेव वि. पाठक: ‘वागर्थः'
करुणाकरं शान्तिप्रदं, पापादिहं जन-शं-करम् । सद्बुद्धिदं श्रेयस्कर-मस्मद्गुरुं प्रणता वयम् ॥ अस्मद्गुरुं त्रिजगद्गुरुं, विज्ञानदं संज्ञानदम् । भक्त्या यदेवाऽपेक्षितं, तत्सर्वदं प्रणता वयम् ॥ प्रणवात्मकं परमात्मकं, ब्रह्मेन्द्रविष्णुशिवात्मकम् । प्रणता वयं विश्वात्मकं, परमं शरण्यं सद्गुरुम् ॥ हिंसादिकाद् विनिवारकं, प्रीतिप्रदं ननु वत्सलम् । शिष्याय सर्वोत्कर्षदं, सज्जीवनाय नुमः परम् ॥ गुरोस्सत्प्रसादात् शिवा सन्मतिः स्यात् । शिवे सदतिः स्यात् सदोज़ गतिः स्यात् ॥
शासनसम्राड्-विशेषः
Page #64
--------------------------------------------------------------------------
________________
हे ज्योतिर्मय
वासुदेव वि. पाठकः 'वागर्थः'
हे ज्योतिर्मय सर्वशिवङ्कर व्यक्तरूप हे. दिव्यदेहधर ॥
सङ्क्रान्ता तव प्रोज्चलता स्यात्, हे देशिक ! मयि दिव्यतमा स्यात् । भद्रभद्रदाता हे सुखकर, हे ज्योतिर्मय सर्वशिवकर ॥ अज्ञानान्धनिवारकोऽसि हे, सन्मार्गस्य निदर्शकोऽसि हे। तेजोमय हे तत्त्वदो भव, हे ज्योतिर्मय सर्वशिवङ्कर ॥
भवेन्न मे विपरीता बुद्धिः, सद्व्यापारे स्यान्मे शुद्धिः । वन्दे गुरुवर सत्त्वदो भव, हे ज्योतिर्मय सर्वशिवङ्कर ॥
व्यक्तरूप हे दिव्यदेहधर, हे ज्योतिर्मय सर्वशिवङ्कर ॥
हे ज्योतिर्मय
५३
Page #65
--------------------------------------------------------------------------
________________
गजेन्द्र-मोक्ष:
C
जगन्नाथ पाठकः
રો
રૂ
॥४॥
॥५॥
निर्माणमसि विधातुर्जगति विशालस्त्वमेक इति जाने । गजराज ! विचरसि त्वं वनेषु निजयूथमध्यगतः पत्रैरश्वत्थस्य त्वं वर्तयसे फलैः कपित्यैश्च । अवधूत इव दिनानि त्वं गमयसि धूलिधूसरितः मन्दं मन्दं चलितं धीरं धीरं विलोकितं किञ्चित् । मुग्धं निमीलितं च त्वयि जनयन्तीह मोहं नः । कलभः सन् मदचलितो युवा च जरयेह जीर्णवृद्धश्च । त्वं जनयस्यानन्दं मङ्गलमूर्तिश्च साक्षात् त्वम् हिंग़र्जन्तुभिरधिकं पदे पदे काननेषु भरितेषु । विचरसि यूथगतस्त्वं निर्भयमेव स्वतत्रतया ऐरावत इत्याख्यः श्रुतो गजेन्द्रो बिडौजसोऽस्माभिः । दृष्ट्वा त्वामनुमातुं महाबलः शक्य एवेह त्वां प्रति हृत्स्वस्माकं सद्भावः कश्चिदभ्युदेतीव । दुःखाकुर्वन्त्यस्मान् दुर्व्यवहारास्त्वयि क्रूराः । दन्तद्वयं सुरुचिरं जनयत्याकर्षणं मनुष्यस्य । तस्य कृते तेन चिराद् विषयीक्रियसे प्रहारस्य आनीयाऽऽनीय त्वं नानोपायैः पुरा वनान्तेभ्यः । गर्वान्वितैर्नृपतिर्भिनियोजितः स्वासु सेवासु दानजलमलिनगण्डो विशालकायो रणे क्षतावयवः । शत्रुषु विजयस्य त्वं साधनतां तावदानीतः
૬ો
॥७॥
s
૨૦
शासनसम्राड्-विशेषः
Page #66
--------------------------------------------------------------------------
________________
॥११॥
રૂ
॥१४॥
શકો
૨૬ો
त्वं दर्पशातनामा सम्राजो हर्षवर्धनाख्यस्य । राजद्वारि निबद्धो दृष्टो भट्टेन बाणेन सिंहासनमध्यगता घण्टाद्वयसङ्गतं समारुह्य । सामर्थ्यस्य स्वस्य प्रदर्शनं नृपतयोऽकुर्वन् सम्प्रति ते न नृपतयः प्रदर्शनं नाऽपि तादृशं किञ्चित् । मन्ये तथाऽपि दुःखं तव गजराजस्य तदवस्थम् । चिन्ताविलापरहितः सहसेऽद्यापि त्वमत्र दुःखानि । असात एव सुदृढे निबध्यसे तावदालाने अनुदिनमेव निशाता यदकुशाः सम्पतन्ति गण्डभुवि । अनुदिनमेव द्वारि द्वारि च भैक्षं समाचरसि सूर्य प्रतपति भारं वोढुं विनियोज्यसेऽतिविकलोऽपि । न तवोदरस्य पूर्तिर्भवति बुभुक्षुश्च यापयसि त्वत्सञ्चरणार्हाणि प्रायो नहि काननानि तान्यद्य । त्वत्मानार्हाणि तथा सरोवराण्यपि न तान्यद्य
अस्तित्वमेव जातं तव मन्ये साम्प्रतं परार्थमिह । प्रच्छन्नः कश्चिदिह त्वमिदानीं बोधिसत्त्वोऽसि त्वमहिंसामिह परमं धर्मं मनुषे प्रपीड्यमानोऽपि । मरणान्तमपि च कष्टं सहमानो मौनमाचरसि गजराज ! तावकीनां नियतिं परिवर्तयेत् स आगत्य । करमुन्नमय्य न कथं तमेव विष्णुं पुनर्रयसे त्वामाकृष्याऽऽकृष्य ग्राहा नैकेऽत्र नेतुमिच्छन्ति । तव वस्तुतः समुचितो गजेन्द्र ! कालोऽस्ति मोक्षस्य करुणान्तिःकरणं क्वचिदुपलब्धाऽसि नैव जनमद्य । त्वमकारणकारुणिकं तमेकमुपयाहि शरणमतः ।
કો
૩૮
॥२१॥
૨૨
३/१४, M.I.G. झूसी, इलाहाबाद-२११०१९
गजेन्द्र-मोक्षः
| ५५
Page #67
--------------------------------------------------------------------------
________________
मेघगीतम् डॉ. आचार्य रामकिशोर मिश्रः
मेघस्त्वां स्नापयितुमागतः बहिरागच्छ पश्य भो ललने ! कृष्णवारिदो गर्जति गगने । किं नाऽऽयासि कथय गजगमने ! अधुना त्वं किं करोषि भवने ? तव प्रेमी बाहू प्रसारयन्, प्रेम्णा त्वामिहप्राप्तुमागतः ।
मेघस्त्वां स्नापयितुमागतः ॥१॥
शीघ्रमेहि मम पार्वं कान्ते ! मेघच्छविं पश्य दिवसान्ते । मनोरमामपि सन्ध्यां दान्ते ! जयति सर्वथा तव मुखभान्ते । गर्जनध्वनिना निपतन्मेहः प्रेमगीतमिह गातुमागतः ।
मेघस्त्वां स्नापयितुमागतः ॥२॥
या प्रेमिका करोति न मानम्, कुरुते या पत्ये रतिदानम् । या विदधाति प्रेमरसपानम्, सा प्राप्नोति प्रेमिसम्मानम् । प्रेमितपस्विनि ! तव प्रेमी त्वाम् कष्टसहां निर्मातुमागतः ।
मेघस्त्वां स्नापयितमागतः ॥३॥
२९५/१४, पट्टीरामपुरम्, खेकड़ा-२०११०१ (बागपत) उ.प्र.
५६ शासनसम्राड्-विशेषः
Page #68
--------------------------------------------------------------------------
________________
गङ्गागीतम्
राजेशकुमार मिश्रः
गङ्गा प्रभवति हिमालयात्, सततं प्रवहति हि गोमुखात् । ततश्चलति सा गङ्गोत्तरी प्रति, देवप्रयागाद् हरिद्वारं प्रति ॥१॥
निर्मलजलेन सह ततो वहति, रामघट्टं प्रति कर्णवासं प्रति । शूकरक्षेत्रं ततः कर्णपुरम्,
प्रयागराजं काशीमुदधिं प्रति ॥२॥ हे देवि गङ्गे ! तव पूतनीरे, ये नाति मनुजास्ते भान्ति पूताः । स्वर्गं गतास्ते गङ्गाप्रभावात्, कथिता हि सर्वे देवप्रसूताः ॥३॥ ___ तव देवि ! जलधारा गन्धकेन,
विषाणुहन्त्री जीवनकरी च ।
सिञ्चसि सदा भारतभूमिमत्र,
___धान्यप्रदा देशे कृषिकरी त्वम् ॥४॥ भागीरथी विष्णुपदी त्वमुक्ता, त्वं मोक्षदा त्रिपथगा देवापगा त्वम् । सरितांपतिं समुद्रं गच्छसि सदा हि, त्वां स्वर्गदां भगवतीं प्रणमामि गङ्गे ! ॥५॥ स्नामि त्वदीयममृतं हि सदा पिबामि, निजमस्तके तव रजस्त्वपि धारयामि । गङ्गे ! पवित्रजलदे ! निर्मलतरङ्गे !
त्वां जाह्नवी भगवतीं शिरसा नमामि ॥६।।
अध्यापकः, राजकीयउच्चतरमाध्यमिकविद्यालयः, देवताधारः, कोट, चम्बा-२४९१४५ टिहरीगढ़वाल (उत्तराखण्ड)
गङ्गागीतम्
५७
hodahain
Page #69
--------------------------------------------------------------------------
________________
शासनसम्राड्-विशेष:
शासनसम्राट्..... एकं लघुकवनम्
FO
[चित्रमयगुरुजीवनदर्शनानुसारि] अमृत पटेलः
॥ ऐं नमः ॥ मन: प्रसन्नं जिन ! ते प्रसादात्
वचः प्रसन्नं जिन ! ते प्रसादात् । वपुः प्रसन्नं जिन ! ते प्रसादात्,
_सर्वं प्रसन्नं जिन ! ते प्रसादात् ॥१॥ सदानन्दसुधासेकात् प्रसादो मनसीश ! मे शमेन्दो ! नित्यसौहित्य-पूर्ण ! गुरोः प्रसादतः
રો यतः विषण्णे मनसि क्लेशः, क्लेशाद् बन्धश्च कर्मभिः । ततो मुक्त्यै विमुक्तात्मन् ! प्रसादस्ते प्रभुः प्रभो ! ॥३॥
शासनसम्राड्-विशेष:
Page #70
--------------------------------------------------------------------------
________________
चिन्त्यो न वयो मनसाऽप्यगम्य
स्तव प्रसादो रजसाउन्धलेन । तेनेह तन्वीश ! गुरुं समीर
___ रजोविनोदाद् विदधाति भासम् ॥४॥ पुण्यैः प्रसादाज्जिन ! तेऽत्र कल्प
द्रुमायितं सद्गुरुतत्त्वभाग्भिः । सदागमाध्वा गुरुभिस्तदेह
__ सम्पूरितः प्रीणित एव देव ! ॥५॥ जिनोपजैनिजाचारै-श्चान्द्रीमये तु भूतले चन्द्रायन्ते जिनाचार्या एकेन्दु रख्खं भुवा जितम्
aોદ્દો ईदृगाचार्यवस्तेि श्रीमन्नेमिमुनीश्वराः जयन्तीह विषादघ्नाः क्लेशनाशं प्रसाददाः
॥७॥ तेषामेव प्रसादेन तानेव वर्णयाम्यहम् अब्धेरासादितं तोयमब्दस्य याति तत्र हि सत्यं, जडा निजां शक्ति-मुपेक्ष्य किञ्च कुर्वते कार्यं चेत्फलमायाति प्रभवस्तत्र कारणम्
s अतोऽहं सादरस्तेषां गुणौघवर्णनोद्यतः गुणिनां स्तवने धीर्न भक्तिस्तु प्रवरायते कार्ये स्यात् सौष्ठवं किञ्चिद्, यत्राऽऽदिमाऽन्त्यगुम्फनम् धियाऽहमन्तिमस्ते तु सूरयो धीमदग्रिमाः
॥११॥ सर्वाशाः पूरिता यैस्तु यशोभिर्धवलं जगत् तेषां गुणौघसम्पर्काद् वीतदोषाऽस्तु धीर्मम कुर्वे किञ्चिदहं वाचां चापलं चापलक्षण: धृत्वाऽऽत्मनि गुणाँस्तेषां विकिरामि यशःशरम्
શરૂ प्रणौमि नेमिं गुरुधर्मनेमिं
सूरीश्वरं नम्रनरेश्वरं तम् प्रौढप्रभावं वरतीर्थभावं सज्ज्ञानचारित्रपवित्रपात्रम्
૪૪ शासनसम्राट..... एकं लघुकवनम्
Page #71
--------------------------------------------------------------------------
________________
इह हि जगति धरित्री, पवित्रीकृता गुणशीलैः शलाकापुरुषैनिजेन जीवितेन, मेघेनेवाऽऽह्लादिता, सलील सलिलासारैर्गुणाधारैश्च साधारा सदाधारा धाराधरैरिव, तेषु गुणिषु गुणमणिषु मूर्धन्याः सर्वज्ञा जिनवराः सकलजन्मिव्रातस्य कार्मणगदानामेकमगदङ्काराः, यतस्तेषां शासनं विबुधव्यूहव्यूयमानप्रामाण्यं कल्पपादपायतेऽनाबाधामाराध्यमानम्, अचिन्त्यचिन्तामणीयते सदा सद्भक्त्या सञ्चिन्त्यमानं, कामकुम्भायते स्वान्तःशुच्या संसेव्यमानम् ।।
अत्र सार्वीये सर्वज्ञशासनेऽमोघशासने महालयकल्पे मणिस्तम्भायमानाः प्राणिगणोपकारप्रवणाश्चाऽऽचार्यवर्याः सत्त्वसङ्घातमुच्छासयन्ति जिनप्रवचनानुसारिणाऽमृतसारेण वचनेन, उल्लासयन्ति सतां लक्ष्यभूतेन निजजीवितव्येन, प्रकाशयन्ति स्वाशयदेहलीप्रतिष्ठितेन ज्ञानप्रदीपेन, समुच्छासयन्ति सदा ध्यानाध्वानमध्यमारोपितेन ज्ञानफलभूतेनाऽऽचारेण । विश्वगुणाधारेषु गुणधरेषु गणधरेषु गौतममुख्येषु प्रवृत्तिमत्सु प्रवर्धमानं वर्धमानजिनप्रवचनं, स-मुद्रमद्याऽवधि सावधिरब्धिरिव, गरिष्ठं गुणिषु गुणैकमत्सरेषु, वरिष्ठं वादविशेषेषु विबुधवृन्दवन्येषु, प्रकृष्टं प्रज्ञावत्सु प्रकर्षवत्सु प्रज्ञाफलावनमत्सु ।
___ अतः सार्वीये श्रीवर्धमानजिनशासने मौक्तिकाहाराकारे गौतमेन्द्रभूतिप्रभृतिगणधरा नायकायन्ते, भद्रबाहु-सुहस्ति-देवर्द्धिवाचकोमास्वाति-सिद्धसेनदिवाकर-हरिभद्र-शीलाङ्काऽभयदेव-हेमचन्द्र-यशोविजयोपाध्यायाद्याः सूत्रायन्ते ।।
तथाविधे वर्धमाने वर्धमानजिनेन्द्रशासनेऽधुनाऽऽधुनिकेषु शासनप्रभावनादिना तीर्थोद्धारयात्रा-जिनायतननिर्माण-शास्त्राध्ययनाध्यापनादिना भूरिगुणेषु सूरिनिकरेषु, 'शासनसम्राट' इत्यपराभिधयाऽभिधीयमानः श्रीविजयनेमिसूरीश्वरः परां स्तुतिं प्रस्तुति च प्राप्तवान् । तस्याऽद्वितीयस्याऽऽचार्यवर्यस्य तृतीयपरमेष्ठिपदारोहणस्य शततमे वत्सरे शतशः प्रणमामि तत्पादान्, स्तवीमि गुणमणीन्, किन्तु श्रुतनिरतस्य श्रमणशिरोमणेराचार्यप्रवरस्य गुणसङ्कीर्तनेऽक्षमतया मया या काऽपि धृष्टता विहिता स्यात् तत्राऽवश्यं सोढव्यं शेमुषीशेखरैः सुधीभिः । कथम् ?यथा
किं बाललीलाकलितो न बाल: पित्रोः पुरो जल्पति निर्विकल्पम्...
इतिवत् ममाऽपि जल्पं चापलकल्पमेव मन्तव्यं मनीषिभिः । अपि तु सकर्णाः ! सुधियोऽवधानमाधाय 'गुरुगुणवर्णनं दोषापनोदाय गुणाधानाय च' इति मत्वा पठन्तु - एतत् संक्षिप्तं किन्तु क्षितिप्रक्षिप्तगुणं श्रीनेमिसूरीश्वराणां शासनसम्राजां सूरिचक्रचक्रवर्तिनां कदम्बगिर्याद्यनेकतीर्थोद्धारकाणां जीवनवृत्तान्तं नितान्तं कल्याणकृत् ।
६० शासनसम्राड्-विशेषः
Page #72
--------------------------------------------------------------------------
________________
पावनं जन्म
अस्ति स्वस्तिमति गूर्जरत्रादेशेषु सौराष्ट्र गोहिलवाडमध्ये, सागरेण निजोर्मिमालालालितं मधुमती नाम तटीयं नगरम् । तस्य चोपसीमं 'मालण' नाम सरित् परिवहति, सलीलं च सलिलशीकरैस्तापमपाकरोति, नित्यं कुसुमित-फलितलता-वल्ली-तरु-विटपिघटाघनघनायमानमुद्यानमालाध्वन्यजनानाह्लादयति ।
गुणमणिगणैर्मन्दिरायमाणानां जावडशा-जगडूशाहादिश्रेष्ठिश्रेष्ठानां जन्मना पवित्रितं, मन्दिरावलिमण्डितम् मधुमतीनगरं परममङ्गलनिलयमभवत् श्रीमन्नेमिसूरीश्वराणां शुभोपायनजन्मना।
विक्रमार्कवत्सरे निधि-नयन-निधि-शशिमितेऽमितानन्दप्रदायां स्फूर्जदूर्जप्रतिपदिदानादिधर्मचतुष्कसिद्धिसंसूचक-चतुर्वादनवेलाक्षणे सर्वक्षणेऽक्षुण्णपूर्णोल्लासविलासभासि नूतनवत्सरवासरावसरे वरनागरश्रेष्ठिवर्यदेवचन्द्रतनुज-लक्ष्मीचन्द्रस्य धर्मपत्नी श्रीमती दिवाळीबा'-कुक्षौ समुत्पन्नं जिनशासनरत्नं शुक्ताविव मौक्तिकम् । सर्वत्र समुल्लसितमुल्लासेन, प्रणतितं नर्तितेन, प्रहर्षितं हर्षेण ।
भविष्यति जिनशासनेऽयं धर्मसीमानं धारयन्नेमिरिति, करिष्यति च निखिलजनानां नयनयोरमन्दमानन्दं मनश्च प्रमोरमेदुरं चन्द्र इवेति सानन्दं सोत्साहं स्वप्नपरिकरितौ पितरौ तस्य नेमिचन्द्र इति समाख्यां समाज्ञाऽसमधामायमानां व्यधाताम् । ज्ञानार्जनं प्रच्छन्नं च प्रव्रजनम्
जन्मतः पञ्चाब्दानन्तरं 'मयाचंद-लिंबोळी' नाम्नोऽध्यापकस्य धूलिकाशालायां वर्णमातृकालिपिः शिक्षिता । चतुर्दशे च वयसि सम्प्राप्तशिक्षणो नेमचन्द्रो मातरं भारती स्तौति यथा
'मातर्मे भारति ! स्वान्तं, विशारदं विशाऽनिशम् ।
ध्वान्तमपैति दीपस्तु निशान्तमागतो यदि ॥१५॥' तथा नेमिचन्द्रस्तु पितुराज्ञया व्यापारकार्ये लग्नस्तथाऽपि तन्मनो न मग्नं वाणिज्ये, अपि तु धर्माभ्यासं कर्तुमनाः संस्कृतभाषामध्येतुकामः स पितरं लक्ष्मीचन्द्रं समनुज्ञाप्य भावनगरे श्रीवृद्धिचन्द्रमहाराजपार्वे गतवान् । तद्भावं विज्ञाय सप्रसादं गुरुणाऽनुज्ञातः । प्रसन्नमना नेमचन्द्रो गुरुमहाराजसान्निध्येऽध्ययनं व्यधात् । ज्ञानेन जिनवचनपरिणमनप्रगल्भेन प्रदीप्तस्तस्य चेतसि वैराग्यभावः - अहो ! संसारोऽयमसारो, यमसारत्वेन सर्वेषां प्राणिजीवितानां चलाम्बुकल्लोलो-परिस्थितितनुतृणखण्डसमभावत्वात् । यदि जीवितं चञ्चलं तर्हि किं वपुषा
शासनसम्राट्..... एकं लघुकवनम् । ६१
Page #73
--------------------------------------------------------------------------
________________
वैभवेन वाऽऽत्मसाधनाबाधकेन ? अतः साधीय एव सुधीभिः सारतरं साधुजीवनं संयमजीवितव्यम् । न हि धर्मं विनाऽऽधारो जीवानां, सञ्जीवनं सत्त्वानां सात्त्विकसाधकानां, परित्राणं प्राणिनाम् । धर्म एव श्रेयः, तदर्थं च संयमजीवनमेव श्रेयस्तरम् ।
नेमचन्द्रस्य वैराग्यवासितमित्थमन्तःकरणमेकदा ज्ञातं पितृणा न च सम्मतं, किन्तु स्वकीयस्वास्थ्यसङ्कटमिषेण गृहमाहूय पितरौ नेमचन्द्रं गुरुसन्निधौ प्रेषितुं नेच्छतः । इतस्तस्य वैराग्यं दृढीयो वर्धिष्णुवीर्यं चाऽत एकदा प्रबलवैराग्यबलो नेमचन्द्रो दुर्लभ-बखाई नाम्ना धर्ममित्रेण सह रहसि विधाय गुरुपार्वे गमनसङ्केतं, समागत्य प्रच्छन्नं भावनगरे, निवेद्य प्रच्छनागमनं गुरवे, संप्रसाद्य गुरुवर्य, ज्ञापिता च प्रबलतरा प्रविव्रजिषा, गुरुणाऽपि वृद्धिचन्द्रमुनिना महताऽऽयासेन सम्मतेन वैक्रमीये शर-वेद-निधि-शशि(१९४५)वर्षे ज्येष्ठशुक्लसप्तमीदिने प्रवाजिते सम्प्राप्तगच्छाधिपतिश्रीमूलचन्द्रमहाराजरजोहरणादिमुनिवेशो नेमचन्द्रोऽभवत् श्रीनेमिविजयो मुनिः ।
मधुमत्यामितो मातरपितराभ्यां स्वजनैश्च ज्ञातेयैः प्रव्रज्यादानवार्ता ज्ञाता । विना सम्मतिं सुतस्य साधुवेशे सन्निवेशेन गुरुरप्युपालम्भितः, नूतनमुनिर्नेमिविजयश्चाऽपि भापितः, न्यायालये निवेदनं कृत्वा, न्याययाधीशाभ्यर्णं नायितः । तत्र नूतनमुने/रवैराग्यभावतः प्रभावितान्तःकरणः सञ्जातो न्यायाधीशः स्वजनाश्च प्रेम्णाऽनुज्ञापिताः सन्तोषमावहमाना गतवन्तो निजनिकेतनम् ।
ज्ञानार्जनसमालीनः स्वाध्यायतत्परः सुधीः ।
सम्यगुपादिशद् धर्मं वक्तृत्वप्रतिभान्वितः ॥१६॥ एवं प्रव्रज्यायाः प्रथमेऽपि वर्षे शैक्षो नेमिविजयो मुनिरहरहः 'प्रागजी' नामानं श्रावकं सदा धर्मोपदेशनं कुर्वन्नास्ते । अतोऽस्य नैसर्गिकी वक्तृत्वशक्तिं विज्ञाय गुरुमहाराजः प्रथमे एव प्रव्रज्याया वर्षे पर्युषणपर्वणि नेमिविजयमुनिना श्रीमत्कल्पसूत्रं मध्येसभमपाठयत् । कथमित्थम् ? तदुच्यते
यस्याऽस्ति शैमुषी प्रौढा, भारती तस्य भा-रता ।
आदर्शेऽच्छे स्वतो भाति, विभा विभाकृतः परम् ॥१७॥ उपस्थापना (वडीदीक्षा)
अधुना जिनशासनेऽयं कल्पो, यद् प्रव्रज्यादानावसरे शैक्षाय मुनिवेशदानं - सा दीक्षा इत्युच्यते, तदनन्तरं काञ्चित् क्रियां सतपः नूतनेन मुनिना गुरुः कारयति सा 'योगोद्वहनक्रिया' कथ्यते, तदनन्तरं गुरुः पुनश्च प्रव्रज्याविधि विधत्ते, सा उपस्थापना 'वडीदीक्षा' इति लोकभाषायामाभाष्यते ।
६२
शासनसम्राड्-विशेषः
Page #74
--------------------------------------------------------------------------
________________
वैक्रमे ऋषि-युग-निधि-विधुमिते वत्सरे, राजनगरमध्ये पन्न्यासप्रवरप्रतापविजयानां करकमलेनोपस्थापनां प्राप्य, निजगुरुवर्याय॑णं चातुर्मासिकीद्वयमतीत्य, गुर्वाज्ञया पादलिप्तपुर्यां 'पञ्जाबी' इतिख्यातेन मुनिदानविजयेन संस्थापितायां 'श्रीबुद्धिसिंहजी'पाठशालायां सघनमध्ययनमध्यापनादिकं समीचीनमाञ्चकत् सफलतया, पूज्याश्च दानविजयाः प्रसन्नतां प्राप्तवन्तः । सत्यमेतद् भवितुं, यथा
सतां यत्नः फलं प्राप्तो यदि सद्भिधृतिः परा ।
मणिरासाद्य वैशा भाति वैकटिकाद् वरात् ॥१८॥ तत्राऽध्ययनाध्यापने परितोषमाप्नुवाने श्रीमद्वद्धिचन्द्रविजया स्वर्गं गतवन्तः श्रीनेमिविजयस्य ज्ञानोपासनापरिश्रमेण सन्तुष्टा इव, निजजीवितव्यहेतुसफलतां मन्यमाना इव । तदा गुरुदेवानां देवलोकप्रयाणेन व्यथामथितोऽपि मुनिनेमिविजयः कालक्रमेण स्वस्थोऽस्थात् । प्रथमः शिष्यः
जामनगरमध्ये प्रथमस्वतन्त्रचातुर्मासं विदधतः श्रीनेमिविजयस्य वैराग्यवाहिन्या वाण्या, संसारविरक्तो 'नवलखापरिवारस्य डाह्याभाई श्रावकः' संयममादाय पूज्यनेमिविजयस्य सुमतिविजयाख्यः प्रथमः शिष्योऽभवत् ।
विक्रमस्यैकपञ्चाशदधिके नवदशशततमेऽब्दे, निजजन्मभूमि मधुमती'नगरे चातुर्मास्यं विहितं, हितकारिणोनिजजननी-जनकयोश्चेतस्तोषितं, पोषितश्च निखिलनगरजनानां वैराग्य-भक्तिभावोऽदुष्यवैदुष्याभरणभूतयाऽद्भुतया भारत्या, निजगुरुवराभिधानमण्डिता च 'श्रीवृद्धिचन्द्रजीसंस्कृतपाठशाला' संस्थापिता । स्तम्भनकनगरे शासनप्रभावनाः
स्तम्भनके पुरवरे पूज्य श्रीणां निश्रामाश्रित्य मुनिरानन्दसागरः (पू. सागरजी महाराजः) व्याकरणादिकाभ्यासं कृतवान्,
तत्रैव तीर्थे चातुर्मासी स्थिताभ्यां श्रीनेमिविजयानन्दसागरभ्यां मुनिवराभ्यां प्रश्नोत्तरप्रणालीमादृत्य गणधरवादः व्याख्यातः । आनन्दसागरमुनेः प्रश्नधारा, श्रीनेमिविजयस्य च तदुत्तरधारेति धाराद्वयाभ्यां गङ्गा-यमुनाभ्यामिव समेता च सरस्वती । तदा तत् तीर्थं प्रयागत्वमादधत् सभाजनानां श्रद्धासुमतिभाजनानां नयनोत्सवं समुदपादयत् । इदं तु तदानीं सुवर्णे सौरभ्याधानमिव ।
___ तदा च तत्रैव ताभ्यां श्रद्धा-मेधासमृद्धाभ्यां 'परिहार्यमीमांसा'ऽभिधपुस्तिकारूपेण प्रगल्भनैयायिकप्रौढिरूढेन प्रत्युत्तरितं जर्मनदेशवास्तव्येन 'हर्मनजेकोबी'नाम्ना विदुषा विपरीतं प्ररूपणानिरूपितं यद्- "जैनशास्त्रेषु मांसाहारोऽपि विहितः स्यात्" इति । एतदेव
शासनसम्राट्..... एकं लघुकवनम् / ६३
Page #75
--------------------------------------------------------------------------
________________
शरदिन्दोरमन्दकौमुद्यामिन्दुमणिसंस्थापनमिव ।
वैक्रमे सिन्धु-सिन्धुर-शेवधि-विधु वर्षे पूज्य श्रीनेमिविजयानां पावननिश्रायां, स्तम्भनकपार्श्वदेवस्य नीलरत्नमय्या अप्रतिमप्रतिमायाः पुनः प्रतिष्ठा विहिता महता समुल्लासितमहेन श्रीसद्धेन । इदमपि पद्मोपरि परिमलबहलवर्षणमिव ।
विक्रमस्य ग्रह-शरै-निधानं-धरी-वत्सरे भावनगरमध्ये पूज्यपादपन्न्यासप्रवराणां गम्भीरविजयानां निश्रायां नेमिविजयेन व्याख्याप्रज्ञप्त्या योगोद्वहने विहिते पूज्या गम्भीरविजयाः वलभीपुरे विक्रमादित्यवत्सरे गगन-दर्शन-निधान-निशेने मिते, महामनसे मुनिवरनेमिविजयाय कार्तिककृष्णसप्तमीदिने गणिपदं, तथा मृगशीर्षशुक्लतृतीयादिने पन्न्यासपदं प्रदत्तवन्तः । तस्मिन्नेव वर्षे राजनगरे पन्न्यासप्रवराः श्रीनेमिविजयाः, मुनिमानन्दसागरं, निजगुरुबन्धुं मुनिप्रेमविजयं, निजविनेयं सुमतिविजयं चेति त्रीन् मुनिवरान् पन्न्यासपदेऽस्थापयन् ।
___ इदं तदा दीपेन दीपानां प्रदीपनमिव । तीर्थाशातनानिवारणम्
पालीताणा-ठक्कुरः श्रीमानसिंहः, श्रीमानेन सिंहमिवाऽऽत्मानं मन्यमानः, शत्रुञ्जयगिरिवरे मूलचैत्ये उपानहाऽमुक्तपादं सञ्चरन्, धूमपानं च कुर्वन्नाशातनां विधाय श्रावकाणां मनो दूनयति स्म । तं मानसिंहं न्यायालये समानीय मध्येसभं तर्कप्रगल्भवाचा पराजित्य, गर्वं सर्वं निराकृत्य श्रीनेमिविजयपन्न्यासप्रवरेण तीर्थस्याऽऽशातना निवारिता । एवं च भवाब्धिपरकूलं शिवसौख्यवरमूलं विमलाचलं महातीर्थं पुनरपि विमलं व्यधत्त । एवं तु
तीर्थरक्षा कृता येन स्वात्मरक्षा कृता भवेत् ।
भव्यानां सत्त्वसङ्घातो विनाशाद् रक्षितस्तथा ॥१९॥ आचार्यपदे प्रस्थापनम् (शासनसम्राट)
युग-रसा-ऽङ्क-शशाङ्काङ्किते वैक्रमेऽब्दे परमपूज्या गम्भीरविजयाः पन्न्यासप्रवरं नेमिविजयं सविधि विहितयोगोद्वहनं तृतीयपरमेष्ठिपदेन मणिना मुकुटमणिमिव विभूषितवन्तः ।
ततश्च श्रीनेमिविजयः पन्न्यासस्तु श्रीविजयनेमिसूरिरित्याख्यया समाख्यातः । यत् समग्रतपागच्छीयमुनिगणेषु सयोगविधिमाचार्यपदमाप्तमिति तदैव 'शासनसम्राड्' इति द्वितीययाऽभिधयाऽद्वितीयतरमभिधीयत स्म सर्वैः सहषैरिति ।
६४ शासनसम्राड्-विशेषः
Page #76
--------------------------------------------------------------------------
________________
सूरिसम्राजां काश्चन शासनप्रभावनाः
जीवदयार्दीभूतहृदयोऽयं सूरिसम्राट् श्रीनेमिसूरिवरो मधुमतीपुरीपरिसरे धीवरैर्मत्स्यानमोचयत् ।
तीर्थकृतां प्रतिमानां प्राणप्रतिष्ठास्वरूपाञ्जनशलाकाः, सिद्धचकार्हन्महापूजने, मुनिवराणां च योगोद्वहनादिकाः सुविहितपरम्पराः प्रभृतयः पूज्याचार्यवर्यैः पुनरुज्जीविताः । तीर्थोद्धाराः
तीर्थभक्तिभावितान्तःकरणतया सूरिसम्राजाऽनेके तीर्थोद्धारा कारिताः । किन्तु तेषु कदम्बगिरितीर्थोद्धारस्तु सुमहान् । तेनाऽऽचार्यवर्येण कदम्बगिरितीर्थं त्रिः पुनरुद्धृतम् । प्रथम तावत् 'कामलीयान् ठक्कुरान्' प्रतिबोध्य, मृगया-मद्यपान-मांसाहारं प्रत्याज्य, तेभ्योऽपि समूल्यदानमात्रेषु भूमिपटेषु जिनालयनिर्माणविधानमारब्धम् । द्वितीयं तु कदम्बगिरितलहट्टिकायां 'बोदाना'भिधाने नेसे(घोषे) 'तीता'नामकौलिको यत् स्वप्नं दृष्टवान्, तदनुसारस्तत्रैव धरायां साकारतां समानीते नूतने जिनायतने महामहसहितं सर्वहितं वर्धमानमानं वर्धमानं जिनं प्रत्यस्थापयच्च वैक्रमे ग्रहोऽष्ट-निधान-कलाधरवत्सरे । तृतीयवारं तु कदम्बगिरिशिखरे सम्पूर्णतामाकलितेषु कलिकाले फलितभाविकमनःफलितेषु जिनवरायतनेषु, समागतासु परितो ग्रामनगरादितः प्रतिमानां पञ्चशतीषु, जलनिधि-निधि-निधि-विधु-सङ्ख्ये विक्रमवर्षे, प्रतिष्ठामहः प्रारब्धः । ... किन्तु तदा प्रवर्तमानं महोत्सवे श्रीनेमिनाथस्वामिनिकेतनात् काष्ठमयात् समुत्थितः सधूमो धूमध्वजः, तदानीं श्रीनन्दनसूरिनाम्ना निजप्रशिष्याचार्येण विधिकारकोत्तरसाधकानां साहाय्येन मन्त्रविधानेन विध्यापितः । एवं श्रीनेमिसूरीश्वरे विघ्नवारणवज्रायमाणे प्रतिष्ठामहोत्सवः सोत्साहं समपद्यत ।
अन्यदा मेदपाटमण्डले गढबोलग्रामे मुग्धग्राम्या मूर्तिपूजकाः श्रमणोपासकाः, सुविहितगुरुदीपे तिरोहिते, स्थापनानिक्षेपप्रतिक्षेपिना तेरापंथनाम्ना जिनप्रतिमाप्रतिष्ठापनपूजनादिपरिपन्थकेन कुपन्थेन 'किं ग्रावगौर्दुग्धं दुग्धे ?' तर्हि तथैव प्रस्तरप्रतिमाऽपि के अपि लाभ-क्षती न विदधातीति मेधाध्वंसाध्मातकुतर्कध्वान्तव्यामोहितास्ते जिनमूर्ति द्विपञ्चाशत्कीलकैरुत्कीलितां विधाय व्यराधयन् । तदा श्रद्धालूनां श्रद्धाक्षोभविक्षुब्धे सङ्के सङ्घचिन्तापाकरणकृते सूरिसम्राट् सोढ्वाऽप्यनेककष्टान् गत्वा च गढबोलग्रामे, प्रबोधविधिना जागरयित्वा तान् तत्रस्थान् श्रावकान् प्रतिमापूजाविधायकान् गुरुधर्मं नियूंढवान् प्रतिभाप्रागल्येन ।
शासनसम्राट्..... एकं लघुकवनम्
Page #77
--------------------------------------------------------------------------
________________
सत्यं गुरुवो हि मार्गदेशकाः । तथा हि
तत्त्वं गृणातीति गुरुर्गरीयान्, मनो वृणातीति गुरुर्वरीयान् ।
तमो लुनातीति गुरुः प्रदीपः, पापं धुनातीति गुरुः सुपुण्यः ॥२०॥ मरुधरेषु कापरडाख्यतीर्थे तु जिनालये एव जाटजातीया जनाश्चामुण्डदेवी-भैरवयोरग्रे मांस-मदिराभोगं कृत्वाऽनेकधाऽऽशातनं कुर्वन्ति स्म । ततस्तत्राऽऽशतननिवारणेन तत्तीर्थपुनरुद्धारदृढसङ्कल्पमाकल्प्याऽनल्पभक्तिप्रभावधृतवीर्याः सूरिवराः प्रतिष्ठामहोत्सवं व्यधापयन्। तत्राऽपि जाटजातीयानामुपद्रवं राज्यकृतरक्षाप्रबन्धेन दूरीकृत्य तीर्थोद्धारसङ्कल्पं समपूरयन् । मुण्डकाविरोधः, पुनर्यात्राप्रारम्भश्च
तदा पालीताणानगरे यात्रिकेभ्यो 'मुण्डका' इति यात्राकरः प्रगृह्यमाण आसीत् । तेन पालीताणाठक्कुरमानसिंहो यात्राकरं बहुविधसाम्नाऽप्यत्यजन्न । तदा सूरिसम्राजोऽध्यक्षतायां सुविशालजनसभायां निर्णीतमेतद् हि ‘यात्रायाः करत्याजनं यावद् यात्रायास्त्याग' इति । एवं तु वर्षद्वयं यावद् यात्रा स्थगिता ।
ततो यात्राकृते कोऽपि न समागच्छति । करमण्डपोऽपि निर्जनः सञ्जातः । तदनन्तरमाङ्ग्लसर्वकाराधिकृतेन मध्यस्थेन 'मुण्डकाकरः समाप्तिमापितः' इति प्रोद्घोषिते पूर्ववत् तीर्थयात्रा प्रारभ्यत । एवङ्कारेण सूरिभास्करेण करान्धकारनिराकरणेन तीर्थयात्रा परमभास्वरा कारिता ।...
अत:
राज्यविप्लवमेकत्र यात्रा चैकत्र मुक्तिदा । धृतिं धियं समालम्ब्य येन यात्राऽकरा कृता ॥२१॥ सङ्घकरान् समाश्रित्याऽकरं तीर्थं व्यधाद् वरम् ।
सूरयेऽस्तु नमस्तस्मै नेमये नेमये धियाम् ॥२२॥ मुनिसम्मेलनम्
___ तदानीन्तने जैनसङ्ग्रेऽनेकविधाः समस्याः समजायन्त । तन्निराकरणाय परमपूज्याचार्यश्रीवल्लभसूरिप्रभृतियतिपतिततिः, राजनगरस्य श्रेष्ठिवर्याः श्रीकस्तूरभाई-मणिभाई, श्रीकस्तूरभाईलालभाई, श्रीप्रतापसिंह-मोहोलालप्रमुखाश्चैकत्रभूय चतुर्विधसङ्घसम्मेलनं कर्तुं निश्चितवन्तः । तत्र राजनगरे वियद्-ग्रह-निधि-विधुसङ्ख्ये वर्षे फाल्गुने शुक्लपक्षे तृतीयादिनादारभ्य चतुस्त्रिंशद्वासरावधि मुनिसम्मेलनं पूज्यपादशासनसम्राजां नेमिसूरीश्वराणामध्यक्षतापदे सफलताभाजनमभवत् ।
शासनसम्राड्-विशेषः
Page #78
--------------------------------------------------------------------------
________________
तदातनोऽद्भुतस्तीर्थयात्रासङ्घः
यतिसंहतिसमापनानन्तरं मरुधरे विहृत्य पूज्या जावालनगरे वर्षाकालमतीत्य पुना राजनगरे समागताः । श्रेष्ठिवर्यमनसुखभाईसुतेन माणेकलालेन पूज्यानां पावननिश्रायां राजनगराद् गिरनारशत्रुञ्जयमहातीर्थयात्रासङ्घः सञ्चालितः ।
तस्मिश्च षड्री'सामाचारी समाचरति सङ्के पूज्याचार्यानन्दसागरसूरि(सागरजी महाराज)-मोहनसूरि-मेघसूरिप्रमुखानां श्रमणानां पञ्चसप्ततिसमेतं शतद्वयं, श्रमणीनां शतचतुष्टयं, श्रावकाणां च त्रयोदशसाहस्री-इत्यादिसाधकवर्गः, पञ्चाशदधिकाष्टशतशकटास्त्रिशतीयुतैकसहस्रयान्त्रिकयानानीत्यादिबहुविधसाधनसामग्रीसाहाय्येन निराबाधमाराधनां समाचरति स्म ।
__ तथा च शक्रध्वज-जिनरथ-मेरुपर्वत-चलज्जिनमन्दिराणि सर्वाण्याप्येतानि रजतमयानि सङ्घशोभां वर्धयन्ति स्म । जनमनःसु चाऽनन्यानन्दमाकन्दलयन्ति स्म । तथैव भावनगरध्रांगध्रा-राज्ययोर्गजराजौ राजताभरणराजमानौ लोके च प्राकृते जिनशासनस्याऽकृत्रिममहिमानमातनुतः स्म। एवंविधवैभवविभूषितो महासङ्घो विना विघ्नमागतो गिरनारिगिरि शिवादेवीनन्दन-नेमिजिनपादपद्मपवित्रितम् । तत्र च वन्दितः पूजितः स्तुतश्च श्रीमन्नेमिनाथो नेमिसूरीश्वरादिकेन श्रीसङ्घन । यथा...
'भ्रामं भ्रामं सुतप्तं गहनभववने पापसन्तापदीप्ते, निर्वाणं मत्कचित्तं त्वयि भुवनगुरौ दोषमोषे श-पोषे । लोकं लोकं विभो ! ते मुखमसमशमं प्राप्य भव्यास्तु भव्या,
नौमि त्वां स्वामिनेमे ! भवगहनवनोच्छेदने चक्रनेमिम् ॥२३|| इत्यादिस्तुत्या नेमिजिनं संस्तुत्य, सचतुर्विधसङ्घः स महासङ्घ उज्जयन्ततीर्थादुद्यतः सन्, श्रीशत्रुञ्जयमहातीर्थं दिदृक्षुर्निरगच्छत् । प्रतिदिनं प्रयाणेन प्राप्तस्तं महातीर्थं सकलतीर्थप्रवरं, कोटाकोटीभव्यसत्त्वानां प्रसिद्धाप्रसिद्धानां सिद्धिसौधसोपानसमानं, ससन्मानानन्दं चाऽऽरुह्य विमलाचलं गिरिवरं, श्रीयुगादितीर्थनाथो हर्षबाष्परुद्धनयनत्वेऽपि निरर्गलं निरीक्षितः, सविधि पूजितः, सभावं वन्दितः, ससद्भावं च ध्यातः । तथा हि
शत्रुञ्जयशिखरिपरिसरं सरिदियं शत्रुञ्जया सुभगसलीला पावनपानीया - तस्याश्च परसहस्रपयोजपटलपाटलिते तटे, दरदलितदलेऽव्याकुलालिकुलेऽतिविमलकमले निर्मलसलिले स्नायं स्नायं प्रायोपगतपापतापसन्तापेन सङ्घश्रावकजनेन सुमनोभिरामाभिः सुमहासामग्रीभिः सविधि पूजितः स्तुतश्च श्रीसङ्घन साकं श्रीसूरीश्वरैः सद्भावभक्तिभृतया गिरा, यथा
'अहं च त्वं गुणातीता-वुपाधिरावयोः समा ।
___ फलं त्वनीदृशं चित्रं दुःख-सुखात्मकं विभो ! ॥२४॥ इत्यादि.....
शासनसम्राट..... एकं लघुकवनम्
Page #79
--------------------------------------------------------------------------
________________
तथा नयने निमील्य, विमलाचलेश्वरे जिनवरे मनः सन्निधाय, सद्ध्यानलीनमानसाः श्रीनेमिसूरीश्वराः, चन्दनतिलकितभालं, कण्ठावलिमालं, वरवृष, वृषभवरसेवितचरणं चरणसरोजरजःपुञ्जपावितनम्रामरेन्द्रमुकुटमणिगणं, भुवनजनमनोगहनमवगाहमानमिव समवसरणमध्यमध्यासीनं, रत्नप्रकरप्रभावभासमानासमानकाञ्चनसिंहासनमासीनं, जनाभिनन्दनं नाभिनन्दनं निजमनोमुकुटे सङ्क्रामन्तमिव ध्यायन्ति स्म ।
इत्थं च दर्शन-वन्दन-पूजन-ध्यानेन स्वात्मानं कृतकृत्यं कृतवान् सुकृतिसन्ततिशेखरः स सुमहान् सङ्घः । यथा हि
'धन्योऽस्मि कृतकृत्योऽस्मि पुण्योऽस्मि यत्पुनः पुनः ।
तवैव वदनं दृष्टं ध्यातस्त्वं गुणसागरः ॥२५॥ एवं तीर्थयात्रोत्तीर्णभवार्णवः स सङ्घोऽनघोऽभवत् ।
श्रीनेमिसूरीश्वराणां निजशिष्यौघज्ञानार्जन-चारित्रपालनस्य योगक्षेमावहानां ज्ञानदानेऽपूर्वप्रयासेन, विजयदर्शनोदय-नन्दन-विज्ञान-पद्मा-ऽमृत-लावण्य-कस्तूरसूरिप्रमुख्या मनीषिमूर्धन्याः शिष्याः प्रशिष्याश्च गुरुकुलवासनिष्ठाप्रतिष्ठा प्राप्तवन्तः । सर्वेऽपि च ते विविधे साहित्यविभागे लब्धप्रतिष्ठाः समजायन्त ।
___ मरुधरस्थफलोधिनगरवास्तव्यः श्रीसम्पत्लालः कोचरो गूर्जरदेशमण्डनपेथापुरनगरे विराजमानयोगनिष्ठश्रीबुद्धिसागरसूरिवराख्यात-संसूचिताष्टमतपआराधनाबलावलब्ध'जङ्गमयुगप्रधानत्व'प्रमाणः, वैक्रमे भूमि-वसु-निधि-वसुंधा वर्षे नूतनवर्षदिने पूज्यं श्रीमन्तं नेमिसूरीश्वरमवन्दत। महाप्रयाणम्...
जङ्गमयुगप्रधानाः समर्थानुशासितारोऽनेकतीर्थोद्धारकारकाः शासनसम्राजः सूरिचक्र चक्रवर्तिनः श्रीविजयनेमिसूरीश्वराः वैक्रमे शर-नंभो-नंभो-नयनवर्षे श्रीसङ्घस्याऽत्याग्रहवशतो निजजन्मनगरीमधुमत्यां चातुर्मास्यमतिवाहयितुमागताः । तच्चाऽन्तिमं तेषां चातुर्मासमभवत् । तदा चाऽनेकेऽशुभसूचका उत्पाता अभवन् । यथा(१) पर्युषणपर्वणि श्रावणमासस्याऽमावस्यादिने दिनेश्वरेऽस्ताचलं गन्तुकामे जातं तत्परित
स्तेजोवर्तुलम् । (२) पर्युषणपन्तिमे दिने सांवत्सरिकप्रतिक्रमणारम्भात् पूर्वमेव वटविटपिन एका महती
शाखाऽकस्मादेव त्रुटिता, सनिर्घोषं च धरातले पतिता । (३) भाद्रपदामावास्याया रजन्यां नववादनसमये स्रस्तो नभस्त एकस्तारकः सञ्जाता च तेजो
रेखा। स च निर्घात इति कस्याऽपि महापुरुषस्य वियोगं सूचयति स्म । (४) स्वास्थ्ये विकलीभूते पूज्येन नन्दनसूरिः किञ्चित् कथितः । तथा दीपावलीदिने, समग्रे सङ्के
शासनसम्राड्-विशेषः
Page #80
--------------------------------------------------------------------------
________________
समुपस्थिते, प्रतिक्रमणादिकावश्यके सवेलं कारिते, समाधिसुधासमालीनाः वदनविभाव्यमानप्रशमभावाः क्षमापनादानविधानानन्तरं मृत्यु समाह्वयन्त इवाऽऽत्मानं पश्यन्त इवाऽऽत्मभावे संलीनाः, सायन्तने सप्तवादनसमये पूज्या अक्षरपदमाप्तुमिव क्षरं शरीरं त्यक्तवन्तः । नूतनवर्षवासरे सर्वेऽपि 'दादा' श्रीनेमिसूरिवरान्तिमदर्शनोत्सुकाः सङ्गताः । शिष्यगणैर्महापारिष्ठापनिकायां कृतायां पूज्यश्रीणां वपुश्चन्दनेन चर्चयित्वा, शिबिकामारोप्य, चन्दनदारुमय्यां चितायां पावकसात् कृतं, निजं च चेतः शोकसात् । तत्रैव पूज्यश्रीणां स्मरणयात्राकृते चरणपादुके संस्थापिते । अद्याऽपि ते चरणपादुके सूरिवरप्रभावं द्योतयन्त्यौ मधुमती नगरी तीर्थयतः ।
जीयात् श्रीनेमिराचार्य आऽर्कशशि समाः शुभाः । यदाचार्यपदाब्दात्तु शतं यातं शुभं शुभम् ॥२६।।
२०३/बी, ओकता ओवन्यु, बेरेज रोड, वासणा, अमदावाद.
शासनसम्राट्..... एकं लघुकवनम् । ६९
Page #81
--------------------------------------------------------------------------
________________
शासनसम्राड्-विशेषः
in Education Listernational
Page #82
--------------------------------------------------------------------------
________________
चित्रमयो विजयनेमिसूरिः
मुनिरत्नकीर्तिविजयः
पूज्यशासनसम्राजां परमगुरुभगवतां श्रीविजयनेमिसूरीश्वराणां स्वर्गारोहणार्धशताब्दीवर्षं (वि.सं. २०५५) निमित्तीकृत्य तेषां पूज्यानां प्रभावकं प्रेरकं च जीवनं विषयीकृत्य कतिपयप्रसङ्गानां चित्राण्यालेखयित्वा पूज्यपादानां जन्मभूमौ श्रीमधुमती(महुवा)नगरे एकं चित्रमन्दिरं निर्मातव्यमिति पूज्यपादगुरुभगवतां श्रीविजयशीलचन्द्रसूरीश्वराणां मनसि कश्चित् सङ्कल्पः समुद्भूत आसीत् । स च सङ्कल्पः परिपूर्णोऽपि जातः । अत्र प्रदत्तानि चित्राणि तु तस्मिन् नवनिर्मिते विशाले चित्रमन्दिरे प्रदर्शितानि सन्ति । तान्येवाऽत्र सपरिचयं प्रदत्तानि सन्ति । एतच्चित्रकर्म तु कृतवानस्ति सूरत-नगरवास्तव्यः श्रीनैनेश-सरैयामहाभागः ।
चित्रमयो विजयनेमिसूरिः ७१
www.jainelibradar
Page #83
--------------------------------------------------------------------------
________________
मधुमती (महुवा )नगरस्य विहङ्गावलोकनम्
७२ | शासनसम्राड्-विशेषः
e
Education laternational
Page #84
--------------------------------------------------------------------------
________________
मधुमती (महुवा )नगरस्य विहङ्गावलोकनम् सीमानं प्रक्षालयतः समुद्रस्य भव्यं तीरं, मृगेन्द्राणामावासयोग्यं हरितसमाकुलं घनं वनं,
'सौराष्ट्रसत्ककश्मीर' इति बिरुदं चरितार्थयन्ती पुष्प-पत्र-फलादिखचितानेकसहस्रवृक्षरूपा सौन्दर्यमय मालण'नदीरूपा च सम्पद्,
धर्मस्य निर्मलं मङ्गलं च ध्येयं ध्वजव्याजेन समुद्घोषयन्त्यनेकानि मन्दिराणि जैनचैत्यानि च, - इत्यादिभिः सर्वैरपि शोभितं
सौराष्ट्रदेशस्य तिलकायमानमिदमस्ति मधुमतीपुरं - महुवानगरम् । यच्च जावडशा-जगडुशादीतिहासप्रसिद्धानां महानुभावानाम्,
अमेरिकादेशे शिकागोविश्वधर्मपरिषदि जैनधर्मस्य प्रतिनिधित्वं वहतः श्रीवीरचंदराघवजीगान्धिमहोदयस्य, तथा सूरिसम्राटश्रीविजयनेमिसूरिप्रमुखमहापुरुषाणां च जन्मभूमिरस्ति ।
(सौराष्ट्रप्रदेशे भावनगरजिलासत्कमिदं नगरमस्ति)
चित्रमयो विजयनेमिसूरिः ७३
Page #85
--------------------------------------------------------------------------
________________
MULTIMIm
जन्ममहोत्सवः
७४, शासनसम्राड्-विशेषः
Jali Loucation International
Page #86
--------------------------------------------------------------------------
________________
जन्ममहोत्सवः वि.सं. १९२९ तमवर्षस्य प्रथमं मङ्गलप्रभातमुद्गतमासीत् । ब्राह्ममुहूर्तसमय आसीत् । नूतनवर्षमिदं सर्वेषां कृते मङ्गलमयं स्यादित्युदाराशया बालकाः “सर्वरसं गृह्णन्तु, सर्वरसं गृह्णन्तु' इत्युद्धोषणं कुर्वन्तो गृहाद् गृहं परिभ्रमन्त आसन् । तच्च प्रदाय सर्वेषां मङ्गलशकुनानि सम्पादयन्त आसन् । समग्रेऽपि वातावरणे नूतनवर्षस्योल्लासः प्रसृत आसीत् ।
__ एतादृशि मङ्गलमये समये श्रीलक्ष्मीचन्दमहोदयस्य भार्या श्रीमती दीवालिबाई पुत्ररत्नमेकं प्रसूतवती । पुत्रस्याऽस्य तेजस्वि ललाटमुज्ज्वलं भाविकालं सूचयति स्म । एतादृशेन च पुत्रेण जनन्यपि स्वकीयस्य जननीपदस्य सार्थक्यमनुभवन्त्यासीत् । पुत्रजन्मनो वृत्तान्तं सम्प्राप्य सर्वेऽपि स्वजन-प्रातिवेशिकजनाः सत्वरं वर्धापनार्थमागताः । तेभ्यश्च गुड-धान्याकं वितीर्य पुत्रजन्मनो हर्षो व्यक्तीकृतः कुटुम्बेन ।
पश्चाच्च श्रीलक्ष्मीचन्दमहोदयो मनुष्यसुलभया जिज्ञासया ज्योतिषिकस्य श्रीविष्णुभट्टमहोदयस्याऽन्तिकं गतवान् । तत्र च पुत्रस्य जन्मसमयादिकं सर्वमपि निवेदितवान् । सोऽपि ज्योतिषिकस्तदनुसारं जन्मपत्रं सज्जीकृत्य तत्रत्यां ग्रहादिस्थितिमवलोकयन् स्थितः । अवलोकयतस्तस्याऽऽश्चर्यं वर्धितम् । तस्य परिवर्तमानान् मुखभावान् दृष्ट्वा लक्ष्मीचन्दमहोदयः पृष्टवान् - 'भोः ! किमेतत् सूचयति ?' । ज्योतिषिक उक्तवान् - "भ्रातर् ! नैष कश्चित् सामान्यो बालः । एष हि कश्चिन्महापुरुषो भविष्यति । सांसारिकत्वेनाऽपि यद्येष स्थास्यति तदाऽपि नृपतुल्योऽयं भविष्यति । किन्तु 'कुम्भलग्नीयोऽयं जातकः, अतो 'धर्मधुरन्धरः कोऽप्यनन्यसदृशो महापुरुषो भविष्यति' इति सूचयति ।" ।
एतच्छ्रुत्वा लक्ष्मीचन्दमहोदयोऽपि प्रमोदभाक् सन् पण्डितवर्याय तस्मै दक्षिणां दत्त्वा गृहं प्रत्यागतवान् ।
१. सबरस इति लोकभाषायां, लवणमित्यर्थः । २. कुम्भलग्न का पूत, बडा अवधूत, रातदिन करे भजन ! - इत्यक्तिः ।
___ चित्रमयो विजयनेमिसूरिः ५
Page #87
--------------------------------------------------------------------------
________________
व्यावहारिकोऽभ्यासः
शासनसम्राड्-विशेषः
Socation international
Page #88
--------------------------------------------------------------------------
________________
व्यावहारिकोऽभ्यासः जन्मराशिमनुसृत्य शुभे चाऽहनि बालकस्य 'नेमचन्द' इति नामकरणं विहितं कौटुम्बिकैः । प्रातिवेशिकानां स्वजनसम्बन्धिनां च वात्सल्यपूर्णेन लालनपालनेन वर्धमानः स पञ्चवर्षदेशीयो जातः । अथ च मातापितृभ्यां विद्याध्ययनार्थं शालायां प्रवेशितः सः । शालायां नेमचन्दः सर्वप्रथमं विद्यादेव्याः सरस्वत्या दर्शनं स्तुतिप्रार्थनादिकं च विहितवान् । पश्चात् शिक्षक नमस्कृत्य तस्य चाऽऽशिषं गृहीत्वाऽध्ययनस्याऽऽरम्भं कृतवान् ।।
___ तत्काले हि शाला 'धूलीशाला'- इत्याख्यया प्रसिद्धाऽऽसीत् । काष्ठफलके धूली निक्षिप्य तत्र च काष्ठशलाकयाऽक्षराण्यङ्कनीयानि-शिक्षणस्यैनां रीतिमनुसृत्य 'धूलीशाला' इति तस्या अभिधानं जातमासीत् । बालकाश्च शिक्षकाणां गृहाङ्गण उपविश्यैवाऽध्ययनं कुर्वन्ति स्म । तत्र च प्राथमिकाभ्यासरूपेण मूलाक्षराणामङ्कानां च लेखनमुच्चारणं च बालकानां शिक्ष्यन्ते स्म।
नेमचन्दो बाल्यादेव कुशाग्रबुद्धिरासीत् । अतः शिक्षकेन श्रीमयाचन्दमहोदयेन यत्किमप्यक्षराङ्कादिकं शिक्षितं तत्सर्वमपि झटित्येव तेनाऽऽत्मसात्कृतम् । पश्चाच्च श्रीहरिशङ्करनामशिक्षकस्य शालायां सप्तकक्षापर्यन्तं गूर्जरभाषया अभ्यासः कृतः । अभ्यासे सर्वदा सोऽग्रेसर एव भवति स्म । तदनु च भावनगरराज्यान्वयेन प्रवर्तमानायां शालायामाङ्ग्लभाषयाऽभ्यासोऽपि वर्षत्रयं यावद् विहितः । तत्र च श्रीपीताम्बरदासाभिधः शिक्षक आसीत् । एवं च तस्य व्यावहारिकाभ्यासः पूर्णो जातः ।
चित्रमयो विजयनेमिसूरिः ७७
Page #89
--------------------------------------------------------------------------
________________
કરસન માની પેઢી
तरुणो नेमचन्दः
शासनसम्राड्-विशेषः
Page #90
--------------------------------------------------------------------------
________________
तरुणो नेमचन्दः बालो नेमचन्दः स्वभावत एवाऽत्यन्तं नम्रो विवेकी चाऽऽसीत् । किन्तु तत्सहैव निर्भयः साहसिकश्चाऽप्यासीदेव । कस्मिंश्चिदपि विषये सत्यासत्यपरीक्षणार्थं तस्य शक्तिरद्भुताऽऽसीत् ।
अध्ययनकाले एकः प्रसङ्गो घटितः । तदा स केवलं दशवर्षीय एवाऽऽसीत् । तस्य मातुलस्यैका पुत्र्यासीत् 'पुरीबाई' इति नाम्ना । सा च 'देवताऽपि मम साहाय्यं विदधाति । तत्साहाय्येनाऽहं भूतभविष्यदादिकं सर्वमपि ज्ञातुं प्रभवामि' इति प्रचारं कृतवत्यासीत् । एनं च प्रसारं सत्यं मन्वानास्तत्रत्याः सरला भद्रिकाश्च जनाः स्वस्वसमस्यापरिहारार्थमागच्छन्त आसन् ।
__ एकदा किञ्चित्कार्यार्थं नेमचन्दस्य तत्राऽऽगमनं जातम् । तत्र प्रवर्त्तमानमिदं कौतुकं तेन दृष्टम् । तेन तु श्रुतमासीदेतत् किन्तु प्रथममेवाऽद्य दृष्टम् । जनानां सम्मर्दस्तत्रैकत्राऽऽसीत् । सर्वेऽपि नालिकेर-नैवेद्यादिकं तस्याः पुरतो ढौकयित्वा स्वस्वप्रश्नान् पृच्छन्त आसन् । साऽपि हि देवतानाम पुरस्कृत्य यद्वा तद्वा प्रत्युत्तरं ददाति स्म ।
दृश्यमेतद् दृष्ट्वा चतुरो नेमचन्दो ज्ञातवान् यत् सर्वमप्येतत् कापटिकमस्याः । अत्र 'एतस्य कपटकृत्यस्य रहस्यभेदोऽद्य करणीय एव' इति विनिश्चित्य जनसम्मर्दमध्याद् मार्ग कृत्वाऽग्रे गतवान् । उक्तवांश्च- 'भोः ! नाऽहं भूतभविष्यत्कालीनं किमपि ज्ञातुमिच्छामि, केवलं वर्तमानमेव ज्ञातुमिच्छामि । अपि भवती प्रत्युत्तरिष्यति किम् ?' साऽप्यङ्गीकारमुखेन शिरो नामितवती । अतो नेमचन्दः पृष्टवान् - 'कथयतु नाम ममाऽस्यां मुष्टिकायां किमस्ति ?' इति । एतच्छ्रुत्वैव प्रत्युत्तरदानेऽसमर्था सा विक्षुब्धा जाता । तस्याः कपटकृत्यस्य रहस्यमद्य भिन्नं जातमासीत् । जनैरपि सत्यं ज्ञात्वा नेमचन्दः प्रशंसितः ।
यदा नेमचन्दस्याऽभ्यासः पूर्णोः जातस्तदा स चतुर्दशवर्षदेशीय आसीत् । तस्य पिता तु व्यवसायत्वेन जनानां विभिन्नेषु देशेषु प्रचलितमुष्णीषं बध्नाति स्म । ततः प्राप्तेन धनेन चाऽऽजीविकां निर्वहति स्म । तस्येच्छाऽऽसीद् यद् नेमचन्दोऽपि किमपि वाणिज्यं शिक्षेत् । अतस्तदनुरूपं किमपि कर्तुं नेमचन्दोऽप्यन्वेषणं कृतवान् । स चाऽऽकलनविपणी (Speculation Bazar) गतवान् । तादृशो व्यापारस्तस्मै अरोचत । पितुः सम्मतिं प्राप्याऽनुभवप्रापणार्थं स एकस्यां वाणिज्यसंस्थायां नियुक्तिं प्राप्तवान् । अल्पेनैव च कालेन स तस्मिन् निपुणोऽपि जातः । किन्तु तस्य मनसि चाऽन्यदेव किञ्चित् प्रचलदासीत् । इतोऽपि संस्कृत-धार्मिकाद्यभ्यासार्थं तस्याऽभिलाष आसीत् । अतः पितुः समक्षं स स्वमनोगतं निवेदितवान् । पिताऽपि सन्तुष्टः सन्ननुमतिं दत्तवान्। उक्तवांश्च- 'त्वया ह्येतदर्थं भावनगरं गन्तव्यं भविष्यति । तत्राऽस्माकं गुरुवर्यः श्रीवृद्धिचन्द्रमहाराजो विराजते । स हि पूज्यस्त्वां पाठयिष्यति' इति । एतच्छ्रुत्वा नेमचन्दस्य चित्तं प्रफुल्लितं जातम् ।
चित्रमयो विजयनेमिसूरिः
Page #91
--------------------------------------------------------------------------
________________
સાધુ જીવન
Lake Knjh 1925
નિષ્પાપ છે.
સંસાર કેટલો
22૬ i hih
રિસન કનાની પેઢ
वैराग्यम्
૮૦| શાસનસમ્રા-વિશેષ:
Jajd Education Saternational
Page #92
--------------------------------------------------------------------------
________________
वैराग्यम् एकस्मिंश्च शुभेऽहनि तरुणो नेमचन्दः पित्रोराशिषं प्राप्य भावनगरं पूज्यगुरुभगवतां सान्निध्यं प्राप्तवान् । 'कस्त्वम् ? कुतश्चाऽऽयातः ?' इति गुरुभगवता पृष्टः स सविनयं स्वकीयं परिचयं दत्तवान् । स्वकीयागमनोद्देशमपि च प्रस्तुतवान् । गुरुवरस्तस्याऽभ्यासादिविषयकान् प्रश्नानपि पृष्टवान् । तस्य सरलता-विनय-विवेकादिगुणैर्गुरुवरोऽपि प्रसन्नोऽभवत् । अन्ततः प्रश्नमेकं कृतवान् - 'भो ! किं प्रयोजनमस्ति तव धार्मिक-संस्कृताद्यभ्यासेन ?' इति । तदा नेमचन्द उक्तवान् ‘भगवन् ! न तादृशं किमपि मया विचारितमद्याऽपि । किन्तु तादृशेनाऽभ्यासेन मम कल्याणमात्महितं चाऽप्यवश्यंभावीति निश्चप्रचम् । तेन च विद्वानपि भविष्यामीत्यन्यो लाभः' इति । तस्यैवंविधोत्तरेण गुरुवरः सन्तुष्टो जातः ।
पश्चात् तस्य वासादिव्यवस्था गुरुभगवता कल्पिता । सोऽपि तत्र निश्चिन्तमुषितवान् । नियततयाऽप्रमत्तः संश्च स गुरुभगवतः पार्वेऽभ्यास-धर्मक्रियादिकं करोति स्म । सहैव गुरुभगवन्निश्रावर्तिनामन्यमुनिभगवतां सेवाशुश्रूषादिकमपि विनयेनोल्लासेन च करोति स्म । एवं च स सर्वेषामपि हृदि स्थानं प्राप्तवान् ।
सततं साधुजनसम्पर्कात् तस्य चित्तमपि वैराग्यप्लावितं जातम् । एकदा रात्रौ स्वकीयापवरके तल्पेऽनिद्रितः शयानः सन् विचारयति- "व्यावहारिकोऽभ्यासो मया कृतः, व्यवसायोऽपि कञ्चित्कालं कृतः, पुनश्चाऽत्राऽप्यभ्यासार्थमागतोऽस्मि । किन्तु किमनेन ? किमस्य पर्यवसानम् ? अन्ततस्तु सर्वमप्यत्रैव विहायैककेन निःसहायेनैवेतो गमनीयं किल ! यद्येवं तर्हि किंप्रयोजनमेतत् सर्वमपि कृत्यम् ? अप्येतादृशं किमप्युत्तमं विधातुं न शक्यं येन मम परकीयस्य च हितं स्यात् ? तादृशः को मार्गः, किं वा तादृशं कर्तव्यम् ?" - इति विचारयतस्तस्य साधुचर्या स्मृतिमुपयाता, यां च स नित्यं पश्यन्नासीत् । 'अहो ! कियन्निर्मलं निर्दोषं च जीवनमेतत् साधूनाम् ? रागद्वेषसुखदुःखादिद्वन्द्वोत्तरेऽस्मिन् जीवने कियान् निरपेक्षो निर्मलश्चाऽऽनन्दः सम्प्रवर्तते? न कस्याऽपि विषये दुश्चिन्तनं दुर्वचनं दुश्चेष्टितं वा करणीयमत्र । स्वार्थं विहाय स्वपरहितमेवाऽस्य जीवनस्य लक्ष्यम् ! एषा जीवनरीतिरेव मयाऽङ्गीकरणीया । एष एवोत्तमो मार्गः' - एवं चिन्तयतस्तस्य चित्ते साधुत्वाङ्गीकारस्य बीजाधानं जातम् ।
चित्रमयो विजयनेमिसूरिः | ८१
Page #93
--------------------------------------------------------------------------
________________
M
वैराग्य-परीक्षा
। शासनसम्राड्-विशेषः
Jain Loucation International
Page #94
--------------------------------------------------------------------------
________________
वैराग्य-परीक्षा पूज्यगुरुभगवतः पवित्रे सान्निध्ये नेमचन्दस्य दिवसा ज्ञान-ध्यान-क्रियासु सोल्लासं व्यतियन्ति स्म । अत्रान्तरे पितुः सन्देश आगतः- 'नेमचन्दस्य पितामही दिवं गताऽस्ति' इति ।
एतज्ज्ञात्वा नेमचन्दः प्रत्युदतरत् - 'असारोऽयं संसारः । न विश्वास्योऽयम् । अत्र न कोऽपि कस्यचिदस्ति । धर्म एव शरणम् । स एव च पन्थाः श्रेयस्करोऽपि । अतः स एवाऽऽलम्बनीयः' इति ।।
__एतादृशं प्रत्युत्तरं प्राप्य 'पुत्रस्य चित्ते वैराग्यं प्रादुर्भूतमस्ति' इति पिता कल्पितवान् । यदि नामाऽतः परं स तत्र निवत्स्यति तदा तु स साधुत्वमेवाऽङ्गीकरिष्यति - इति भयात् त्वरितमेव सोऽन्यत् पत्रं लिखितवान् - 'मम स्वास्थ्यं प्रतिकूलं वर्ततेऽतस्त्वं यथाशीघ्रं गृहं निवर्तस्व' इति। पितुरस्वस्थतासन्देशेन चिन्तितो नेमचन्दो गुरुभगवतोऽनुज्ञां प्राप्य स्वगृहं प्रत्यागतवान् । किन्तु, गृहद्वारं यावदागतः सर्वानपि स्वस्थतया स्वस्वकार्ये व्यापृतान् दृष्ट्वा विचक्षणो नेमचन्दोऽवबुद्धवान् यद् "मम गृहं प्रत्याकारणायैवैषा युक्तिः प्रयुक्ताऽऽसीत् पितृभ्याम्' - इति ।
अथ पुनरस्मै भावनगरं गन्तुमनुमति व दातव्या-इति सङ्कल्पे पितरौ दृढावास्ताम् । गच्छद्भिर्दिवसैश्च सह नेमचन्दस्य वैराग्यमपि दृढं दृढतरं च जायमानमासीत् । येन केनाऽपि सह वार्तालापेऽपि तस्य वैराग्यं प्रतिध्वनितं भवति स्मैव । एकदा कस्यचिद् विवाहप्रसङ्गे गमनीयमासीत् । तत्राऽपि मित्रैः सह संलापं कुर्वता तेनोल्लिखितं यद् - 'अहं तु साधुत्वमङ्गीकर्तुमभिलषामि' इति । वार्तालापमेनं किन्तु तस्य कनीयसी भगिनी श्रुतवती । पितुरग्रे च सा सर्वमपि प्रस्तुतवत्यपि । एतेन च चिन्तितेन पित्रा तस्योपरि निरीक्षा वर्धिता ।
चित्रमयो विजयनेमिसूरिः
Page #95
--------------------------------------------------------------------------
________________
पलायनम्
८४
शासनसम्राड्-विशेषः
Do
Page #96
--------------------------------------------------------------------------
________________
पलायनम्
पिता पुत्रश्च भावपि स्वस्वनिर्णये दृढावास्ताम् । नेमचन्दो गुरुभगवतः सान्निध्यमेवाऽभिवाञ्छति स्म । पिता तु तस्य निवेदने कर्णमपि न ददाति स्म । गच्छता समयेन नेमचन्दस्य विह्वलता प्रवृद्धा - 'किमथ करणीयम् ?' इति ।
'दुर्लभजी बखाई' इत्याख्यस्तस्यैको वयस्य आसीत् । सोऽपि मुमुक्षुरेव । तस्याऽपि कुटुम्बं तं तदर्थं नाऽनुमन्यते स्म । उभयोरपि स्थितिः समानैवाऽऽसीत् । अथ तौ सम्मील्य किं कथं च करणीयमिति विचारितवन्तौ । 'अनुमतिप्रापणं त्वशक्यमेव, अतः कश्चिदन्य एवोपाय आदरणीय' इति तयोर्भासितम् । स ह्युपाय एक एवाऽऽसीत्- 'कस्मैचिदपि किमप्यनुक्त्वैव गृहात् पलायनं करणीयमिति ।
उभावप्यवसरं प्रतीक्षेते स्म । एकदा रात्रौ गृहे सर्वेऽपि शयनार्थं प्रवृत्तास्तदा नेमचन्देन बृहत्या मञ्जूषाया अन्तः कोषात् चतुर्दशरूप्यकाणि गृहीतानि । पश्चाच्च 'अधुनैव निवत्यें' इत्युक्त्वा सर्वेषां मानसिकं प्रणामं कृत्वा गृहान्निर्गतः । पूर्वमपि बहुशस्तेनैवं गमनागमनं कृतमासीदतः समेषां विश्वासोऽपि तेन सम्पादित आसीत् । एवं चाऽद्याऽपि सर्वे विश्वस्ता एवाऽऽसन् । अतः केनाऽपि प्रतिप्रश्नः न कृतः ।
तत्काले हि पेट्रोलयानानां बाष्पयानानां चाऽभावात् शकटेनोष्ट्रेनैव वा यत्र कुत्राऽपि गन्तव्यं भवति स्म । तावपि योजनानुसारेण पूर्वमेव कञ्चिदुष्ट्रचालकं सज्जीकृतवन्तावास्ताम् । प्रथमं तु गमनं निराकुर्वन्नपि सोऽधिकधनलोभेनाऽङ्गीकृतवानासीत् । सङ्केतानुसारेण द्वावपि वयस्य तस्य गृहं प्राप्तवन्तौ । महति प्रत्यूषे इतः प्रस्थातव्यमिति निर्णयो जातः । 'झीणीयो' इति तस्य नामाऽऽसीत् । तस्य गृहं तु स्मशानसमीपे आसीत् । 'यदि कश्चिदनयोरन्वेषणं कुर्वन्नागमिष्यति तर्हि तन्मम कष्टाय भविष्यति' इति भीत्या 'युवां यत्र कुत्राऽपि रात्रिं गमयतां, न मम गृहे' इत्युक्तवान् सः । उभावपि तौ स्मशान एव कस्यचिद् वृक्षस्याऽधो निर्भयं रात्रिमगमयताम् । 'किं नाम भयं विरक्तानाम् ?' |
प्रातस्तौ तं जागरितवन्तौ । किन्तु भयात् पुनः स गमनं निराकृतवान् । 'कञ्चित् साक्ष्यमानयतु' इत्युक्तवांश्च । दुर्बोधोऽयमिति विचार्य ग्रामस्य सीमन इच्छाचंदमहोदयमानीतवन्तौ । स ह्येतावभिजानाति स्म । किन्तु, अनयोः प्रवृत्त्या सर्वथाऽनभिज्ञ आसीदतः स उष्ट्रचालकमेतौ नेतुमुक्तवान् । सोऽप्यनेन निःशङ्कितः सन्नङ्गीकृतवान् । त्रयोऽप्युष्ट्रमारुह्य पवनजवेन भावनगरं प्रति गमनमारब्धवन्तः । उभयोरपि मुखे प्रसन्नतातिरेकेण विकसिते जाते । हृदये चोत्तेजिते आस्ताम्। एवमेव प्रवासं कृत्वा तृतीयदिने तौ भावनगरं स्वकीयेष्टस्थानं प्राप्तवन्तौ ।
चित्रमयो विजयनेमिसूरि: |८५
Page #97
--------------------------------------------------------------------------
________________
महाभिनिष्क्रमणम्
८६
शासनसम्राड्-विशेष:
Page #98
--------------------------------------------------------------------------
________________
महाभिनिष्क्रमणम्
उभावपि वयस्यौ प्रथमं श्रीजसराजमहोदयस्य गृहं गतवन्तौ यत्र हि नेमचन्दः पूर्वमपि वासं कृतवानासीत् । तत्र च सर्वमपि प्रवृत्तमितिवृत्तं तौ निवेदितवन्तौ । स श्राद्धोऽपि तयोर्वृत्तान्तेन प्रसन्नो जातः, साहसकृत्यमिदं च तयोरभिनन्दितवांश्चाऽपि । अथ, प्राभातिकं कृत्यं समाप्य तौ श्राद्धेन सहैवोपाश्रयं पूज्यगुरु भगवतः समीपं गतवन्तौ । गुरुराजोऽपि नेमचन्दस्याऽनेनाऽतर्कितागमनेनाऽऽश्चर्यमनुभूतवान् । किन्तु सर्वमपीतिवृत्तं यदा तेन ज्ञातं तदा सोऽपि चित्ते प्रसन्नतामन्वभवत्, परं मातापित्रोरनुज्ञां विना साधुत्वप्रदानाय स्पष्टतया निषेधं कृतवान् ।
'अरे रे ! किं तीरं प्राप्तः पोतोऽयं मंक्ष्यति ? किं वाऽऽचरितमिदं साहसमपि व्यर्थं भविष्यति ?' इति गुरुभगवतो निषेधवचनं श्रुत्वा नेमचन्दोऽनुभूतवान् । समुद्रे इव तस्य मनस्यपि मथनं प्रारब्धं 'किमथ करणीयम् ?' इति ।
-
अत्र गृहे प्रातःकालपर्यन्तं तमनागतं दृष्ट्वा सर्वेऽपि चिन्तिता जाताः । समेषां मनस्येष निश्चय आसीद् यदेष भावनगरमेव गतवान् स्यात् । तावता गुरुभगवतः सन्देश आगतः "सदुर्लभो नेमचन्दोऽत्राऽऽगतोऽस्ति । दीक्षाग्रहणाय तस्याऽऽग्रहोऽप्यस्ति किन्तु भवतां सम्मतिं विना न तादृशं किमपि करिष्यामि' इति । अनेन हि सर्वेऽपि निश्चिन्ता जाता: ।
तत्र च द्वावपि श्रीजसराजमहोदयस्य गृहे एव स्थितौ । नित्यं च गुरुभगवतोऽग्रेऽनुनयमपि कुरुत:, किन्तु गुरुवरस्तु स्वकीयनिर्णयेऽत्यन्तं दृढ आसीत् । अतो नेमचन्दो विचारितवान् - 'गुरु भगवतो विचारो निर्णयो वाऽपि नाऽनुचितः । अस्माभिरेव किमपि करणीयमत्र । दीक्षा तु ग्रहीतव्यैव । किन्तु मातापित्रोरत्र सम्मतिस्तु दिवास्वप्नवदशक्यैव' इति ।
अत्रान्तरे, दुर्लभस्य पिता तु पूर्वमेव दिवं गत आसीदन्या च काऽप्यापद् नाऽऽसीदेव, अतस्तं गुरुवरो दीक्षितवान् परं नेमचन्दं तु निषिद्धवानेव ।
अनेन तु नेमचन्दस्य निर्धार इतोऽपि दृढतरो जातः । स निर्णीतवान् यद् 'यथाकथञ्चिदपि मया साधुत्वमङ्गीकरणीयमेव' इति । एकदा गुरुभगवतः शिष्यसमुदायादन्यतमस्य मुनिश्रीरत्नविजयस्य समक्षं स स्वस्थितिं भावनां च वर्णितवान् । कथं कथमपि तं मुनिवरमवबोध्य साधुवेषं गृहीतवान् । गृहीत्वा च जसराजमहोदयस्य गृहं गतवान् । तत्र चैकस्मिन्नपवरके स्वयमेव मुनिवेषं धृत्वा गुरुभगवत्समक्षमुपस्थितोऽभूत् । गुरुराजोऽपि तं तथास्वरूपं दृष्ट्वा क्षणं विस्मितः स्तब्धश्च जातः, किन्तु तस्योत्कटभावं दृढसत्त्वं च संलक्ष्य विधिपुरस्सरं तं दीक्षितवान् । दिवंगतस्य गच्छपतिश्रीमुक्तिविजय(मूलचंदजी ) महाराजस्य रजोहरणं तस्मै आर्पयत् । तस्य च 'मुनिश्रीनेमविजयः' इत्यभिधानं कृतम् । वि.सं. १९४५ तमवर्षस्य ज्येष्ठशुक्लसप्तम्याः स शुभो दिवस आसीत् ।
चित्रमयो विजयनेमिसूरिः ८७
Page #99
--------------------------------------------------------------------------
________________
WmRNA
स्वजनानां कोपः शान्तिश्च
८८. शासनसम्राड्-विशेषः
I
Boucation International
Page #100
--------------------------------------------------------------------------
________________
HESTER
स्वजनानां कोपः शान्तिश्च ___ 'नेमचन्दः साधुर्जातः'- वायुवेगेन वृत्तमिदं महुवानगरं प्राप्तवत् । गृहस्य वातावरणं संक्षुब्धं जातम् । सर्वेऽपि स्वजनादयः सत्वरं भावनगरमागताः । गुरुभवन्तं च लक्ष्यीकृत्योपालब्धं प्रवृत्ताः – “किमर्थमस्माकमनुमति विनैव कृतमेतद् भवता ?' इति । सर्वेऽपि कोपाकुला आसन् किन्तु गुरुराजः शान्ततयोक्तवान् - भो भ्रातर् ! एष स्वयमेव साधुवेषं धृतवानस्ति । नाऽस्त्यत्र मम कोऽपि दोषः' इति ।
एतच्छ्रुत्वा सर्वेऽपि नूतनं मुनिवरं प्रति गत्वा तमप्युपालब्धुमारब्धवन्तः । स कथमपि प्रतिनिवर्तेतेत्यतस्तं ते भीतिमपि दर्शितवन्तः, स्नेहं प्रदर्श्य बोधितवन्तश्चाऽपि किन्तु न कोऽपि प्रभावः सञ्जातः । स हि मेरुरिव निष्प्रकम्प एवाऽवतिष्ठत् । केवलं मन्दं मन्दं हसति स्म स समेषां मोहचेष्टितं दृष्ट्वा । माता ह्यत्यन्तं व्याकुला जाताऽऽसीत् । सा च भित्त्या शिरआस्फालनं कुर्वत्यासीत् । सा पुनः पुनः- 'मम मे पुत्रं प्रत्यर्पयतु' इत्येतदेव वाक्यमुच्चारयति स्म । किन्तु नैतावताऽपि मुनिश्चलितः ।
कौटुम्बिकैः सह लक्ष्मीचन्दमहोदयस्य वयस्य एक रूपशङ्कराख्योऽपि तत्राऽऽगत आसीत् । कश्चिद् न्यायाधीशस्तस्य मित्रमासीत् । कदाचिद् भयादयं प्रतिनिवर्तेतेति मत्वा स मुनिवरो न्यायाधीशसमक्षमप्यनीयत । कामपि प्रतिक्रियां विना मुनिरपि निर्भयं तत्र गन्तुं सिद्धो जातः । तदीयसत्त्वेन च विश्वस्तमना गुरुवरोऽपि तत्र गन्तुं साशीर्वादमनुमतिं दत्तवान् ।
न्यायाधीशोऽपि स विविधया रीत्या तं बोधयितुं प्रयत्नान् कृतवान् । किन्तु निश्चलं तं दृष्ट्वा किञ्चित् कठोरतयाऽपि स तेन सह व्यवहृतवान् । तथाऽप्यस्य मुनेस्तु- "मेरुः कदाचिच्चलितो भवेदपि, नो सात्त्विकानां चलतीह यन्मनः" इत्येतादृशी स्थितिरासीत् । अतः सोऽन्तिमं शस्त्रमुपयुक्तवान्-'यदि त्वमस्माकं वचनं नैवाऽङ्गीकरिष्यसि तहिं त्वां शृङ्खलया भंत्स्यामि' इति । मुनिरपि स सस्मितं किन्तु दृढतया प्रत्युत्तरितवान् - 'एष साधुवेषो न कदापि मम शरीराद् वियुक्तो भविष्यति । एष मम प्राणतुल्योऽस्ति । अपरं च, शृङ्कलैषा हस्तपादादीनां बन्धनं न त्वात्मनः, स हि सर्वथा सर्वदा च मुक्त एवाऽवतिष्ठतेऽतो नाऽहमेतादृशेन केनाऽपि बन्धनेन बिभेमि' इति ।
अनेन न्यायाधीशोऽप्यस्य दृढसत्त्वमनुभूय चेतसि चमत्कृतः सन् प्रसन्नो जातः । कौटुम्बिकांश्च सम्यग् बोधयित्वा प्रतिन्यवर्तयत् ।
सर्वेऽपि गुरुभगवतः समक्षमुपस्थिता जाताः । सर्वेऽपि शान्ता आसन् । अतो मुनिराजेन सर्वेऽपि सम्यग् बोधिताः । तेन च सन्तुष्टाः सर्वेऽपि गुरुभगवतां क्षमा याचित्वा नूतनं मुनिवरं च हितशिक्षां दत्त्वा स्वगृहं गतवन्तः ।
चित्रमयो विजयनेमिसूरिः ८९
Page #101
--------------------------------------------------------------------------
________________
साधुजीवनस्य प्रथमं वर्षम्
९० शासनसम्राड्-विशेषः
au mnational
Page #102
--------------------------------------------------------------------------
________________
साधुजीवनस्य प्रथमं वर्षम् विघ्नस्य झञ्झावात उपशान्तो जातः । मुनिवरोऽपि चारित्रचर्याया आह्लादमनुभवति
स्म।
अद्यपर्यन्तं साधुत्वं कथं प्रापणीयमित्यस्य चिन्ताऽऽसीत्, अथ प्राप्तमिदं साधुत्वं सार्थकं सफलं वा यथा स्यात्तथा दृढं प्रयतितव्यमित्यस्ति तस्योल्लासः । साधुत्वप्राप्तिस्त्वस्य जन्मनः सार्थक्यं, किन्तु साधुत्वस्य सार्थक्यं कथङ्कारम् ? एतदर्थं च स पुरुषार्थस्य यज्ञमेव प्रारब्धवान् । ज्ञान-ध्यान-स्वाध्याय-विनयादिषु सोऽप्रमत्ततया सोल्लासं च लीनो जातः । पुरुषार्थस्य धारा तु प्रतिदिनं प्रवर्धमानाऽऽसीत् ।
यदा च स स्वाध्यायादिकार्येभ्यो निवृत्तो भवति स्म तदा 'प्रागजी दरबार' नामश्रावकाय नित्यं धर्ममुपदिशति स्म । एकदा गुरुवरः कार्यवशात् तद्दिश्यागतः । केचिच्छब्दाः श्रवणगोचरा जाताः । अतः 'कस्यैष ध्वनिः, किं च कथयति ?' इति जिज्ञासया स्वागमनमज्ञापयित्वा स एकपाधै उत्थितोऽभूत् । 'हं...नूतनोऽयं मुनिः श्रावकाय धर्ममुपदिशति' - इति ज्ञात्वा चित्ते प्रसत्तिमन्वभवत् । अस्मिश्च साहजिक्येव वक्तृत्वशक्तिर्विद्यते इति निरीक्षितवान् । मनसि च किमपि सङ्कल्प्य ततो निःशब्दमेवाऽपसृतः ।
अथ श्रीपर्युषणपर्वदिनान्यागतानि । चतुर्थदिनादारभ्य श्रीकल्पसूत्राभिधागमग्रन्थस्य व्याख्यानं सभासमक्षं करणीयमिति परम्पराऽस्ति । तद्दिने च मुनिश्रीचारित्रविजयेन सह सभायां गन्तुं गुरुभगवता सोऽप्यादिष्टः, उक्तश्च 'गृहाणैतद् वस्त्रम्, एतदेव परिधाय गच्छ' इति । गुरुभगवता स्वकीयं वस्त्रं प्रदत्तमासीत् । एतेन यद्यपि तस्याऽऽश्चर्यं तु जातमेव किन्तु गुर्वा व तदर्थं सर्वोपर्यासीत् । व्याख्यानकालेऽपि मुख्यपीठ एवोपवेष्टुं मुनिना स आदिष्टः । अथाऽऽश्चर्यमितोऽप्यवर्धत । स्वल्पं च व्याख्यानं कृत्वा मुनिवरो नूतनमुनिराजस्याऽस्य हस्ते प्रति दत्त्वा- 'गुरुभगवत इयमाज्ञाऽस्ति यच्छेषं व्याख्यानं भवता करणीयम्' इति चोक्त्वा त्वरितमेव व्यासपीठादुत्तरितवान् । अनेन मुनिवरो ज्ञातवान् यत् किमर्थमेवं गुरुभगवताऽद्याऽऽचरितमिति ।
मनसैव गुरुभगवन्तं स्मृत्वा नत्वा हृदि च निधाय व्याख्यानं प्रारब्धवान् । तस्याऽस्खलिते धाराप्रवाहिते व्याख्यानप्रवाहे समग्राऽपि सभा प्रवहन्त्यासीत् । सर्वेऽपि साश्चर्यं शिरो विधूनयन्त आसन् । यावद् व्याख्यानं समाप्तं तावत् सर्वेऽपि सम्मोहिता इवैवोपविष्टा आसन् । सर्वेऽप्यतीव प्रसन्ना जाता । गुरुभगवतस्तु का वार्ता ? स तु स्वप्रियशिष्योपरि हार्दिकमाशीर्वादं वर्षन् मेघ इवोपलक्ष्यमाण आसीत् । अद्य तस्य विश्वासः सार्थको जातः किल !
एवं च प्रथमायामेव चतुर्मास्यां संस्कृतभाषामाध्यमेन मुनिवरः कल्पसूत्रं व्याख्यातवान् ।
चित्रमयो विजयनेमिसूरिः | ९१
Page #103
--------------------------------------------------------------------------
________________
ज्ञानसाधना
९२
शासनसम्राड्-विशेष:
279
Page #104
--------------------------------------------------------------------------
________________
ज्ञानसाधना 'मम कश्चित् साधुः सिद्धान्तकौमुदीव्याकरणस्याऽध्ययनं कुर्यात्' इति बहुवर्षेभ्यो गुरुभगवतो मनोरथ आसीत् । इङ्गिताकारसम्पन्नो मुनिवरोऽयं गुरुभगवतो मनोरथं ज्ञात्वा तत्पूर्त्यर्थं सङ्कल्पितवान् । तदर्थं च पूज्याय निवेदितवानपि । गुरुवरोऽपि प्रसन्नः सन् राज्यस्य संस्कृतपाठशालायामध्यापयतः श्रीभानुशङ्कराध्यापकस्य व्यवस्थां कृतवान् ।
शुभे चाऽहन्यध्ययनं प्रारब्धम् । ऐकाग्रेणोत्साहेन च मुनिवरः पठने मग्नोऽभवत् । तस्याऽध्ययननिष्ठया पण्डितोऽपि प्रसन्नो जातः । अतः सोऽपि व्याकरणशास्त्रान्तर्गतान् शास्त्रार्थान् परिष्कारांश्च विस्तरतो बोधयति स्म लेखयति स्म चाऽपि । मुनिवरोऽपि प्रज्ञातिशयेन तस्मिन्नेव दिने तत्सर्वमपि कण्ठस्थं कृत्वाऽपरस्मिन् दिने पण्डितवर्यस्य प्रश्नान् सम्यक् समादधाति स्म । एतेन च पण्डितोऽप्याश्चर्यमनुभवन्नासीत्, यतो नाऽद्यपर्यन्तं तेनैतादृशः कोऽपि विद्यार्थी पाठितः ।
____ भानुशङ्करपण्डितोऽयं भावनगरराज्ये सर्वत्र ख्यात आसीत् । तेन सह ज्ञानचर्चा) विभिन्नग्रामनगरादिभ्यः पण्डितजना आगच्छन्त आसन् । तदा च मुनिवरस्य प्रज्ञया निष्ठया च प्रभावितः सन् स तेषां पुरतस्तं प्रशंसते स्म । एकदा भावनगरसत्क एव नाथालालाभिधो जनः काशीं गत्वा विद्याध्ययनं कृत्वा पण्डितश्च भूत्वा पुनरागत आसीत् । सोऽपि पण्डितं मेलितुं गतवान् । तदा वार्तालापमध्ये पण्डितवरो मुनिं प्रशंसितवान् । तच्छ्रुत्वा नाथालाल उवाच - 'मया सह किं स शास्त्रार्थं करिष्यति?' । पण्डितवर्यस्तद्वचनमङ्गीकृतवान् । एवं च शास्त्रार्थो नियतो जातः । पण्डितवर्यो मध्यस्थो जातः । सिद्धान्तकौमुदीमेव विषयीकृत्य शास्त्रार्थः प्रवृत्तः । कियत्कालं तु सर्वं सम्यक् प्रचलितं, पश्चाद् मुनिवरः स्वप्रबलतर्कशक्त्या प्रतिवादिनं निरुत्तरीकृतवान् । अनेन पण्डितवर्यः प्रसन्नो जातः । स्वकृतस्याऽध्यापनस्य तेन सार्थक्यमनुभूतम् ।
अध्ययनेन सहैव मुनिवरोऽन्यांश्च मुनिवरानपि पाठयति स्म । गुरोरादेशानुसारं च स्वसातीर्थ्यं पर्यायज्येष्ठं मुनिराजं श्रीधर्मविजयमहाराजमपि रघुवंशकाव्यपठनं कारयन्नासीत् ।
'कौमुदीव्याकरणाभ्यासो यावन्न पूर्णो भविष्यति तावद् घृतदधिदुग्धतैलादिरहितमेवाऽऽहारं ग्रहीष्यामि' इति सङ्कल्पमपि मुनिराजः कृतवानासीत् ।
चित्रमयो विजयनेमिसूरिः ९३
Page #105
--------------------------------------------------------------------------
________________
atio
उपस्थापनम्
international
. શાસનસમ્રા-વિશેષ:
કેમ દિયા દાન વિહાલારાનો ઇઝરાદો છે.
| તને પાલિતાણા લોકો છે. મને પણ લાગે છે કે તું ત્યાં જાય તો તૈનોનો પાસે તારો વિરોષ અભ્યાસ પણ થશે.
Page #106
--------------------------------------------------------------------------
________________
उपस्थापनम्
नवदीक्षितानां साधु-साध्वीनामुपस्थापन - योगोद्वहनादिकृत्यानि कथं कारणीयानि ? इति . प्रश्नस्तपागच्छाधिराजश्रीमुक्तिविजय (मूलचन्दजी) महाराजे दिवं गते सत्युपस्थितोऽभूत् । बहुविधविचाराणामन्ते च श्रीवृद्धिचन्द्रमहाराजः सूचितवान् यदिदानीं त्वहम्मदाबादनगरे लवारपोळमध्ये स्थितस्य पन्यास श्रीप्रतापविजयमहाराजस्य सान्निध्ये एतत्सर्वमपि कार्यं सम्पादनीयमिति । एवं च गुरुभगवत आदेशानुसारं मुनिश्रीनेमविजयोऽप्यन्यैर्मुनिवरैः सह राजनगरं गतवान् । तत्र च तस्य योगोद्वहनपूर्वकमुपस्थापनकृत्यं सानन्दं सम्पन्नं जातम् । तदनु च तत्रैव राजनगरे कियत्कालं स्थित्वा सिद्धान्तकौमुदीव्याकरणस्याऽवशिष्टभागस्याऽध्ययनं पूर्णं कृतवान् । एवं च गुरुभगवतो मनोऽभिलषितं पूर्णं कृत्वा पुनस्तत्सान्निध्ये भावनगरं प्राप्तवान् । गुरुवरोऽपि प्रसन्नः सन् तमाशिषाऽनुगृहीतवांश्च ।
गुरुभगवत: स्वास्थ्यं तु प्रतिकूलमासीत् । अत आदिनमारात्रि च तत्प्रतिच्छायमिव भूत्वा स शुश्रूषां करोति स्म । अध्ययनकार्यं तु तदाऽपि प्रवर्तमानमेवाऽऽसीत् । चतुर्मासीद्वयं तु तत्रैव भावनगरे व्यतीतम् । अत्रान्तरे च पूज्यदानविजयमहाराजोऽपि तत्र गुरुभगवतः स्वास्थ्यवार्तां प्रष्टुमागत आसीत् । तदा च स सर्वेषां साधूनां सूक्ष्मक्षिकया सर्वं निरीक्षितवानासीत् । मुनिप्रवरस्य नेमविजयस्य ज्ञान-क्रियारुचि - चारित्र - विनयादिगुणैस्तस्य हृदयमावर्जितं जातम् । यथासमयं च स पुन: पादलिप्तपुरं प्राप्तवान् । तत्र च 'अत्र विहरतां साधुसाध्वीनां न्यायव्याकरणादिविषयकोऽभ्यासः सम्यक् स्याद्' इत्याशया 'रायबहादुर बुद्धिसिंहजी जैन संस्कृत पाठशाला' इत्यभिधयैकां पाठशालां स्थापितवान् । पश्चाच्च विज्ञप्तिपत्रमेकं श्रीवृद्धिचन्द्रमहाराजं प्रति प्रेषितवान् – 'यदि नेमविजयोऽप्यत्र समागच्छेत् तदा पाठशालायामध्ययनाध्यापनकार्यं सवेगं सम्यक्तया च प्रचलेद्' इति । पूज्यगुरुवरोऽपि लाभालाभौ विचार्य नेमविजयमहाराजं पादलिप्त पुरं गन्तुमाज्ञप्तवान् ।
-
'गुरुभगवतः स्वास्थ्यं समीचीनं नाऽस्ति । कथं तं विहायेतो गन्तव्यम् ?' इति संशयितः सन्नपि ‘आज्ञा गुरूणामविचारणीया' इति न्यायेन मुनिवरो गुर्वाज्ञां शिरोधार्यां कृत्वा पादलिप्तपुरं प्रति विहृतवान् ।
चित्रमयो विजयनेमिसूरिः | ९५
Page #107
--------------------------------------------------------------------------
________________
गुरुभगवतः स्वर्गमनम्
રાધનહીટ પુધેિસિંહજી જૈન પાઠશાળા
शासनसम्राड्-विशेषः
JE
Evocation International
Page #108
--------------------------------------------------------------------------
________________
गुरुभगवतः स्वर्गमनम्
तस्य पादलिप्तपुरगमनेन तत्रत्यायाः पाठशालायाः पठनपाठनप्रवृत्तिर्वेगवती सञ्जाता । तेन च श्रीदानविजयमहाराजः प्रासीदत् । सहैव श्रीदानविजयमहाराजस्याऽन्तिके तस्याऽध्ययनमपि सम्यक् प्रचलदासीत् ।
गुरुभगवत आज्ञया यद्यपि सोऽत्राऽऽगतस्तथाऽपि गुरुभगवतः स्वास्थ्यविषये सततं चिन्तित आसीत् ।
इतश्च भावनगरे गुरुभगवतः स्वास्थ्यमधिकतया प्रतिकूलं जातम् । समग्रोऽपि सङ्घ उपस्थितोऽभूत् । यतो भावनगरस्य स धर्मदाता गुरुरासीत्, अत एव च भावनगरवास्तव्यानां कृते तु स सर्वस्व आसीत् । निष्णाताश्चिकित्सका उपचरन्त आसन् । पूज्यमोहनलालमहाराजोऽपि तदा तत्रैवाऽऽसीत् । प्रायः पञ्चाशदधिकाः साधुसाध्वीमहाराजा उपस्थिता आसन् ।
अस्वस्थतायां सत्यामपि समाधिस्तु काचिदपूर्वाऽऽसीत् । 'अरिहंत-सिद्ध-साहू' इत्यष्टाक्षरमयमन्त्रस्य ध्याने उच्चारणे चैव स लीनो जातः । एवमेव हि पूर्णात्मभावस्थितावेव समाधिभावेन विनश्वरमिदं देहं त्यक्त्वा गुरुवरो दिवं गतवान् ।
उदन्त एष श्रीसङ्खेन पादलिप्तपुरे प्रेषितः । श्रवणमात्रेणैव मुनिनेमविजयो वज्राहत इव मूढ: शून्यमनस्कश्च जात: । अश्रुधारा प्रावहच्चक्षुषोः । 'गुरुदेवस्याऽन्तिमे समयेऽप्यहमुपस्थितो नाऽऽसम्, पूज्यस्य सेवाऽपि मया न लब्धा' इति विचारस्तस्य हृदि शल्यायते स्म । किन्तु 'कालो हि दुरतिक्रमः' इति सत्यं तु सर्वैरपि स्वीकरणीयमेव भवति, नाऽन्यः कोऽप्युपायोऽत्रास्ति इति विचार्य स कथञ्चिदाश्वस्तो बभूव । मनसि च सङ्कल्पितवान् – 'गुरुदेवसदृशान् गुणान् संसाध्य तेषां जैनशासनोन्नत्यभिलाषं पूरयिष्यामि' इति ।
चित्रमयो विजयनेमिसूरिः
९७
Page #109
--------------------------------------------------------------------------
________________
The IKIR PUPIERE RASR-Neeg RENEDHRE
MA: भुलि HAIN SHAvaj भविसं १८५1.
_ स्वतन्त्रतया कृता प्रथमा चतुर्मासी
शासनसम्राड्-विशेषः
Jain Education (hternational
Page #110
--------------------------------------------------------------------------
________________
स्वतन्त्रतया कृता प्रथमा चतुर्मासी
साहि चतुर्मासी तत्रैव पादलिप्तपुरे व्यतीता । पश्चाच्च पूज्यदानविजयमहाराजस्य पुरतः श्रीरैवताचलतीर्थयात्रार्थं समुत्पन्नं स्वकीयाभिलाषं पूज्यो व्यक्तीकृतवान् । तस्य चाऽनुज्ञां समवाप्य मुनिप्रधानविजयद्वितीयः स विहारयात्रां प्रारब्धवान् । शनैः शनैश्च विभिन्नेषु ग्रामनगरादिषु विहरन् सन् गिरनारतीर्थं प्राप्तवान् । तत्र च यात्रां कृत्वा विहरन् क्रमशो जामनगरं प्राप्तवान् ।
तत्र हि पूज्यस्य वैदुष्य-वक्तृत्वकौशल - निर्मलचारित्रादिगुणसम्भारेण प्रभावितः श्रीसङ्घश्चतुर्मास्यर्थे विज्ञप्तवान् । पूज्योऽपि द्रव्य - क्षेत्र - काल - भावादिकं सानुकूलं विज्ञाय स्वसम्मतिं दत्तवान् । एवं च सा तस्य प्रथमा स्वतन्त्रा चतुर्मासी जाता । तत्र च पूज्यस्य सदुपदेशात् कार्यद्वयं जातं, यच्च भविष्यति काले जायमानानां शासनोन्नतिकार्याणां मङ्गलाचरणमिवाऽऽसीत् ।
प्रथमं तावद् जामनगरे 'नवलखा' कुटुम्बं ख्यातमासीत् । तत्कुटुम्बस्य डाह्यालालाभिध एक: श्रावकः पूज्यस्योपदेशात् संसाराद् विरक्तो जातः । स च साधुजीवनमङ्गीकर्तुमुत्सुको दृढप्रतिज्ञश्च जातः । किन्तु तस्याऽग्रज एतदर्थं स्वविरोधं प्रकटितवान् - 'ओह् ! व्यसनासक्तस्य तव साधुत्वग्रहणं कथं शक्यं रे ? नैतदर्थमनुज्ञास्येऽहम्' इति । परं डाह्यालालोऽपि स्वप्रतिज्ञायामतिदृढ आसीत् । उभावापि भ्रातरौ स्वस्वनिर्णये निश्चलावास्ताम् । अग्रजस्तु न्यायालयेऽभियोगं प्रवेशितवान् । किन्त्वेवं कृते समाजे कुटुम्बस्य प्रतिष्ठाया हानिर्भविष्यतीति मन्वानाः समाजस्य बुधजनास्तं बोधितवन्तः । पश्चाच्च समहोत्सवं तस्य दीक्षा सम्पन्ना जाता । 'मुनिश्रीसुमतिविजय' इति नाम स्थापितं जातम् । स हि पूज्यस्य प्रथमः शिष्यो जातः ।
१.
द्वितीयं कार्यमासीत् श्रीशत्रुञ्जयतीर्थस्य पदयात्रासङ्घः । श्रेष्ठिवर्य श्रीसौभाग्यचन्दः पूज्यस्य सान्निध्ये यात्रासङ्घमायोजितवान् । अस्यां च सङ्घयात्रायां षण्णियमाः पालनीया भवन्ति पद्भयामेव गमनम्, २. एकश एव भोजनम्, ३. अचित्तमेव भोक्तव्यम्, ४. भूमावेव शयनं, न पल्यङ्के, ५. उभयसन्ध्यायामावश्यकक्रियाकरणम्, ६. ब्रह्मचर्यपालनमिति । पूज्यस्य सान्निध्ये आयोजित एष प्रथम एव यात्रासङ्घ आसीत् ।
-
चित्रमयो विजयनेमिसूरिः | ९९
Page #111
--------------------------------------------------------------------------
________________
ब
શ્રી વૃધ્યિાયંદુજી સંસ્કૃત પાઠI[L[,
- जन्मभूमौ चतुर्मासी
शासनसम्राड्-विशेषः
Page #112
--------------------------------------------------------------------------
________________
जन्मभूमौ चतुर्मासी वि.सं. १९५१ तमवर्षे श्रीसङ्घस्य मातापित्रोश्चाऽऽग्रहेण पूज्यः स्वजन्मभूमौ श्रीमहुवानगरे चतुर्मासी यापितवान् । पूज्यस्य प्रौढज्ञानेन प्रभावकवक्तृत्वेन कठोरचारित्रचर्यया च समस्तोऽपि सङ्घो विशेषेण च मातापितरावत्यन्तं प्रमुदिता जाताः । तयोर्हदये आनन्दकल्लोलैः कल्लोलिते जाते। अपि च कथं न स्यादेवम् ? तयोः स्ववल्लभोऽद्य सर्ववल्लभो जात आसीत् । कुलस्य गौरवमपि वर्धितमासीद् भगवन्महावीरस्य शासनमपि चोद्योतितमासीदनेन । तौ चाऽद्य धन्यतामनुभवन्तावास्तां जीवनस्य च सार्थक्यं साफल्यं चाऽप्यनुभवतः स्म ।
तत्राऽपि हि पूज्यस्य सदुपदेशात् 'श्रीवृद्धिचन्द्रजी संस्कृत पाठशाला' स्थापिता जाता। एवं नामकरणं कृत्वा स्वगुरुभगवतो नामाऽपि चिरञ्जीवि कृतम् । चतुर्मास्यनन्तरमेको गृहस्थः संसारं त्यक्त्या पूज्यस्य शिष्यत्वं स्वीकृतवान् । तस्य च 'मुनिसौभाग्यविजय' इत्यभिधानं पूज्येन विहितम् ।
चित्रमयो विजयनेमिसूरिः | १०१
Page #113
--------------------------------------------------------------------------
________________
વૃદિારંજ જૈન પાઠશાળી ઘસTeNi દાસ સતા
मुनिवरश्रीआनन्दसागरमहाराजस्य विद्याभ्यासः
शासनसम्राड्-विशेषः
Page #114
--------------------------------------------------------------------------
________________
मुनिवरश्रीआनन्दसागरमहाराजस्य विद्याभ्यासः विविधेषु ग्रामनगरादिषु पूज्यो विहरति स्म । यथा यथा परिचयो भवति तथा तथा जनानां पूज्यं प्रत्यादरः प्रवर्धते स्म । पूज्यस्य प्रतिभाऽद्भुता च कार्यशक्तिः समेषामपि हृदये आत्मीयत्वं जनयति स्म । वि.सं. १९५२तमवर्षस्य वर्षावासो 'वढवाण'नगरे सञ्जातः । ततः पूज्यः पादलिप्तपुरं प्रति प्रस्थितः । मार्गे 'लींबडी'ग्रामे मुनिवर्यश्रीआनन्दसागरमहाराजः सम्मीलितः । सोऽपि ततः पूज्येन सहैव विहृतवान् । तदा च मुनिवर्येण तेन पूज्यस्य पार्वे संस्कृतव्याकरणादिविषयकोऽभ्यासोऽपि कृतः । पूज्योऽपि तं प्रसन्नतया सप्रेम च पाठितवान् ।
श्रीस्तम्भतीर्थे-खम्भातनगरे उभावपि पूज्यौ सहैव चतुर्मासी यापितवन्तौ । पर्युषणपर्वणि च कल्पसूत्रान्तर्गतं 'गणधरवाद'विषयकं व्याख्यानमपि सहैव कृतवन्तौ । तत्र च व्याख्याने भगवतो महावीरस्य इन्द्रभूत्याद्येकादशब्राह्मणानां च संवादोऽस्ति । एष एव प्रयोग उभाभ्यामपि पूज्याभ्यां तस्मिन् वर्षे व्याख्याने कृतः - 'श्रीआनन्दसागरमुनिवरो विप्राणां शङ्कां प्रस्तौति स्म पूज्यश्च ताः सतर्कं समादधाति स्म' इति । अपूर्वं किञ्चिदेतद् दृश्यमासीत् ।
तत्राऽपि पूज्यस्योपदेशेन 'श्रीवृद्धिचन्द्रजी जैन संस्कृत पाठशाला' स्थापिता जाता । अस्यां च धार्मिकाभ्यासेन सहैव संस्कृतव्याकरण-कोश-काव्यादीनामपि शिक्षणं दीयमानमासीत् ।
प्रतिवर्षमिवाऽस्मिन् वर्षेऽपि चतुर्मास्यनन्तरं पूज्यस्य सान्निध्ये श्राद्धवर्येण श्रीअमरचन्दमहोदयेन श्रीशत्रुञ्जयतीर्थस्य पदयात्रासङ्घ आयोजितः । तदनन्तरं च पूज्यः पुनः स्तम्भतीर्थमागतवान् ।
अत्रान्तरे च जर्मनाध्यापकः श्रीहर्मनजेकोबीमहोदयो जैनागमस्य श्रीआचाराङ्गसूत्रस्याऽऽङ्ग्लभाषयाऽनुवादं कृतवानासीत् । स चाऽनुवादः प्रकाशितोऽभूदपि । तत्र च 'जैनशास्त्रेषु मांसाहारोऽप्यनुमतोऽस्ति' इति स्पष्टतया प्रतिपादितं तेन । विधानमेतत् पुरस्कृत्य समग्रेऽपि जैनसमाजे कोलाहलः सञ्जातः । पूज्योऽप्येतज्ज्ञात्वा 'मुम्बइसमाचार'नामवृत्तपत्रमाध्यमेन तेनाऽध्यापकेन सह पत्रव्यवहारमपि कृतवान् । अन्ततः श्रीआनन्दसागरमुनिवरेण सह तस्य विधानस्य शास्त्रीयप्रमाणैर्युक्तिभिश्च प्रतिकाररूपेण पूज्यः प्रत्युत्तरं लिखितवान् । स च प्रत्युत्तरः पश्चात् 'परिहार्यमीमांसा' नाम्ना पुस्तकरूपेण प्रकाशितोऽपि जातः ।
चित्रमयो विजयनेमिसूरिः १०३
.
Page #115
--------------------------------------------------------------------------
________________
O
श्रीस्तम्भनपार्श्वनाथप्रतिष्ठा
१०४. शासनसम्राड्-विशेष:
Jan Education National
22
5
3
Page #116
--------------------------------------------------------------------------
________________
श्रीस्तम्भनपार्श्वनाथप्रतिष्ठा श्रीस्तम्भतीर्थ-खम्भातनगरस्याऽधिष्ठाताऽस्ति श्रीस्तम्भनपार्श्वनाथभगवान् । लघ्वाकाराऽपि सा प्रतिमा तु नीलरत्नमय्यस्ति । एकदा तारापुरवास्तव्यः कश्चित् सुवर्णकारः श्राद्धवेषेण लोभाविष्टः सन् पूजनव्याजेन तत्राऽऽगतः । मध्याह्नकाल आसीत् । जनानां गमनागमनमपि तदाऽत्यल्पमासीत् । जिनालयस्याऽर्चकोऽपि कार्यव्यग्र आसीत् । एतादृशमवसरं संसाध्य स प्रतिमां चोरयित्वा शनैश्च ततः पलायितवान् । तारापुरं प्राप्य नारेश्वराख्यतडागस्य समीपवर्तिनि प्रदेशे गर्तं कृत्वा प्रतिमां निगूहितवान् । गर्तं च पुनः प्रपूर्य सङ्केताय स तदुपरि चाऽशुचिं कृतवान् । किन्तु 'अत्युग्रपुण्यपापानां फलमिहैव जायते' इति न्यायेन स यावद् गृहं प्राप्तवान् तावत् तस्य नेत्रे दृष्टिविहीने इवाऽजायताम् । असह्या च नेत्रपीडा तस्योत्पन्ना । तस्य पत्नी तं पृष्टवती - 'किमपि दृष्कृतमाचरितं त्वयेति प्रतिभाति मम । निर्हेतुकं न किमप्यनिष्टं घटते । अतो यदपि कृतं स्यात् तत् सत्यं वदतु' इति । एवं च साग्रहं पृष्टः स सर्वं स्वकृत्यं निवेदितवान् । पत्न्यपि तं तदर्थं तर्जितवती ।
अत्र च खम्भातनगरे सर्वत्र हाहारवः सञ्जातः । ‘यावदियं प्रतिमा पुनर्न प्राप्येत तावन्नाऽहमन्नपानादिकं किमपि ग्रहीष्यामि' इति प्रतिज्ञातवान् श्रीअमरचन्दः श्राद्धः । दिनद्वयं त्वेवमेव व्यतीतम् । कोऽप्युदन्तो न प्राप्तः । किन्तु सुवर्णकारेण सहाऽऽगतेन जनेन सह सुवर्णकारस्य मतभेदो जातोऽतोऽपमानितः स सर्वमपि चौर्यकृत्यमन्यसमक्षं प्रकटितवान् । सा च वार्ता प्रसरन्ती सती खम्भातनगरेऽप्यागता । श्राद्धाश्च सत्वरं तारापुरं गतवन्तः । कथमपि सुवर्णकारस्य गृहसङ्केतं प्राप्य तत्र जग्मुः । श्राद्धजनानागतान् दृष्ट्वा तस्य पत्नी सर्वमपि व्यतिकरं यथातथं वणितवती । तस्याश्च साहाय्येन जिनबिम्बं पुनः सम्प्राप्तम् ।
सहर्ष सर्वेऽपि बिम्बं पुनः स्तम्भपुरमानीतवन्तः । पूज्यपादश्च तत्रैव विराजित आसीत् । वि.सं. १९५६ तमे तस्मिन् वर्षे पूज्यस्तं बिम्बं प्रतिष्ठितवान् । एषा च पूज्येन कृता प्रथमा प्रतिष्ठाऽऽसीत् । तदनु च पूज्यस्य मार्गदर्शनानुसारेण श्रीस्तम्भनपार्श्वनाथजिनालयादीनां त्रयाणां जिनालयानां जीर्णोद्धारो निर्णीतः श्रीसद्धेन । शिखरत्रययुतो जिनालयस्तत्र निर्मापितो जातः । तत्र च वि.सं. १९८४ तमवर्षे फाल्गुनशुक्लतृतीयादिने शुभलग्ने श्रीस्तम्भनपार्श्वनाथादिजिनबिम्बानां प्रतिष्ठामहोत्सवः सञ्जातः । एतस्मिन्नवसरे चाऽञ्जनशलाकाविधानमपि संवृत्तम् ।
चित्रमयो विजयनेमिसूरिः
१०५
Page #117
--------------------------------------------------------------------------
________________
स्तम्भतीर्थे जिनालयानां जीर्णोद्धारः
१०६ शासनसम्राड्-विशेष:
花
XC
Page #118
--------------------------------------------------------------------------
________________
स्तम्भतीर्थे जिनालयानां जीर्णोद्धारः
ते
स्तम्भतीर्थे ‘जीराला’पाटकादिषु स्थलेषु विभिन्ना एकोनविंशतिर्जिनालया आसन् । च जीर्णा आसन् । तत्र च पूजकानां श्राद्धानां सङ्ख्याऽप्यत्यल्पाऽऽसीत् । अतस्तत्रत्यः श्रेष्ठिवर्यः श्रीपोपटलालमहोदयो विचारितवान् यद्- एकमेव विशालं जिनमन्दिरं निर्माय तत्रैवैतेषामेकोनविंशतेजिनालयानां जिनबिम्बानां समावेशः क्रियेत चेत् सौकर्याय जायेत । पूजनार्चनादिव्यवस्थाऽपि सुलभा स्यादिति । पूज्यस्य पुरतः स स्वविचारं निवेदितवान् । पूज्योऽपि तस्य विचारं समर्थितवान् ।
पश्चाच्च पूज्यस्य मार्गदर्शनेन तेन च प्रदत्ते मुहूर्ते जीर्णोद्धारकार्यारम्भो जातः । निजपर्यवेक्षणे एव जीर्णोद्धारकार्यं कारयितव्यमिति सङ्कल्पितवान् श्राद्धः श्रीपोपटलालमहोदयः । तदन्वयेन च स नित्यं प्रभातकाले शीघ्रमागत्याऽऽसायं तत्रैव कार्यव्यस्तस्तिष्ठति स्म ।
तत्कार्यं च वि.सं. १९६२तमवर्षे सम्पन्नं जातम् । तत्र च मूलनायकत्वेन श्रीचिन्तामणिपार्श्वनाथभगवान् प्रतिष्ठापित: । विभिन्नानां जिनालयानां मूलनायकभगवन्तश्च विभिन्नेषु गर्भगृहेषु स्थापिताः । पूज्यस्य सान्निध्ये एवैष प्रतिष्ठामहः सम्पन्नो जातः ।
चित्रमयो विजयनेमिसूरिः
१०७
Page #119
--------------------------------------------------------------------------
________________
10 गणिपद-पन्यासपदारोहणम्
शासनसम्राड्-विशेष:
C
STA
Page #120
--------------------------------------------------------------------------
________________
गणिपद-पन्न्यासपदारोहणम् पूज्यगुरुभगवता श्रीवृद्धिचन्द्रमहाराजेन पूर्वमेव पूज्येऽनन्यसाधारणी प्रतिभा निरीक्षिताऽऽसीत् । सा चाऽद्य षोडशभिः कलाभिः प्रकाशमानाऽऽसीत् । तत्तेजश्च सर्वत्र प्रसृतमासीत् । पूज्यस्यैतद् योग्यत्वं परीक्ष्य पूर्वमेव गुरुभगवता स्वज्येष्ठशिष्यः श्रीगम्भीरविजयमहाराज आदिष्ट आसीद् यद् 'नेमविजयस्य त्वयाऽऽगमयोगा उद्वाह्याः' इति । तदाज्ञामनुसृत्य श्रीगम्भीरविजयमहाराजः पूज्यस्य योगोद्वहनं कारितवान् । वि.सं. १९५९तमे च वर्षे भावनगरे श्रीभगवतीसूत्राभिधागमस्य योगे प्रवेशं कारितवान् । सप्तमासीयं तद्दीर्घ तप आसीत् । चतुर्मास्यनन्तरं सर्वेऽपि विहृत्य वलभीपुरमागतवन्तः । अत्रैव ह्याचार्याणां पञ्चशती सम्मीलिताऽऽसीद् यया च लुप्यमाना आगमग्रन्थाः पुस्तकारूढाः कृता आसन् । एतादृश्यां श्रीदेवधिगणिक्षमाश्रमणादिमहापुरुषाणां पदरजोराजीपवित्रितायामस्यां भूमौ वि.सं. १९६०तमवर्षे कार्तिककृष्णसप्तमीदिवसे श्रीभगवतीसूत्रानुज्ञारूपः श्रीगणिपदप्रदानमहः सञ्जातः । तदनु च मार्गशीर्षशुक्लतृतीयादिने पण्डितपदेनाऽलङ्कृतो जातः पूज्यः ।
पश्चात् तत्रैव पूज्येन मुनिआनन्दसागरमहाराजं स्वगुरुबन्धुं श्रीप्रेमविजयमहाराजं स्वशिष्यं च श्रीसुमतिविजयमहाराजं भगवतीसूत्रस्य योगे प्रवेशः कारितः । ततश्च यथाक्रमं विहृत्य राजनगरं-अहम्मदावादनगरं समागताः सर्वे । तत्र च समहोत्सवं त्रयोऽपि मुनिवरा गणिपन्न्यासपदाभ्यां विभूषिताः कारिताः ।
वि.सं. १९६०तमवर्षस्य चतुर्मासी सर्वैरपि राजनगर एव कृता । चतुर्मास्यनन्तरं च पूज्यस्य प्रेरणया श्रेष्ठिश्रीवाडीलाल-जेठाभाईपरिवारेण श्रीशत्रुञ्जयतीर्थस्य पदयात्रासङ्घस्याऽऽयोजनं कृतम् ।
चित्रमयो विजयनेमिसरिः १०९
Page #121
--------------------------------------------------------------------------
________________
ર
तीर्थाधिराज श्रीशत्रुञ्जयतीर्थाशातननिवारणम्
2
११०
शासनसम्राड् - विशेष:
&
Page #122
--------------------------------------------------------------------------
________________
तीर्थाधिराजश्रीशत्रुञ्जयतीर्थाशातननिवारणम् तदा हि पादलिप्तपुरे मानसिंहठक्कुरस्य राज्यमासीत् । स च जैनद्वेषी आसीत् । कथमपि जैनाः सन्ताप्या इत्येव तस्य मतिः सततं प्रवर्तते स्म । तथैव च कर्तुं स सततं प्रयतते स्माऽपि । स हि यात्राव्याजेन शत्रुञ्जयशिखरमारोहति स्म । तत्र च सपादत्राणं धूमवर्तिकामपि च मुखे प्रक्षिप्यैव जिनालयं प्रविशति स्म । श्राद्धाः सानुनयं तं निवारयन्ति स्म किन्तु सत्तामदोन्मत्तः स तेषामनुरोधमुपेक्ष्य तथैव पुनः पुनः कुरुते स्म । 'उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये' इत्येतादृशी स्थितिरासीत् । अतो यदा च ससङ्घः पूज्यः पादलिप्तपुरमागतवान् तदा तत्रत्यं वातावरणं विक्षुब्धमासीत् । तं ठक्कुरं बोधयितुं सर्वेऽपि प्रयत्ना निष्फला एव गता आसन् ।
___ अथ श्रेष्ठिआणंदजी-कल्याणजीसंस्थायाः प्रतिनिधिजना मार्गदर्शनार्थं पूज्यस्य निश्रायां सम्मीलिताः । यावच्छक्यं कलहं विनैव विवादोऽयं समाधातव्य इति पूज्यस्याऽभिप्राय आसीत् । 'एवं सत्यपि यदि कार्यं न सिद्धयेत् तदैवाऽन्तिमोपायत्वेन न्यायालय आश्रयणीय' इत्यपि पूज्यो निर्दिष्टवान् ।
___एवं च संस्थायाः प्रतिनिधिजनाः पुनस्तं ठक्कुरं बोधयितुं प्रयत्नं कृतवन्तः, किन्तु सर्वमपि व्यर्थं जातम् । अतोऽगत्या संस्थया राजकोटनगरस्थिते न्यायालयेऽधिक्षेपः कृतः । एतेन च ठक्कुरस्य कोपाग्निरधिकं प्रज्वलितः । स च मुस्लिमजनानाहूय पर्वतोपरि इंगारशापीरस्थानकेपवरकमेकं निर्मातुं निर्दिष्टवान् । तदर्थं च सामग्रीमपि दत्तवान्, उद्घोषितवांश्च – 'अहं तत्राऽजवधं कारयिष्यामि तस्य च शोणितेन ऋषभदेवस्य प्रतिमामभिषेक्ष्यामि' इति । अनयोद्धोषणया समग्रोऽपि जैनसमाजः प्रक्षुब्धो जातः । तस्य विरोधाय सभाऽऽयोजिताऽपि । किन्तु पूज्यपाद उग्रप्रतिक्रियां निवारितवान् । चातुर्येणैवाऽत्र व्यवहर्तव्यमिति पूज्येन बोधिताः सर्वे । स्थितिर्गम्भीराऽऽसीत् । पूज्यश्च भाईचन्दनामकं श्रावकमाहूय सर्वामपि योजनां ज्ञापितवान् ।
स च पूज्यस्य निर्देशानुसारेण परितो ग्रामेषु गत्वा तत्रत्यान् पशुपालकान् सम्मेलय्याऽवबोधितवान् यद्- 'ठक्कुरोऽयमजानां वधायोद्युक्तो जातोऽस्ति । अतः सर्वैरपि सावधानैर्भवितव्यम् । अन्यथा भवतामाजीविकारूपा एतेऽजा नष्टा भविष्यन्ति' इति । सर्वेऽप्येतदङ्गीकृत्य सङ्कल्पितवन्तः - 'एतादृशं किमपि नैव भविष्यति । वयं च सावधानाः स्थास्यामः' इति । एकदा रात्रौ च ते पशुपालकाः सम्मील्य पर्वतोपरि गताः । तत्र चाऽपवरकनिर्माणार्थं स्थिता सर्वाऽपि इष्टका-सुधाचूर्ण-लौहफलकादिका सामग्री तैः खाते निक्षिप्ता ।
__ अत्र च राजकोटन्यायालये जैनसंस्थाया विजयो जातः । 'जैनानां पवित्रतीर्थस्योपरि धर्मविरुद्धं किमपि कृत्यं नैवाऽऽचरणीय'मित्यादिष्टवान् न्यायालयः । अनेन पराजयेन ठक्कुरस्य गर्वोऽपि गलितः । एतदासीत् पूज्यस्य कार्यकौशलम् ।
चित्रमयो विजयनेमिसूरिः १११ ।
Page #123
--------------------------------------------------------------------------
________________
शासनसम्राट्
शासनसम्राड्-विशेषः
6
An 8 No
e 34
N
17
ની જાત ન
Fee
Page #124
--------------------------------------------------------------------------
________________
शासनसम्राट अल्पीयसैव कालेन पूज्यस्य पुण्यप्रभावः सर्वत्र प्रसृत आसीत् । पूज्यस्य चारित्रतेजोदृढसत्त्व-मतिपाटव-कुशलनेतृत्वादिगुणैः सर्वेऽपि परिचिताः प्रभाविताश्चाऽऽसन् । भारतवर्षस्य जैनसमाजस्य श्रमणसंस्थायाश्च हृदये पूज्यस्याऽनन्यसाधारणं गौरवपूर्णं च स्थानमासीत् । शासनस्य जैनसङ्घस्य च यस्मिन् कस्मिंश्चिदपि प्रश्ने पूज्यस्य मार्गदर्शनमनिवार्यमासीत् ।
अत्रान्तरे वि.सं. १९६४ तमवर्षे 'अखिलभारतीयजैनश्वेताम्बरमूर्तिपूजक-कोन्फरन्स' इत्यस्य षष्ठमधिवेशनं भावनगरे आयोजितमासीत् । श्रेष्ठिवर्यश्री मनसुखभाई-भगुभाईमहोदयस्तस्य प्रमुखत्वेन चित आसीत् । एतस्मिश्चाऽधिवेशने पूज्योऽप्युपस्थितो भवेत् - इति समेषामभिलाष आसीत् । श्रेष्ठिजनानां साग्रहानुरोधेन पूज्यस्तत्र समागतः । तत्र च विविधविषयानधिकृत्य चर्चा प्रवृत्ता । पूज्येन हि प्राचीनतीर्थानां संरक्षणाय संवर्धनाय च सर्वेऽपि जागरिताः ।
तस्मिन् समये तपागच्छे कोऽपि समर्थ आचार्यो नाऽऽसीत् । तदर्थं च श्रीसङ्के विचारोऽपि प्रवर्तते स्म - 'कोऽत्र भारवहने समर्थः ?' इति । पूज्यगम्भीरविजयमहाराज-पूज्यमणिविजयमहाराज-इत्युभयोरपि पूज्ययोश्चित्ते 'नेमविजय एवाऽत्र समर्थ' इति प्रतीतिरासीत् । अधिवेशनावसरे उपस्थितानां सङ्घाग्रणीनां पुरतः प्रस्तावमेनं पूज्यौ पुरस्कृतवन्तौ । सर्वैरपि चैकमत्येन सहर्ष तदङ्गीकृतम् । पदप्रदानाय च तत्रैव विज्ञप्तोऽपि पूज्यगम्भीरविजयमहाराजः । सोऽपि श्रीनेमविजयमहाराजस्य पञ्चप्रस्थानमयश्रीसूरिमन्त्रसमाराधनं कारितवान् ।
भावनगरसत्कजैनसङ्घोऽपि आचार्यपदप्रदानमहोत्सवाय सन्नद्धो जातः । अभूतपूर्वमहपूर्वकं च वि.सं.१९६०तमवर्षस्य ज्येष्ठशुक्लपञ्चमीतिथौ श्रीगम्भीरविजयमहाराजस्तं पूज्यमाचार्यपदेनाऽलङ्कतवान् । तद्दिने च समग्रेऽपि भारते वर्षे विद्यमानेषु संवेगमार्गीयेषु तपागच्छीयसाधुवर्येषु सविधि योगमुद्वाह्याऽऽचार्यपदप्रापकः सर्वप्रथम एवाऽऽचार्यः पूज्यो जातः । समस्ततपागच्छस्य नायकः 'शासनसम्राट्' सोऽभवत् ।
पूज्यस्य पिता तु तदा विद्यमानो नाऽऽसीत्, किन्तु पूज्यस्य कृते तस्य हृदि कियान् सन्तोष आसीत् स हि तस्मिन्नेव वर्षे कार्तिकमासे लिखिते पत्रे प्रकटितो भवति- “यदा भवता साधुत्वमङ्गीकृतं तदा मम मनसि द्वेष उत्पन्न आसीत्, किन्तु भवानद्य पूर्वाचार्यैः सदृशो जातोऽस्ति, अस्माकं कुलस्य गौरवमपि भवता वर्धितम् । भवन्तं प्रति यत्किमपि मयाऽप्रीतिकरमाचरितं स्यात् तन्मे दुष्कृतं मिथ्या भवतु । भवानपि शास्त्रसर्जनं कुर्यादिति मेऽभिलाषोऽस्ति । महोपाध्यायश्रीयशोविजयमहाराजस्य ग्रन्थानां पठनं मयि रोमाञ्चं जनयति । भवताऽपि यत् श्रीहरिभद्रसूरिभगवतोऽष्टकप्रकरणमत्र विवेचितं तेन भवज्ञानसम्पदमनुभूय मम महानानन्दो भवति" इति । पत्रमेतद् वि.सं. १९६४तमवर्षे कार्तिककृष्णद्वितीयातिथौ लिखितमासीत् । तदनन्तरं स दिवं गतवानासीत् ।
चित्रमयो विजयनेमिसूरिः ११३
Page #125
--------------------------------------------------------------------------
________________
जीवदयाज्योतिर्धरः
હૈ સા ક્રમે છે, SARAN
११४/ शासनसम्राड्-विशेषः
Jain Education international
Page #126
--------------------------------------------------------------------------
________________
जीवदयाज्योतिर्धरः आचार्यपदप्राप्त्यनन्तरं प्रथमा चतुर्मासी पूज्येन भावनगर एव यापिता । जीवदया हि पूज्यस्य प्राणभूताऽऽसीत् । कमपि दुःखिनं दृष्ट्वा पूज्यस्य हृदयमनुकम्पया द्रवीभवति स्म । चतुर्मास्यनन्तरं महुवानगरसमीपवर्तिनि नैपग्रामे गतवान् । तत्रत्यो नरोत्तमभाईनामको वैष्णवजनः पूज्योपदेशात् श्राद्धधर्ममङ्गीकृतवानासीत् ।।
___ तत्र च समुद्रोपकण्ठप्रदेशे मत्स्यानां हिंसा विपुलतया जायमानाऽऽसीत् । तज्ज्ञात्वा दृष्ट्वा च पूज्यस्य हृदयं करुणार्द्र जातम् । अतस्तत्प्रदेशे विहां पूज्यो मतिं कृतवान् । तत्र वास्तव्या जना अज्ञानिनः सन्तोऽपि भद्राशया आसन् । दूरादेव साधुपुरुषं कञ्चिदागच्छन्तं दृष्ट्वा - 'देवतुल्यः कश्चित् साधुपुरुषोऽत्राऽऽयाति' इति कृत्वा सर्वेऽपि तदर्शनार्थं मत्स्यजालान् मुक्त्वा सम्मीलिता जाताः । पूज्योऽपि तेषां पुरतः सरलया भाषया जीवदयाया माहात्म्यं लाभं च वर्णितवान् । जीवहिंसायाश्च जायमानान्यनिष्टान्यपि वर्णितानि । सर्वेभ्योऽपि पूज्यस्य वचनानि रुचितानि । तदैव च 'न कदाऽपि धीवरकर्म करिष्यामः' इति प्रतिज्ञातवन्तः सर्वेऽपि । नैतावदेव किन्तु स्वकीयजालानपि सहाऽऽगताय श्रीनरोत्तमहोदयायाऽर्पितवन्तः ।।
___ ततश्च कंठाल-वालाक-ऊंडप्रदेशीयेषु वालर-तल्ली-झांझमेरादिग्रामेषु विहत्य बहुशतसङ्ख्याकान् धीवरान् प्रतिबोध्य जीवहिंसाया विरतान् कृतवान् । नरोत्तममहोदयोऽपि सर्वानपि जालानेकत्र कृत्वा दाठाग्रामस्य चतुष्पथेऽग्निसात् कृतवान् ।
चित्रमयो विजयनेमिसूरिः ११५ .
Page #127
--------------------------------------------------------------------------
________________
सुविहितपरम्पराप्रवर्तकः
शासनसम्राड्-विशेषः
|
Page #128
--------------------------------------------------------------------------
________________
सुविहितपरम्पराप्रवर्तकः जैनशासनस्य नाऽऽसीत् तादृशमेकमपि क्षेत्रं यत्र पूज्यस्य प्रदानं न स्यात् । पूज्यस्य हृदये सङ्घप्रीतिः शासनप्रीतिः सुविहितपरम्पराप्रीतिश्चाऽनन्या आसन् । सुविहितमहापुरुषाचीर्णाः शास्त्रनिर्दिष्टा अनेकाः परम्परा आत्मसाधकानि चाऽनुष्ठानानि यानि कालक्रमेण लुप्तप्रायाणि जातानि, तानि सूरिसम्राडेष पुनर्जीवितानि कृतवान्, सङ्घस्य योगक्षेमार्थं प्रवर्तितवांश्चाऽपि । तत्र हि
१. अञ्जनशलाकाविधानम् (प्राणप्रतिष्ठाविधानम्) - तात्त्विकमेतदनुष्ठानमाबहुवर्षेभ्यः स्थगितमासीत् । बहुवर्षेभ्यः पूर्वं पादलिप्तपुरे एतद् विधानमनुष्ठितमासीत्, किन्तु केनाऽपि कारणेन तदा तत्र मार्याधुपद्रवः सञ्जातः । तेन च भीताः केऽप्यस्य करणे साहसं नाऽवलम्बन्ते स्म । तदनु च वि.सं. १९८२तमवर्षे चाणस्माग्रामे 'विद्यावाडी'मध्ये नवनिर्मिते जिनालये सर्वप्रथमं पूज्य एतदनुष्ठानमनुष्ठितवान् । निर्विघ्नं च तत् सम्पन्नमपि जातम् ।
यदा यदा हि पूज्योऽञ्जनविधानेन प्रतिमासु स्वप्राणान् स्थापयति स्म तदा तदा मूर्तेः पुरस्सरं स्थितं पुरुषप्रमाणं दर्पणं तत्क्षणमेव खण्डशो भवति स्म । पूज्यस्य प्रबलसत्त्वमनेन ज्ञाप्यते ।
२-३. श्रीसिद्धचक्रपूजनं श्रीअर्हन्महापूजनं च - विस्मृतप्रायसञ्जातयोरेतयोः शास्त्रोक्तयोविशिष्टयोश्चाऽनुष्ठानयोः शुद्धविधेः सङ्कलनं प्रवर्तनं च शास्त्राधारेण पूज्येन कृतम् ।
४. योगोद्वहनम् - मुनीनामागमशास्त्राभ्यासाय पदग्रहणाय च योगोद्वहनक्रियाऽनिवार्याऽऽसीत्, किन्तु बहुलतया तदनुष्ठानं लुप्तप्रायं वाऽविधिप्रचुरं वा सञ्जातमासीत् । अतः शास्त्रानाधारीकृत्य पूज्य: पुनस्तत् प्रवर्तितवान् ।
एतादृश्यनेका परम्परा पूज्येन पुनर्जीविता पुनः प्रवर्तिता च । अस्मिश्च युगे पूज्यस्यैतद् बहुमूल्यं प्रदानमस्ति ।
चित्रमयो विजयनेमिसूरिः ११७
Page #129
--------------------------------------------------------------------------
________________
कदम्बगिरितीर्थस्य पुनरुद्धारः - १
११८
शासनसम्राड्-विशेषः
Page #130
--------------------------------------------------------------------------
________________
कदम्बगिरितीर्थस्य पुनरुद्धारः - १ पूज्यपादेन कृतेष्वनेकविधेषु कार्येषु श्रीकदम्बगिरितीर्थस्य जीर्णोद्धारो ह्येकमद्भुतं महत्त्वपूर्ण विशिष्टं च कार्यमासीत् । वि.सं. १९६६ तमवर्षे पूज्यः प्रथममेव तत्र गतवानासीत् । तत्तीर्थस्य दुःस्थितिं दृष्ट्वाऽतीव खिन्नो जातः पूज्यः । सङ्कल्पितवांश्च तदैव यदहमेतत्तीर्थमुद्धरिष्याम्येवेति । नैतत् कार्यं तावत् सरलं सुकरं वाऽऽसीत् किन्तु महापुरुषाणां चेतसि समुद्भूतः सत्सङ्कल्पः सिद्ध्यत्येवेत्यत्र नाऽस्ति संशयः ।
तदा ह्येतत्तीर्थं तत्रत्यानां ठक्कुराणामधीनमासीत् । ते च मृगया-सुरापान-बूतादिव्यसनेषु मग्ना अज्ञानिनो जडाश्चाऽऽसन् । तेषां साहाय्यं विना नैतत् कार्यं कथमपि कर्तुं शक्यमासीत् । अथः पूज्यस्तत्र वासं कृतवान् । नित्यं च तान् सम्मेल्य धर्मकथामाध्यमेन जीवनरीतिं जीवनधर्म चोपदिशति स्म । शनैः शनैश्च तेषां हृदयपरिवर्तनं जातमपि । व्यसनत्यागं चाऽपि सङ्कल्पितवन्तस्ते। तेषामग्रणीः 'आपाभाई'दरबारस्तु पूज्यस्य भक्तो जातः ।
'पूज्यस्याऽनन्य उपकारोऽस्त्यस्मासु, अतस्तादृशं किमपि करणीयं येन किञ्चिदपि ऋणमुक्तिः स्याद्' इति तेषां मतिः सञ्जाता । पूज्याय निवेदितवन्तोऽपि ते । अवसरं प्रतीक्षमाणः पूज्योऽपि- 'पर्वतोपरि स्थिताः केचन भूभागाः श्रीआणंदजीकल्याणजीसंस्थायै योग्येन मूल्येन देयाः' इति प्रेरितवान् । सर्वेऽपि ते सम्मति दर्शितवन्तः किन्तु विक्रयणं निषिद्धवन्तः । वयमेतान् भूभागान् भवते पूज्यायोपायनीकरिष्याम इत्यस्माकं निर्णयोऽभिलाषश्चेत्युक्तवन्तः । परं साधूनां नैतत् कल्पत इति कृत्वा पूज्यस्तं प्रस्तावं निराकृतवान् । तदा – 'जगद्गुरुश्रीहीरविजयसूरिभगवते सम्राडकब्बरेण तीर्थानि प्रदत्तान्येव । अतो भवतां का नामाऽऽपत्तिरेतस्य स्वीकरणे ?' इति प्रतिप्रश्नं ते कृतवन्तः । पूज्य उक्तवान् - भो ! भ्रातरः ! एवं माऽस्तु । नाऽहं हीरविजयसूरिसदृशः । अहं हि तेषां महापुरुषाणां चरणरजस्तुल्य एवेत्यतो मम नैतदनुकरणमुचित'मिति ।
एवं च बहुबोधिताः सन्तस्ते कथितवन्तः - "यद्येवं तर्हि 'पूज्योऽस्मान् व्यसनेभ्यो मोचयित्वा मनुष्यत्वं प्रदत्तवानस्तीत्यस्य स्मृतौ वयमेते भूभागान् दद्यः' इति लेखपत्रे उल्लेखनीय" मिति । सर्वेऽपि च तत्र सम्मता जाताः । एतच्च तीर्थोद्धारस्य प्रथमं चरणमासीत् ।
चित्रमयो विजयनेमिसूरिः
Page #131
--------------------------------------------------------------------------
________________
ॐ कदम्बगिरितीर्थस्य पुनरुद्धारः - २
१२०
નિદાસ ધર્મદાસની પેઢી
शासनसम्राड् विशेष:
3
h
Page #132
--------------------------------------------------------------------------
________________
कदम्बगिरितीर्थस्य पुनरुद्धारः - २ विंशतिर्वर्षाणि व्यतीतानि । चितेषु भूभागेषु किमपि कार्यं न जातम् । अतः प्रथम तावदेको जिनालयो ग्राम एव निर्मातव्य इति निर्णीतवान् पूज्यपादः । .
पर्वतस्य तलहट्टिकायां स्थित ग्रामं 'बोदानानेस' नामाऽऽसीत् । तत्रस्थस्तीताकोलीनामको ग्रामीणः स्वप्नमेकं दृष्ट्वान् – 'अनावृता काचिद् भूमिरस्ति । ततश्च जैनानां तीर्थङ्करस्य मूर्तिः प्रकटिताऽस्ति । तत्समीपे च दीपः प्रज्वलति' इति । प्रातरुत्थाय स दृष्टवान् यत् तस्य गृहस्य समीपवर्तिन्यामेव भूमौ कुङ्कमस्यैकं वर्तुलं घृतस्य चिह्नानि चाऽपि सन्ति । पूज्यपादस्तामेव भूमि योग्यमूल्येन भूस्वामिनः सकाशात् क्राययित्वा जिनालयस्य निर्माणं प्रारम्भितवान् ।
एकदा, वि.सं. १९८९तमवर्षस्य पोषकृष्णनवमीदिने प्राय एकादशवादनसमये पूज्यः स्वासनादुत्थाय प्रघणमागतवान् । एकत्र च वासक्षेपं कृत्वा श्राद्धमेकमुक्तवान् - 'कामदार ! संस्थायाः स्थानमत्रैव करणीयम्' इति । तत्क्षणमेव तत्र 'श्रीजिनदासधर्मदास-संस्था' स्थापिता जाता ।
नवनिर्मिते जिनालये प्रतिष्ठार्थं श्रीनमिनाथभगवतः प्रतिमा राजनगरादानीताऽऽसीत् । किन्तु कारणवशात् तत्र श्रीमहावीरस्वामिनः प्रतिमायाः प्रतिष्ठा निर्णीता । अतः श्रीनमिनाथस्य प्रतिमाया गर्भगृहादुत्थापनार्थं सर्वेऽपि गताः । किन्तु भूरिपरिश्रमानन्तरमपि प्रतिमा स्वस्थानात् तुषमात्रमपि न चलिता । अन्ततः पूज्यपाद आगतः । पूज्यस्तत्र प्रतिमायाः पुरतः श्रीफलमेकं ढौकयितुं निर्दिष्टवान् । पश्चात् प्रार्थनं कृतवान् – 'भगवन् ! आगम्यताम् । भगवन् ! अनुजानातु प्रसीदतु च । अत्र कदम्बगिरितीर्थ एव जिनालयं निर्माप्य मूलनायकत्वेन भवन्तं प्रतिष्ठापयिष्यामः' इति । तत्क्षणमेव च भगवतो मूर्तिर्द्वयोर्जनयोरेव हस्तेष्वागता ।
वि.सं. १९८९तमवर्षे फाल्गुनशुक्लतृतीयातिथौ श्रीमहावीरस्वामिबिम्बस्य प्राणप्रतिष्ठा सञ्जाता । अस्मिश्च प्रतिष्ठामहोत्सवे पञ्चविंशतिसहस्रं जनाः सम्मीलिता बभूवुः । प्रतिष्ठायाः पूर्वरात्रे प्रचण्डो वातोपद्रवः सञ्जातः । पटमण्डपानि विच्छिन्नानि जातानि । बहवो जना रोगातङ्किता जाताः । पूज्येन पृष्टः श्रीउदयसूरिमहाराज उक्तवान् यत् 'प्रातः पञ्चवादनसमयेऽपरोऽप्येतादृशो योगोऽस्ति' इति । अतो जनाः सज्जा जागरूकाश्च कारिताः । पूज्यस्याऽऽदेशानुसारं श्रीउदयसूरिमहाराजः श्रीनन्दनसूरिमहाराजश्चाऽऽरात्रि जिनालय उपविश्य विशिष्टं मन्त्रजापं कृतवन्तौ । एतेन, प्रातर्वातोपद्रवस्तु यद्यपि सञ्जात एव किन्तु कामपि हानिमकृत्वैव शान्तो जातः । प्रतिष्ठामहोत्सवोऽपि सानन्दं सम्पन्नो जातः । एतस्मिश्चाऽवसरे पर्वतोपरि स्थिते भूभागेऽपि निर्माणकार्यमारब्धम् ।
चित्रमयो विजयनेमिसूरिः | १२१
Page #133
--------------------------------------------------------------------------
________________
o
कदम्बगिरितीर्थस्य पुनरुद्धारः - ३
शासनसम्राड्-विशेषः
dain Education International
Page #134
--------------------------------------------------------------------------
________________
कदम्बगिरितीर्थस्य पुरनरुद्धारः - ३ वि.सं. १९९४तमवर्षे पर्वतोपरि 'श्रीऋषभविहारप्रासादः' निर्मितो जातः । अपरश्च 'श्रीगिरनारावतारप्रासादो'ऽपि सज्ज एवाऽऽसीत् । तत्र च प्रतिष्ठामहो निर्णीतः । 'पूज्यः शासनसम्राडञ्जनविधानं करिष्यती'ति कृत्वा ग्रामान्तरेभ्योऽपि श्रावकाः प्रतिमाः प्रेषितवन्तः । संहत्य पञ्चशतं प्रतिमाः सम्मीलिता जाताः ।।
उत्सवः प्रारब्धः । एकस्मिन् दिने सर्वे यदाऽनुष्ठाननिरता आसन् तदा पूज्यो दृष्टवान् यद् गिरनारावतारप्रासादाद् धूम उद्गच्छति - इति । श्रीनन्दनसूरिमहाराजं नीत्वा पूज्यस्तत्र गतवान् । केनाऽपि कारणेन तत्राऽग्निः प्रज्वलित आसीत् । किमपि निर्णीय पूज्यः प्रत्यागतवान् । ठलियाग्रामवास्तव्यान् श्रीहठीचंदमहोदयादिश्रावकानादिश्य शतं श्रीफलान्यानायितवान् । श्रीनन्दनसूरिमहाराजस्य च तत्र करणीयं विधिमवबोध्य विधिकारकेण सह प्रेषितवान् ।
विधिकारकेणाऽन्यैश्चोत्तरसाधकैः पूज्यनन्दनसूरिमहाराजस्तत्र प्राप्तवान् । त्वरितं च शतं श्रीफलानि समानीतानि । पूज्यस्य निर्देशानुसारं श्रीनन्दनसूरिमहाराजः कञ्चिद् विधिं कृतवान् । पश्चाच्चोत्तरसाधकैभरा ह्येकैकं कृत्वा श्रीफलान्याकाशे ऊर्ध्वमुत्क्षेपितानि । तदा च ये तत्रोपस्थिता आसन् तेऽद्य कथयन्ति यद् - नवनवतिः श्रीफलानि तु गगन एव कुत्रचित् तिरोहितानि जातानि । उत्क्षिप्तानि तानि श्रीफलानि भूमौ पुनर्नाऽऽगतानि । केवलं शततमश्रीफलस्याऽर्ध एव भागोऽध आगत आसीत्, इति । एतदनुष्ठाननान्तरमग्निरदृश्यतां गतः ।
एवं गीतार्थमहापुरुषाणां रहस्यमय्याः परम्पराया वाहकः पूज्य आसीदिति प्रसङ्ग एष प्रकटयति ।
तदा हि कदम्बगिरितीर्थस्य पुनरुद्धारकार्यमपि सम्पन्नं जातम् ।
चित्रमयो विजयनेमिसूरिः १२३ ।
Page #135
--------------------------------------------------------------------------
________________
मरुधरप्रदेशे मेवाडप्रदेशे च मूर्तिमण्डनम्
शासनसम्राड्-विशेषः
Page #136
--------------------------------------------------------------------------
________________
मरुधरप्रदेशे मेवाडप्रदेशे च मूर्तिमण्डनम् __ तदात्वे हि मरुधरप्रदेशे मेवाडप्रदेशे च तेरापंथसम्प्रदायीयानां प्रभावो वृद्धि गत आसीत् । एकदा मेवाडप्रदेशस्य गढबोलग्रामे कश्चित् तेरापंथसम्प्रदायीयः साधुरागतः । स च जिनालयस्य मण्डप एव वासं कल्पितवान् । तत्र च सम्मीलितान् जनानुपदिष्टवान् – 'यथा पाषाणमयी गौर्न दुग्धं ददाति, न च शस्त्रादिप्रहारेण तच्छरीरात् शोणितमपि निःसरति, तथैवेषा तीर्थङ्करमूर्तिरप्यस्ति । यदि मद्वचनमविश्वास्यं प्रतिभायात् तर्हि कीलकप्रहारं कृत्वा स्वयमेवाऽनुभवन्तु नाम' इति । मुग्धा जनास्तर्कजाले निबद्धा जाताः । तेऽप्येकैकशः कृत्वा द्विपञ्चाशतः कीलकान् प्रतिमायामाहतवन्तः । ये हि मूर्तिपूजकाः श्रद्धावन्तश्च जना आसन् ते व्यथिता जाताः । किन्त्वल्पसङ्ख्याका अल्पबलाश्च ते किमपि प्रतिकर्तुं न समर्था आसन् । अन्ततः सर्वेऽपि ते अहम्मदावादनगरे पूज्यस्य सकाशमागतवन्तः । सर्वमितिवृत्तं ते पूज्याय श्रावितवन्तः । पूज्योऽपि तानाश्वस्य केशवलालाभिधं चतुरं वाक्कीलमुपायं सन्दर्घ्य तैः सह प्रेषितवान् । सोऽपि चाऽऽङ्ग्लाधिकारिसदृशं वेषं धृत्वाऽश्वारोही च भूत्वा तत्र गतवान् । तत्रत्या जनाश्च तमाङ्लाधिकारिणं मत्वा भीताः सन्त इतस्ततो विकीर्णा जाताः । सोऽपि जनान् भीषयित्वा कथमपि जिनालयस्य कुञ्चिकां प्राप्तवान् । उदयपुरं च गत्वा राज्ञः श्रीफतेसिंहस्य न्यायालयेऽधिक्षेप कृतवान् । न्यायालयोऽपि समादिष्टवान् - 'केनाऽपि तेरापंथसम्प्रदायीयेन साधुनाऽतः परं जिनालये न प्रवेष्टव्यम् । यो नामाऽऽदेशमेनमुल्लङ्घयिष्यति स च दण्डपात्रं भविष्यति' इति ।
प्रसङ्गेनाऽनेन सर्वेऽपि पूज्यस्य भक्ता जाताः । गढबोलग्राममागन्तुं विज्ञप्तोऽपि पूज्यस्तैः । अवसरं लब्ध्वा पूज्योऽपि तत्प्रदेशे गतवान् । विषमा तत्रत्या स्थितिरासीत् । मूर्तिविरोधिनां तेरापंथीयानां तत्र प्रभावः प्रवृद्ध आसीत् । ते च जनान् प्रतिमाविमुखान् कृतवन्त आसन् । पूज्यस्तत्र ग्रामानुग्रामं विहृत्य प्रवचनमाध्यमेन मूर्ति मूर्तिपूजां च पुरस्कृत्य तल्लाभं शास्त्रसम्मति च सतर्कं जनानां बोधितवान् । एतेन च सत्यं ज्ञात्वा सर्वे मूर्तिपूजामार्गे स्थिरा जाताः । आश्चर्य नाम, ये हि कुतूहलमात्रेणैव तेरापंथीयाः प्रवचने आगच्छन्त आसन् तेऽपि शनैः शनैर्मूर्तिसमर्थका मूर्तिपूजकाश्च जाताः । एवं चोपदेशद्वारा पूज्योऽनेकान् तेरापंथीयान् मूर्तिपूजकान् कृतवान् । समग्रेऽपि मरुधरप्रदेशे मेवाडप्रदेशे च परिवर्तनं सञ्जातम् । साधूनां विहारादि सुलभं जातम् ।
चित्रमयो विजयनेमिसूरिः १२५
Page #137
--------------------------------------------------------------------------
________________
Cy
कापरडातीर्थस्य पुनरुद्धारः
"
१२६शासनसम्राड्-विशेषः
Jain Educatich International
Page #138
--------------------------------------------------------------------------
________________
कापरडातीर्थस्य पुनरुद्धारः क्रमशो विहरन् पूज्यः कापरडातीर्थं प्राप्तवान् । किन्त्वनेकशतवर्षप्राचीनस्य तीर्थस्याऽस्याऽवदशां दृष्ट्वा खिन्नो जातः । तत्रैव तत्समुद्धारार्थं सङ्कल्पितवान् पूज्यः । परं न तत्कार्यं वचनोच्चारणमिव सरलमासीत् । तत्र हि जाटजातीयानां जनानां प्रभुत्वमासीत् । खरतरगच्छीयश्राद्धैः स्वाधिष्ठायकत्वेन स्थापितायाश्चामुण्डादेव्या भैरवदेवस्य च मूर्तेः पुरतस्ते जनाः सुरां ढोकयन्ति स्म । बलिरूपेण च छागवधमपि कुर्वन्त आसन् । एतादृश्यां स्थितौ जीर्णोद्धारस्य कार्यं हि सिंहमुखाद् भक्ष्यमोचनमिव सुदुष्करमासीत् ।।
पूज्यः प्रथमं तावद् यात्रिकभवनस्य व्यवस्था स्वायत्तां कारितवान् । नियतरूपेण च पूजादिविधानमपि प्रवर्तितवान् । पश्चाच्च जिनालयस्य जीर्णोद्धारकार्यस्याऽऽरम्भमपि कारितवान्। सत्वरमेव च तत्कार्यमपि सम्पन्नं जातम् । पूज्यस्य प्रभावादद्यपर्यन्तं तु कोऽपि विघ्नो नैवाऽऽयातः ।
अथ नवनिर्मिते जिनालये जिनबिम्बप्रतिष्ठाया द्वादशदिवसीयो महो निर्णीतो जातः । चामुण्डादेव्या मूर्तेः स्थानान्तरं तु कृतमेवाऽऽसीत् किन्तु भैरवदेवस्य मूर्तिस्त्विदानीमपि तत्रैवाऽऽसीत्। तस्याः स्थानान्तरं विपज्जनकमासीत् । अत्र महोत्सवमध्य एवैको जनस्तत्राऽऽगतवान् । स्वपुत्रस्य च क्षौरकर्माऽपि स तत्र कारितवान् । एतद् दृष्ट्वा पूज्यो व्यचारयत् - 'एतादृशि पवित्रे विधौ प्रवर्तमानेऽपि यद्येवं निर्बन्धा एवैते प्रवर्तन्ते, विधि च दूषयन्ति तर्हि प्रतिष्ठानन्तरं किं नैव करिष्यन्त्येते? अतः किमपि करणीयमेवाऽत्र !' इति ।
अत्र च महोत्सवनिमित्तमेकत्रभूतं जनसमूहं जैनानां च वर्धमानमाधिपत्यं निरीक्ष्य जाटजातीयाः क्रुद्धा आसन् । तेषां कोपो भस्मावृताग्निवदन्तःप्रज्वलन्नासीत्, किन्त्वारक्षकाणां सुरक्षाकारणात् ते किमपि कर्तुं न प्रभवन्त आसन् । अत्रान्तरे च पूज्यउदयसूरिमहाराजः स्वयमेव साहसमवलम्ब्य भैरवदेवस्य मूर्ति तत उत्पाट्याऽन्यत्र स्थापितवान् । अनेन हि जाटजनानां कोप उद्दीप्तो जातः । मरिष्यामो वा मारयिष्यामो वेति तेषां मतिर्जाता ।
___एतादृशि संशयिते वातावरणेऽपि प्रतिष्ठाकार्यं तु सानन्दमेव सम्पन्नं जातम् । द्वारोद्घाटनविधिरवशिष्ट आसीत् । प्रतिष्ठां समाप्य जनाः स्वस्वग्राम प्रति गन्तुमारब्धवन्तः । अवसरमेनं लब्ध्वा जाटजातीया विप्लवं कर्तुमुधुक्ता जाताः । मारणान्तिकोऽयमुपसर्ग आसीत् । किन्तु पूज्योऽन्ये च साधवः, केऽपि विचलिता न जाताः । पूज्यस्य सङ्कल्प आसीद् यत् प्राणान् पणीकृत्याऽपि तीर्थमिदं रक्षणीयमेवेति । अथ च शस्त्रसज्जा जाटजातीया आगताः । कोट्टद्वारं तु पिहितमासीदतस्ते तं भतुमपि प्रायतन्त । केचन तु दुर्गोपरि रज्ज्वादिसहायेनाऽऽरोढुमपि प्रयत्नान् कृतवन्तः । पन्नालालाभिधः श्राद्धो, यः सततं पूज्यस्य निकट एव स्थितः स सशस्त्रं दुर्गोपरि समारूढवान् । स्थितिस्त्वत्यन्तं विकटाऽऽसीत् । कदा किं भविष्यतीति तु निश्चितं नाऽऽसीत् । किन्तु पन्नालाल श्राद्धेन हि पूर्वमेव दूरदर्शितामुपयुज्य जोधपुरराज्यात् साहाय्यं याचितमेवाऽऽसीत्, अतो जाटजना यावदाक्रमणं कुर्युस्तावदेवाऽऽरक्षकदलं समागतम् । गुलिकास्त्रप्रयोगाः प्रारब्धाः । अनयाऽतकितया स्थित्या भीता जाटजना इतस्ततो धावितुं प्रवृत्ताः । सर्वत्र च शान्तिः प्रसृता । द्वितीयदिने द्वारोद्धाटनकार्यमपि सम्पन्न जातम् । एवं च जीर्णोद्धारस्य पूज्यस्य सङ्कल्पः पूर्णो जातः ।
चित्रमयो विजयनेमिसूरिः १२७
Page #139
--------------------------------------------------------------------------
________________
शत्रुञ्जयतीर्थे 'मुण्डका 'करोऽसहकारश्च
σ
१२८ । शासनसम्राड्-1 - विशेष:
C
Page #140
--------------------------------------------------------------------------
________________
शत्रुञ्जयतीर्थे 'मुण्डका 'करोऽसहकारश्च
पूर्वं हि पादलिप्तपुरे यात्रार्थमागतेभ्यो यात्रिकेभ्यो 'मुण्डका' ख्यः करो गृह्यमाण आसीत्। वि.सं. १९८२तमवर्षे करसम्बन्धी प्रश्नो विकटः सञ्जातः । आङ्ग्लसर्वकारेण तत्करग्रहणार्थं ठक्कुर श्रीमानसिंहस्य स्वसम्मतिः प्रदत्ताऽऽसीदतो भारतवर्षस्य सर्वेऽपि जैनसङ्घा विरोधं प्रकटितवन्तः । श्रेष्ठिआणंदजीकल्याणजी - संस्थाऽपि पूज्यस्य मार्गदर्शनमनुसृत्य प्रवृत्तिमारब्धवती । आवेदनपत्राणां प्रेषणमपि सर्वतः प्रारब्धम् ।
पूज्यस्य सान्निध्ये एका विशाला सभाऽप्यायोजिता - 'यावन्नैषाऽन्यायपूर्णा कुरीति: स्थगिता स्याद् न तावत् केनाऽपि शत्रुञ्जयतीर्थस्य यात्रा करणीया' - इति सर्वैरपि तत्रैकमत्येन निर्णय उद्घोषितः । निर्णयस्यैतस्य प्रवर्तनं ई. १९२६ तमवर्षस्य १ एप्रिलदिवसाज्जातम् । प्रत्येकं च जैनैरेष निर्णयो दृढं पालितः । सर्वत्र यात्रानिषेध उद्घोषितो जातः । ३१मार्चदिने तु पादलिप्तपुरं निर्जनमिव समभूत् । साधु-साध्वीमहाराजा अपि ततोऽन्यत्र विहृतवन्तः । 'नास्ति वंशः कुतो वंशीवादन' मिति न्यायाद् यात्रिकाणामभावे कस्य पुरतः करो ग्रहीतव्यः ? इति स्थितिः समुद्भूता ।
परिणामतः सर्वकारीयाधिकारिणा यात्रिकाणां गणनार्थं प्रदत्ता सम्मतिः, तदर्थं च ठक्कुरेण कल्पिता व्यवस्था, नियुक्ता अधिकारिणः, घटिता नियमाः - इत्यादिकं सर्वमपि निरर्थकं जातम् । करग्रहणार्थमुपविष्टा अधिकारिणोऽपि यात्रिकाणामभावे निर्विण्णा जाता: । पशुपक्षिणामपि गमनागमनं स्थगितं जातं यत्र तत्र यात्रिकाणां तु का कथा ?
वर्षद्वयपर्यन्तं पूज्यस्याऽऽदेशेन मार्गदर्शनेन च समग्रोऽपि भारतीयजैनसङ्घ एतदसहकारान्दोलनं प्रावर्तयत् । पश्चादाङ्ग्लसर्वकारस्य माध्यस्थ्येन सङ्घस्य ठक्कुरस्य च मध्ये समाधानं जातम् । करग्रहणस्य निषेध उद्घोषितः । तत्पश्चादेव यात्रायाः पुनः प्रारम्भो जातः । एतादृशमासीत् पूज्यस्याऽऽधिपत्यम् ।
चित्रमयो विजयनेमिसरि:
|
१२०
Page #141
--------------------------------------------------------------------------
________________
o
" ऐतिहासिकं मुनिसम्मेलनम्
m
शासनसम्राड्-विशेषः
Page #142
--------------------------------------------------------------------------
________________
ऐतिहासिकं मुनिसम्मेलनम् कतिपय विषयानधिकृत्य समग्रोऽपि जैनसको विवादग्रस्त आसीत् । केषाञ्चिद् जनानां मताग्रहकारणाद् वातावरणं विक्षुब्धमासीत् । मुम्बईनगरस्य विकृतं वातावरणं श्रीमोतीचंदगिरधरलाल-कापडियामहोदयः पूज्याय सखेदं पत्रेण निवेदितवान् । सर्वेऽपि सङ्घाग्रणीजनाः शासनमान्यपुरुषाश्च कथमपि समाधानं स्यादित्यभिलषमाणा आसन् । तस्य चैक एवोपाय आसीद्-मुनिसम्मेलनमिति। समेषामपि दृष्टिः पूज्योपरि स्थिताऽऽसीत् । पूज्यश्च शासने सर्वोच्चस्थाने विराजमान आसीत् सर्वमान्यश्चाऽप्यासीत् । 'यदि पूज्योऽत्र नेतृत्वं स्वीकुर्यात् तर्हि साफल्यं लभ्येत' इति सर्वेषां मतिरासीत् । एतदर्थं च पुराऽपि श्रीवल्लभसूरिमहाराजादयः पूज्याय विज्ञप्तवन्त आसन् । इदानीमपि राजनगरस्य नगर श्रेष्ठिश्रीकस्तूरभाई मणिभाईश्रीकस्तूरभाईलालभाई-श्रीप्रतापसिंहमोहोलाल-इत्यादयः सर्वेऽप्युपपूज्यं समागत्य सम्मेलनार्थं विचारविनिमयमारब्धवन्तः । परिणामतः सम्मेलनं राजनगरे एव कर्तव्यमिति निर्णयो जातः । तच्च वि.सं. १९९०तमवर्षमासीत् ।
एवं च पूज्यनिर्दिष्टे फाल्गुनशुक्लतृतीयादिने शुभमुहूर्ते च सहस्राधिकसाधुसाध्वीनां सहस्रशश्च श्रावकश्राविकाणां समुपस्थितौ पूज्यशासनसम्राजः सान्निध्ये ऐतिहासिकस्य मुनिसम्मेलनस्य प्रारम्भो जातः । तच्च चतुस्त्रिंशद्दिनानि यावत् प्रवृत्तम् ।
दीर्घदृष्ट्या कृतेन विचारविनिमयेनैकादशविषयानधिकृत्य पट्टकरूपेण प्रस्तावः पारितो जातः । तत्र च पूज्येन सहितैः श्रीआनन्दसागरसूरिमहाराजादिभिर्नवभिर्वृद्धमहापुरुषैः स्वहस्ताक्षरा अपि कृताः । साफल्येन तत् सम्मेलनं परिपूर्णं जातम् ।
चैत्रकृष्णैकादशीदिने च नगरश्रेष्ठिना समग्रस्याऽपि सम्मेलनस्य विस्तृतो वृत्तान्तः सनिर्णयः सभासमक्षं निवेदितः । सर्वैरपि चैतत् साफल्यं सोल्लासं वर्धापितम् ।
चित्रमयो विजयनेमिसूरिः
TO
Page #143
--------------------------------------------------------------------------
________________
अद्वितीयो यात्रासङ्घः
१३२ शासनसम्राड्-विशेषः
ZE
Page #144
--------------------------------------------------------------------------
________________
अद्वितीयो यात्रासङ्घः
वि.सं. १९९० तमवर्षस्य चतुर्मासीं पूज्यो जावालनगरे यापितवान् । तदनन्तरं च राजनगरात् श्रेष्ठिश्रीमाणेकलाल - मनसुखलालमहोदयस्तत्राऽऽगतः । अहम्मदाबादनगरात् शत्रुञ्जयतीर्थस्य गिरनारतीर्थस्य च पदयात्रासङ्घ पूज्यस्य निश्रायामायोजयितुं तस्याऽभिलाष आसीत् । पूज्यस्तस्य विज्ञप्ति स्वीकृत्य राजनगरं समाजगाम ।
पदयात्रासङ्घोऽयं 'श्रीमाकुभाई श्रेष्ठिनः सङ्घः' इतिरूपेणेतिहासे चिरञ्जीवी जातः । सङ्घप्रयाणावसरे च शोभायात्रायां भावनगरराज्यस्य मन्त्री श्रीप्रभाशङ्करपट्टणीमहोदयोऽप्युपस्थित आसीत् । अन्येऽपि च राज्याधिकारिण उपस्थिता आसन् । सङ्घयात्राया दर्शनार्थमुपस्थितो जनसम्मर्दस्तु समुच्छलत्कल्लोलः समुद्र इव प्रतिभाति स्म ।
अस्मिंश्च यात्रासङ्घे श्रीसागरानन्दसूरिमहाराज - श्रीविजयमोहनसूरिमहाराज-श्रीविजयमेघसूरिमहाराजादयः पञ्चसप्तत्यधिकद्विशताधिकाः साधवश्चतुःशताधिकाश्च साध्व्यस्त्रयोदशसहस्रं च यात्रिका आसन् । पञ्चाशदधिकाष्टशतेन शकटैः सह वाहनानां सङ्ख्या प्रायस्त्रयोदशशतमिताऽऽसीत् । अपरे च रजतमयो महेन्द्रध्वजः, रजतमयोऽपि सुवर्णरसितो रथः, रजतमयो मेरुपर्वत:, रजतमयं जिनमन्दिरं, रजतमयपीठाभ्यां च शोभितौ भावनगर - ध्रांगध्राराज्यद्वयसत्कौ द्वौ गजराजौ आसन् ।
विभिन्नेषु राज्येषु राजभिष्ठकुरैश्च भव्यं स्वागतं क्रियमाणमासीत् । सङ्घस्य दर्शनार्थं हि ग्रामान्तरेभ्यो विपुलप्रमाणा जना आगच्छन्त आसन् । पूज्यस्य पुण्यप्रभावेण सुदुष्करमप्येतत् कार्यं निर्विघ्नं सम्पन्नं जातम् ।
चित्रमयो विजयनेमिसूरि : १३३
Page #145
--------------------------------------------------------------------------
________________
आदर्शोऽनुशासकः
१३४ शासनसम्राड्-विशेषः
ain Education International
Page #146
--------------------------------------------------------------------------
________________
आदर्शो ऽनुशासकः
पूज्यस्याऽनुशासनपद्धतिरद्वितीयाऽऽसीत् । स्वशिष्याणां योगक्षेमार्थं सर्वप्रकारेण स प्रयतते स्म । उपाश्रयस्य मध्यभाग एव पूज्यः सदोपविशति स्म येन परित उपविष्टानां शिष्याणामध्ययनाध्यापनक्रियादिष्ववधानं स्यात् ।
शिष्याणामध्ययनविषये पूज्योऽत्यन्तं जागरूकतया वर्तते स्म । पूज्यः स्वयमपि तान् पाठयति स्म, पण्डिताश्चाऽपि केचन पूज्येन सहैव वसन्तः पाठयन्ति स्म । विहरणं वा स्यात् स्थैर्यं वाऽध्ययनाध्यापनकार्यं त्वविरतं प्रवर्तते स्मैव । विहारकाले तु ग्रामान्तरं प्राप्य कुत्रचिद् वृक्षस्य छायायामुपविश्य पूज्यः शिष्यान् पाठयति स्म । तदा च कस्यचित् पुरातनकालीनस्य गुरुकुलस्याऽऽश्रमस्य वा स्मरणं भवति स्म । तादृशं दृश्यं पश्यन्तो जनाः स्वयं धन्यत्वमनुभवन्ति स्म । अध्यापनकाले तु पूज्यस्तथैकाग्रो भवति स्म यद् यः कोऽपि श्रावको वा सङ्घो वाऽप्यागच्छेत् तथाऽपि न तत्र दृष्टिमपि दद्यात् । सर्वेऽपि चाऽऽगन्तुकाः पाठं यावच्छान्तमुपविश्य पूज्यस्य कठोरशिक्षणपद्धतिमास्वादयन्ति स्म ।
न केवलं ज्ञानार्जनेऽपि तु चारित्रस्य परिशुद्धपालनेऽपि पूज्यस्याऽऽग्रह आसीत् । कमपि प्रमादग्रस्तं दृष्ट्वा पूज्योऽनुक्षणमेव तमनुशास्ति स्म - 'भोः ! सम्यक् श्रमं कुरुध्वम् । यदि चारित्रपालने पठने च श्रमं नैव करिष्यथ तर्हि श्राद्धेभ्यो गृहीताया भिक्षाया अजीर्णं भविष्यति । तदृणप्रत्यर्पणाय च भवान्तरे कष्टकरं पशुजन्म प्राप्स्यथ, अतः सम्यक् पठत सावधानं च पठत' इति ।
एतादृशस्याऽनुशासनस्य फलरूपेण जैनसङ्खेन चारित्रसम्पन्ना ज्ञानविभूषिता अष्टावाचार्या अन्ये चाऽनेके ज्ञानिनस्तपस्विनः साधवः प्राप्ताः ।
चित्रमयो विजयनेमिसूरि : १३५
Page #147
--------------------------------------------------------------------------
________________
CO
जङ्गमयुगप्रधानः
शासनसम्राड्-विशेषः
an education International
Page #148
--------------------------------------------------------------------------
________________
जङ्गमयुगप्रधानः
(१) फलोधिवास्तव्यः सुश्राद्धः श्रीसम्पतलालकोचर: प्रतिवर्षमिव तस्मिन् वर्षेऽपि पेथापुरनगरं गतवानासीत् । तत्र चाऽऽचार्य श्रीबुद्धिसागरसूरिवरो विराजमान आसीत् । अवसरं प्राप्य स श्राद्धो गुरुवरं पृष्टवान् - 'भगवन् ! कोऽस्मिन् युगे युगप्रधान : ?' इति । तदा- 'किं भवान् वचनरूपं प्रत्युत्तरमपेक्षत उताऽनुभवरूपम् ?' इति गुरुः पृष्टवान् । अनुभवनमेव श्रेयस्करमिति विचार्य स तदर्थं पूज्याय निवेदितवान् । गुरुवरोंऽपि तस्य सविधितपः किञ्चिद् निर्दिष्टवान् । उपवासत्रयं तस्य करणीयमासीत् । दीपावलिपर्वणस्तानि पावनानि दिनान्यासन् । श्राद्धोऽपि स श्रद्धया निष्ठया च तपोजपाद्याराधनायां प्रवृत्तोऽभूत् । त्रीणि दिनानि व्यतीतानि । नूतनवर्षस्य मङ्गलमयः प्रभातकाल आसीत् । सोऽपि ध्यानस्थः सन् जापलीन आसीत् तदा सहसैव सोऽपवरकः प्रकाशितोऽभूत् । तेजस्विनं कञ्चित् साधुपुरुषं स दृष्टवान् । श्रद्धया च स तं नमस्कृतवान् । सर्वं च तिरोहितं जातम् । स साधुपुरुष आसीत् शासनसम्राट् श्रीविजयनेमिसूरिमहाराजः ।
प्रातश्च सर्वं कार्यं समाप्य स गुरुभगवतः समक्षमुपस्थितोऽभूत् । गुरुभगवता च पृष्टः स स्वानुभवं वर्णितवान् । तदा पूज्याचार्यवर्य उक्तवान् - 'मतभेदा यद्यप्यस्माकं मध्ये विद्यन्त एव किन्तु भवान् यं दृष्टवानस्ति स एवाऽस्य युगस्य श्रेष्ठो महापुरुषोऽस्ति । नाऽस्त्यत्र शङ्कालेशोऽपि' इति । घटनैषा वि.सं. १९८१ तमवर्षे घटिता ।
(२) पूज्यस्तदा बोटादनगरे स्थित आसीत् । महम्मदछेलाभिधः कश्चिदैन्द्रजालिकः पूज्यस्य समक्षमागतवान् । 'एष च साधुजनान् स्वकीयया विद्यया यदा कदाचित् पीडयत्यपि ' इति पूज्येन श्रुतमासीत् । अतः पूज्यस्तमुक्तवान् 'छेल ! अतः परं साधुजनान् मा पीडयतु' इति । पश्चात् तमेकस्मिन्नपवरके नीतवान् सहैकः श्रावकोऽप्यासीत् । तं निर्दिश्य त्रीणि काष्ठपीठानि पूज्येनोपर्युपरि स्थापितानि । पश्चात् पूज्यः स्वयमुपर्युपविष्टवान् । छेलं प्रत्युवाच'एतेभ्यः काष्ठपीठेभ्य उपरितनं निष्कासयतु' इति । छेलस्तथा कृतवान् । कृत्वा च पूज्योपरि दृष्टिं कृतवान् । पूज्यस्तु तत्राऽऽकाश एव निराधार उपविष्ट आसीत् । तद् दृष्ट्वा स दिङ्मूढ इव जातः । एतत्तु तदर्थं कल्पनातीतमासीत् । स हि तत्र प्रतिज्ञातवान् यद् 'न कदाऽपि साधुजनमहं पीडयिष्यामि' इति । एतद् यदा घटितं तदा वि.सं. १९६६तमवर्षं प्रवर्तमानमासीत् ।
चित्रमयो विजयनेमिसूरिः १३७
Page #149
--------------------------------------------------------------------------
________________
अनेकतीर्थोद्धारकः
शासनसम्राड्-विशेषः
Page #150
--------------------------------------------------------------------------
________________
अनेकतीर्थोद्धारकः (१) वलभीपुरम् - 'श्रीदेवर्धिगणिक्षमाश्रमणमहाराजस्य सान्निध्ये नगरेऽस्मिन्नाचार्याणां पञ्चशती
मीलिताऽऽसीत् । तदा च लुप्तं जायमाना आगमा अत्र तालपत्रेषु लिपीकृता आसन्-' इत्येतस्येतिहासस्य स्मृतिश्चिरन्तनी यथा स्यात् तथा किञ्चित् स्मारकमत्र करणीयमिति श्रीवृद्धिचन्द्रमहाराजस्याऽभिलाष आसीत् । स्वगुरुभगवतस्तादृशमभिलाषं परिपूर्णं कर्तुं पूज्यस्य सङ्कल्प आसीत् । वलभीपुरस्य ठक्कुरो यदेतज्ज्ञातवान् तदा तदर्थं भूमिं दातुं स्वकीयामिच्छां प्रकटितवान् । किन्तु पूज्यो निःशुल्कं भूमिग्रहणं निषिद्धवान् । क्रीत्वैव भूमिः सम्पादिता । तत्र च श्रीजिनदास-धर्मदाससंस्थामाध्यमेन त्रिभूमिको जिनप्रासादो निर्मितो जातः । तत्रैव च भूमिगृहे पञ्चशताचार्याणां सम्मेलनस्य भव्यं तद् दृश्यं पाषाणे
उत्कीर्य स्थापितमस्ति । (२) वामजतीर्थम् - बहुवर्षेभ्यः पूर्वं ततो ग्रामात् श्रीआदीश्वरभगवतः प्रतिमा भूमेः
प्रकटिताऽऽसीत् । ग्रामे यद्यपि जैनानां गृहाणि नैवाऽऽसन् किन्तु ग्रामीणानां तत्प्रतिमाविषये दृढा श्रद्धाऽऽसीत् । श्रेष्ठिश्रीसाराभाईमहोदयस्य प्रतिमैषा शेरीसातीर्थं नेतव्येत्यभिलाष आसीत् किन्तु ग्रामजनैः स्वविरोधः प्रदर्शितः । अनन्तरं पूज्यस्तत्राऽऽगतः । 'एष मूर्ति नेतुमागतोऽस्ति' इति भावयन्तो ग्रामजनाः शस्त्रसज्जा भूत्वा समक्षमागताः । किन्तु पूज्यस्तानवबोध्य शान्तान् कृतवान् यद् 'न वयं मूर्ति नेतुमपि तु प्रतिष्ठां कर्तुमागताः स्मः । कुत्र चाऽत्र जिनमन्दिरं करणीयं तदर्थं भूमि निरीक्षितुमागताः स्मः' इति । पश्चात् तत्र
जिनभवनं निर्मितं जातम् । (३) महुवानगरम् - पूज्यस्यैषा जन्मभूरासीत् । अत्र च श्रीजीवितस्वामिनो जिनालयस्य
समीप एव पूज्यस्य जन्मस्थाने श्रीनेमिनाथस्य श्रीआदिनाथस्य च जिनालयद्वयं निमितं
जातम् । (४) मातरतीर्थम् - एतस्मिन् तीर्थे द्विपञ्चाशद्देवकुलिकायुतं भव्यमेकं श्रीसुमतिनाथभगवतो
जिनालयो विद्यते । तत्र च देवकुलिका जीर्णा जाता आसन् । तासां जीर्णोद्धारं पूज्योपदेशेन
श्रेष्ठिश्रीजमनाभाई-भगुभाईमहोदयः कारितवान् । (५) कदम्बगिरितीर्थम् - (चित्राङ्काः २४-२५-२६ द्रष्टव्याः)
चित्रमयो विजयनेमिसूरिः
Page #151
--------------------------------------------------------------------------
________________
१४० शासनसम्राड्-विशेषः
Page #152
--------------------------------------------------------------------------
________________
(६) रोहीशाला
श्रीशत्रुञ्जयतीर्थस्य चतुर्ष्वपि दिक्षु सोपानपङ्क्तिरस्ति । ताभ्य एका रोहीशालाग्रामात् प्रारभमाणाऽऽसीत् । एषा च सोपानपङ्किः शत्रुञ्जयतीर्थं कदम्बगिरितीर्थेन सह योजयितुं सेतुतुल्याऽऽसीत् । अथ च यदा वि.सं. १९८२ तमवर्षे मुण्डकाख्यकरविरोधे जैनसमाजेन यात्रानिषेध उद्घोषित आसीत् तदा 'वैकल्पिकरूपेण यद्यत्र तलहट्टिकां निर्माप्य यात्रा क्रियेत तर्ह्यस्य प्रश्नस्य सर्वकालीनं समाधानं भवेत् । करोऽपि दातव्य एव न भवेत्' इति पूज्यस्य विचारः समुद्भूत आसीत् । अतः पूज्योपदेशेन श्रीआणंदजीकल्याणजीसंस्था तत्र जिनालयोपाश्रयधर्मशालादिकं निर्मापितवती ।
(७) शेरीसातीर्थम् - वि.सं. १९६९तमवर्षे पूज्योऽत्राऽऽगत आसीत् किन्तु तीर्थस्य स्थापत्यानां चाऽवदशां दृष्ट्वा बहुदुःखितो जातः । शेरीसापार्श्वनाथस्यैका प्रतिमा जिनालये आसीत्, अन्या चैका ग्रामे कासारतीरेऽधोमुखी भूमावासीत् । सामान्यं पाषाणं मत्वा जनास्तत्र वस्त्रक्षालनादिकं कुर्वन्त आसन् । पूज्यस्तां प्रतिमां जिनालये स्थापितवान् । राजनगरं चाऽऽगत्य श्रीमनसुखभाई - श्रीसाराभाई आदि श्रेष्ठिजनानुपदिश्य सत्वरं तीर्थोद्धारं कारितवान् । (८) कापरडातीर्थम् ( चित्राङ्कः २८ द्रष्टव्यः)
(९) तालध्वजतीर्थम् एतस्य तीर्थस्य योग्यप्रबन्धार्थं पूज्यः श्रीभोगीलाल- श्रीखान्तिलालादीनां श्राद्धानां नियुक्तिं कृतवान् । तदनु च तीर्थस्य जीर्णोद्धारः कारित: । तत्र च द्विपञ्चाशत्कुलिकायुतं नवमेकं जिनचैत्यमपि निर्मापितम् ।
(१०) श्रीस्तम्भतीर्थम् - ( चित्राङ्कौ १७ - १८ द्रष्टव्यौ)
पूज्योपदेशेन पुरुषार्थेन च जीर्णोद्धृतानां तीर्थानां त्वेषोऽङ्गुलिनिर्देश एव केवलम् । एतादृशानि त्वनेकानि तीर्थानि पूज्योपदेशेन जीर्णोद्धृतान्यासन् ।
चित्रमयो विजयनेमिसूरिः
Page #153
--------------------------------------------------------------------------
________________
_ अन्तिमा चतुर्मासी
शासनसम्राड्-विशेषः
Page #154
--------------------------------------------------------------------------
________________
अन्तिमा चतुर्मासी वार्धक्यस्य प्रभावः पूज्यस्य शरीरेऽप्यथ दृश्यमानमासीत् । स्वास्थ्यमपि प्रतिकूलमासीत् । अतो वर्धमान(वढवाण)पुरे बोटादनगरे च प्राणप्रतिष्ठादिकृत्यं सम्पन्नं कृत्वा विश्रान्त्यर्थं पूज्यः स्वकीये वल्लभे प्राणप्रिये च तीर्थे श्रीकदम्बगिरौ समागतः । 'अत्रैव चतुर्मासी निर्वास्या' इति पूज्यस्य मनोरथो जातः । शिष्यपरिवारः श्रावकवर्गश्चाऽपि पूज्यस्याऽभिलाषं समर्थितवान् । किन्तु क्षेत्रस्पर्शनं किञ्चिदन्यदेव निर्मितमासीत् ।
अत्र महुवानगरस्य श्रावकासङ्घो नगररेष्ठिश्रीहरिलालमहोदयसहित आगतः । चतुर्मास्यर्थं च विज्ञप्तवान् । नूतनस्य जिनालयद्वयस्य निर्माणकार्य सम्पन्नप्रायमासीत्, अतः प्रतिष्ठाऽपि कर्तव्याऽस्ति - इत्यपि निवेदितवान् । पूज्यस्य निषेधे सत्यपि यदा तेऽत्याग्रहं कृतवन्तस्तदा पूज्य उक्तवान् - 'नैषा प्रतिष्ठा ममोपस्थितौ भविष्यति । केवलं भवतामत्याग्रहेणैव चतुर्मास्यर्थमहमागमिष्यामि' इति । वि.सं. २००५तमवर्षं तदा प्रवर्तमानमासीत् ।
सशिष्यपरिवारः पूज्यो महुवानगरं प्राप्तवान् । पूज्यस्याऽऽगमनेन न केवलं जैनसङ्ग्रेऽपि तु समग्रेऽपि नगरे आनन्दतरङ्गा उच्छलन्त आसन् । शनैः शनैश्च दिनानि गच्छन्ति स्म । पर्युषणपर्वदिवसा आगताः । श्रावणामावास्याया दिनमासीत् । मध्याह्नकालानन्तरं सूर्यो यदा पश्चिमदिशि गच्छन्नासीत् तदा तस्य परितो वर्तुलं रचितम् । पूज्यो यत्राऽपवरके उपविष्ट आसीत् तत एतद् वर्तुलं स्पष्टतया दृश्यमानमासीत् । ज्योतिषशास्त्रानुसारेण ह्येतद् वर्तुलं दुभिक्षस्य कस्यचिद् महापुरुषस्य वियोगस्य वा सूचकमासीत् । अनन्तरं पर्युषणपर्वणोऽन्तिमे दिने सन्ध्याकाले सर्वेऽपि श्राद्धाः प्रतिक्रमणक्रियार्थं सज्जा आसन् । सर्वैरपि स्वस्थानं गृहीतमासीत् । तदा सहसैव निर्घोषः कश्चित् श्रुतः सर्वैः । उत्थाय यदा बहिर्दृष्टवन्तस्तदा प्राङ्गणस्थितस्य वटवृक्षस्य बृहती शाखैका निनिमित्तमेव त्रुटिताऽऽसीदिति दृष्टम् । एतदपि किञ्चिदशुभं सङ्केतयति स्म ।
पुनश्च भाद्रपदामावास्यादिने रात्रौ नववादनसमये विशालमेकं तारकं गगनात् पतितम् । नेत्रतेजःप्रतिघातिनी प्रभाऽपि तदा समुद्भूता । गोलकास्त्रस्येव प्रचण्डो घोषोऽपि जातः । एतादृशो घोषः शास्त्रे निर्घातशब्देन परिचीयते । 'पृथ्वीयं कस्यचिद् महापुरुषस्य वियोगं प्राप्स्यति' इत्येष सूचयन्नासीत् ।
प्रतिदिनं स्वास्थ्यप्रातिकूल्यं वर्धमानमासीत् । पूज्यउदयसूरिमहाराजः पूज्यनन्दनसूरिमहाराजश्च छायेव सततं पूज्यस्य समीप एव निवसतः स्म । दीपावलिपर्व निकटमासीदतः श्रीनन्दनसूरिमहाराज उक्तवान् – 'पूज्य ! परश्वो दीपावलिपर्व तदनन्तरं च भवतो जन्मदिवसः!' इति । तदा पूज्य उक्तवान् - 'नाऽहं दीपावलिपर्व पश्यामि' इति । एतच्छ्रुत्वा सर्वेऽपि गद्गदिता जाताः । मध्याह्ने च नन्दनसूरिमहाराजाय कतिचन सूचनाः प्रदत्तवान् पूज्यः ।
चित्रमयो विजयनेमिसूरिः।
Page #155
--------------------------------------------------------------------------
________________
RRHeacK HATH
MakAINThiyettyNRHIR
महाप्रयाणम्
१४४/ शासनसम्राड्-विशेषः
Page #156
--------------------------------------------------------------------------
________________
महाप्रयाणम् आश्विनकृष्णामावास्यादिनमागतम् । स्वास्थ्यं तु नितरां प्रतिकूलमेवाऽऽसीत् पूज्यस्य । आप्रात उक्तवानासीत् पूज्यो यद् - 'अद्य जलं विहाय नाऽन्यत् किमप्याहारादिकं ग्रहीष्यामि' इति । समग्रोऽपि सङ्घ उपस्थित आसीत् । चिकित्सका अपि यथासमयमागत्य निरीक्षणं कुर्वन्त आसन । अद्य शरीरे ज्वरोऽप्यासीत । ततश्च शरीरमशक्तं जातमासीत । असौख्यमप्यनभवन्नासीत पूज्यः । तथाऽपि - वदनं प्रसादसदनमिव मुखेऽपूर्वा काचिच्छान्तिर्विलसन्त्यासीत् । मृत्योः स्वागतार्थं सज्ज इव पूज्य आसीत् । अनेकशतजनाः पूज्यस्य दर्शनार्थमागता आसन् । सर्वेषां मनांस्युद्विग्नान्यासन् ।
पञ्चवादनसमयो जातः । सर्वाऽप्यावश्यकक्रिया पूज्येन कृता । सर्वेभ्यश्च क्षमायाचनं कृत्वाऽऽत्मभावे लीनो जातः । जनाः 'नमो अरिहंताणं' 'चत्तारि सरणं पवज्जामि' इत्यादीनि मङ्गलवचनान्युच्चारयन्त आसन् । तच्छ्रवणस्याऽऽह्लादः पूज्यस्य मुखारविन्दे दृश्यमान आसीत् ।
सायं सप्तवादनसमये च पूज्यः स्वकीयामिहलोकयात्रां समाप्य स्वर्गं प्राप्तवान् । नूतनवर्षस्य प्रभाते एव पूज्यस्याऽन्तिमसंस्कारः सम्पन्नो जातः । यत्र पूज्यः स्वर्गं गतस्तत्र कुलिकामेकां निर्माप्य तस्यां पूज्यस्य पादुका स्थापिता जाता । यत्र पूज्यो जातस्तत्रैव विलयं प्राप्तः । अन्तिमसंस्कारभूमावपि जिनालयो निर्मितः ।
महापुरुषाणां जन्म जीवनं मरणं चेत्यादि सर्वमपि विशिष्टमेव भवति ।
चित्रमयो विजयनेमिसूरिः | १४५ .
Page #157
--------------------------------------------------------------------------
________________
१४६ | शासनसम्राड्-विशेषः
Jain Educatie International
Page #158
--------------------------------------------------------------------------
________________
शासनसम्राट मुनिधर्मकीर्तिविजयः
अप्रतिहतानन्तज्ञानदर्शनधारिणः श्रीत्रैशलेयप्रभोरस्मिन् जैनधर्मशासननभसि पुष्पदन्तनिभा बहवो महापुरुषा जाताः । यैरप्रतिमप्रतिभया ज्ञानपटुतया विशुद्धसंयमाचरणेन चाऽज्ञानमिथ्यात्वरूपान्धकारं परधर्मिणामाक्रमणमपास्य श्रीमहावीरभगवत्प्रणीतं जैनधर्मशासनं सादरं सगौरवं च रक्षितं संवधितं चाऽद्यावधि । तत्र तपागच्छे सम्राट अकब्बर'प्रतिबोधकजगद्गुरुश्रीहीरसूरीश्वरस्य पट्टपरम्परायां पण्डितश्रीसत्यविजयमुनिवरः सञ्जातः । तस्मिन् काले जिनशासने यतिपरम्परा संवेगिपरम्परा चेति द्वे परम्परे विद्यमाने आस्ताम् । साध्वाचारस्य सम्पूर्णतया पालनं यत्र वर्तते सा संवेगिपरम्परोच्यते । यत्र लेशतः साध्वाचारस्य पालनं वर्तते सा यतिपरम्परोच्यते । तत्र संवेगिपरम्परायां किञ्चित् शैथिल्यं प्रविष्टमासीत् । मुनीश्वरसत्यविजयेन स्वेच्छया कठोरनियमानङ्गीकृत्य यतिपरम्परास्थानां स्वपरम्परास्थानां च शिथिलाचारिमुनीनामुपसर्गेष्वपि संवेगिमार्गः पुनः प्रस्थापितः। अन्येऽपि बहवो मुनिवरास्तस्मिन् मार्गे सम्मीलिताः ।
तत्पश्चात्तस्यैव पट्टपरम्परायां जातैः 'बुटेरायजी-मूलचन्द्रजी-वृद्धिचन्द्रजीआत्मारामजी'महाराजैः संवेगिपरम्परां प्रवद्धितुं विशेषाः प्रयत्नाः कृताः । ते सर्वेऽपि पूज्यजनाः स्थानकवासिसम्प्रदायस्था आसन् । किन्तु शास्त्राभ्यासेन यदा सत्यं ज्ञातं तदा ते सर्वेऽपि मूर्तिपूजकसम्प्रदायमूररीकर्तुं मुखवस्त्रिकाबन्धनं विहाय पञ्चनद(पञ्जाब)प्रदेशतो निर्गत्य गूर्जरदेशे समागताः । अत्र पुनः संवेगिमार्गानुसारिणी प्रव्रज्या स्वीकृता । पश्चाद् गूर्जरदेशे प्रवर्तमानं
१. अस्मिन् सम्प्रदाये सर्वदा मुखे मुखवस्त्रिकाबन्धनविधानं मूर्तिपूजानिषेधश्च वर्तते ।
शासनसम्राट
Page #159
--------------------------------------------------------------------------
________________
यतिपरम्परास्थानां मुनीनां (श्रीपूज्यानां ) वर्चस्वं तैः सिंहसमसत्त्वेन खण्डितं तथा संवेगिपरम्परामुज्जीवयितुं संवेगिमुनीनां सङ्ख्या वर्द्धिता । एतेषु पूज्यजनेषु परमपूज्य श्रीवृद्धिविजयस्याऽन्तेवासी शासनसम्राट् तपोगच्छपतिः श्रीनेमिसूरीश्वरमहाराज आसीत् ।
अस्यां शताब्द्यां जिनशासनेऽस्मिन् नैके प्रतिभावन्तः प्रभावकाश्च सूरिपुङ्गवा जाताः । यैर्धर्मशासनस्योन्नतिं विधायाऽनुपमा सेवा कृता । तेषां सर्वेषामपि सूरीणां कस्यचित् प्रदेशस्याऽवग्रह आसीत् । तस्मिन् तस्मिन् प्रदेशे तैस्तैः सूरिभिर्बहव उपकाराः कृता आसन् । ततस्तत्रस्थजनैस्तैस्तैस्ते ते सूरीश्वरा गुरुपदे स्थापिताः । एवंरीत्या यद्यपि समस्तसौराष्ट्रप्रदेशोऽस्य नेमिसूरिभगवतोऽवग्रहप्रदेश आसीत्; किन्तु तेन केवलं तत्रत्यानां जैनानामुपर्येवोपकारः कृत इति न, परन्तु सर्वेषामपि जनानां जिनशासनस्य चाऽपि हितार्थमुन्नत्यर्थं च प्रयत्नो विहितः । एवं जिनशासनस्य सर्वेष्वपि विषयेषु तस्योपकार आसीत् । शासनरक्षा तीर्थरक्षा तीर्थोद्धारः शास्त्ररक्षा शास्त्रसर्जनं शास्त्रप्रकाशनमध्यापनरीतिर्व्याख्यानशैली जीवदया योगोद्वहनविधिः प्रतिष्ठापूजनविधिश्चेत्यादीनां सर्वेषामपि विषयाणां प्रवर्तनं प्रवर्धनं च विहितम् । तेन भगवता यत्कार्यं कृतं तत् सर्वमपि सफलमेव जातम्। एवं स सर्वतोमुखप्रतिभासम्पन्नः समर्थः सूरीश्वर आसीत् । स हि मनसा वचसा कायेन च शासनसमर्पित आसीत् । स्वसमुदायः शिष्याः स्वप्रतिष्ठा स्वार्थश्चेत्यादिकं सर्वमपि तस्य कृते गौणमासीत्, केवलं जिनशासनमेव प्रधानमासीत् । तत एव बहुवर्षेभ्यः पश्चादद्याऽपि तस्य सादरं स्मरणं क्रियते सर्वजनैः ।
-
‘शासनसम्राट् अस्माकं जनको गुरुश्च, वयं सर्वेऽपि तस्य पुत्राः शिष्याश्चे 'ति संस्कारबीजं पित्रा बाल्यकालादेव मन्मानसे आरोपितमासीत् । प्रतिदिनं तस्य प्रतिकृतेर्दर्शनमवश्यं करणीयमित्यस्माकमाचार आसीत् । यथावसरं च पितुः समीपे तस्य चरित्रमपि श्रूयते स्म, ततस्तं प्रति विशेषादरः श्रद्धा चाऽऽसीत् । तथाऽहोभावेन सह चित्ते आश्चर्यमपि सञ्जातमासीद् यत् – किं लोकव्यापारैः पराङ्मुखः कश्चिदेको मुनिरप्येतादृशं कार्यं कर्तुं शक्नोति खलु ? इति । पश्चात्तु यथा यथा बोधो वृद्धिं गतस्तथा तथा तं पूज्यं प्रति श्रद्धाऽऽदरश्चाऽपि प्रवृद्धौ । एतादृशः समर्थः सन्नपि परमनिरीहो नाऽन्यः कोऽपि सूरीशो जातोऽस्ति विंशतितमशताब्द्यामस्याम् । स मे गुरुरस्ति इत्यत एवं न लिखामि, किन्तु केवलं तस्य गुरुवर्यस्य प्रभावकप्रतिभातस्तेजोमयव्यक्तित्वतश्चाऽऽकृष्ट एव किञ्चिद् लिखामि । यथा लोहचुम्बकं लोहखण्डमाकृषति तथैवाऽस्य पूज्यस्य निःस्वार्थशासनप्रेम सङ्घचिन्ता दूरदर्शिता सङ्घटनशक्तिर्नेतृत्वशक्तिर्निर्भयता निरीहता निरभिमानता करुणा निर्व्याजवात्सल्यं सत्यनिष्ठा शासनोन्नत्यर्थं परमोत्साहश्चेत्येतादृशाः सङ्ख्यातीता गुणा मे मानसमाकृषन्ति ।
यदा यदैतदुरोर्विषये तज्जीवने घटितानां घटनानां विषये, तत्तत्काले तस्याऽभिगमविषये १४८ शासनसम्राड् - विशेष:
Page #160
--------------------------------------------------------------------------
________________
मनोभावविषये च चिन्तयामि तदा तदा तं प्रति परमोऽहोभावो जागर्ति । यतो न तेन कदाऽपि शासनस्य खण्डनं विभाजनं च यथा स्यात् तथा प्रवृत्तिः कृता, किन्तु जिनशासनस्य हितार्थमैक्या) चैव प्रयत्नो विहितः । यदा शासनसम्बन्धिनोऽन्यगच्छसम्बन्धिनस्तीर्थसम्बन्धिनश्च प्रश्ना उद्भवेयुस्तदा निजस्वार्थं स्वसमुदायं स्वप्रसिद्धिं च गौणं कृत्वा केवलं जिनशासनमेव प्रधानीकृत्य समादधाति स्म स पूज्यः । शासनरक्षार्थं स्वहानिमप्यवगणयति स्म, यत स दूरदशितया चिन्तयति, यद्यद्यहं मे आग्रहं न त्यजेयं तर्हि समाजे परस्परं वैमनस्यं क्लेशः सङ्घर्षश्चोत्पद्येरन्, समाधानं च न भवेत्, अन्ततो गत्वा समाजे विभागः स्यात् । परम्परया शासनेऽराजकता मतभेदो विसंवादिता च प्रवर्तेत, इति । एवं तेन शत्रुञ्जय-गिरनार-समेतशिखर-इत्यादितीर्थेषु, सङ्केषु, गच्छे, समाजे च प्रवर्तमानानां क्लेशादीनां दूरीकरणे साफल्यमपि प्राप्तम् । तथाऽपि 'शासनस्य यत्कार्यं तदेव मे कार्य, शासनस्य शोभायामेव मे शोभा' इति मत्वा न कुत्रचिदपि कदाचिदपि च प्रसिद्धिः कृता । एवं न च प्रसिद्ध्यर्थं दम्भ-प्रपञ्चादिकस्याऽऽश्रयोऽपि कृतः ।
___ 'प्रसिद्ध्यर्थं प्रशंसार्थं च दम्भप्रपञ्चादिकमावश्यकमस्ति' इति मन्यन्ते केचिज्जनाः । सामान्यतोऽधुना ये ये लोकप्रियाः प्रसिद्धाश्च महाभागा दृश्यन्ते, तेषां सर्वासामपि प्रवृत्तीनां सूक्ष्मदृष्ट्या निरीक्षणं क्रियते तदा ज्ञायते यत् तैः कीदृशं कीदृशं मायाप्रपञ्चादिकमाचरितम् । ते बहिस्तु सरला दृश्यन्ते किन्त्वन्तस्तु मलिनवृत्तयो दुराशयाश्च भवन्ति । एष पूज्यपादो बहिरन्तरं वोभयतोऽपि सरल आसीत् । तत एव न कदाऽपि तेन प्रसिद्ध्यर्थं प्रपञ्चादिकं कृतम् । केवलं स्वकीयेन सत्त्वेन सामर्थ्येन तपसा तथा नैष्ठिकब्रह्मचर्येणैव सर्वत्र स्वकीयं प्रभुत्वं स्थापितम् ।
___ एष पूज्यपादस्तु परमनिरीह आसीत् । स न केवलं स्वसमुदाये एव अपि तु समस्तेऽपि तपोगच्छेऽन्यगच्छेषु चाऽपि मान्य आसीत् । तत्कालीनाः समर्थाः सर्वेऽपि सूरीश्वराः पूज्यस्य वचनं प्रमाणीकृत्याऽङ्गीकुर्वन्ति स्म । एवं 'आणंदजी कल्याणजी पेढी' इति संस्थायाः सर्वेऽप्यग्रण्यः श्रीमन्तश्च पूज्यस्य भक्ता आसन् । तथाऽपि तीर्थानां विभिन्नानां संस्थानां च व्यवस्था मदाज्ञानुसारमेव करणीया, इति न कथितं लिखितं च कुत्राऽपि । कुत्रचिद् नोल्लेखोऽपि प्राप्यते श्रूयते चाऽपि । भो ! वस्तुतो यो महानस्ति स न कदाऽपि महत्ता प्रस्थापयितुं प्रयतते, यश्च प्रयतते स न महान् भवति । एवं वर्तमानकाले प्रवर्तमानरीत्यनुसारं स्वमहत्त्वं स्थापयितुमन्येषां महत्ता न दूषिता चाऽपि पूज्येन ।
भोः ! किं कथयेयम् । तस्मिन् काले समाजे केचिज्जना एतादृशा आसन्, येषां हृदयं महत्त्वाकाङ्क्षा-माया-दम्भेादिविषेण बाढं लिप्तमासीत् । ये भक्ष्यार्थं श्वेव निरन्तरं प्रसिद्ध्यर्थमितस्ततोऽटन्ति स्म । ते जना अस्य पूज्यस्यैतादृशी महत्तां प्रतिष्ठां च सोढुं न शक्नुवन्ति स्म । ततस्ते जनाः प्रतिदिनं पूज्यपादं प्रति मिथ्याक्षेपान् कुर्वन्ति स्म । तथाऽपि पूज्येन कदाऽपि तान् प्रति दुर्भावलेशोऽपि न कृतः । अहो ! यदा ते एव जना सङ्कटे पतितास्तदा तेषां रक्षणं पूज्येनैतेनैव
शासनसम्राट् १४९
Page #161
--------------------------------------------------------------------------
________________
कृतम्, तदा समर्पितः कोट्यधिपतिश्च श्राद्धोऽप्यवगणितः शासनरक्षार्थं पूज्येन । तथाऽपि 'मया शासनरक्षा कृता' इत्युद्धोषणा न विहिता । एतदेव पूज्यस्य जीवनस्य वैशिष्ट्यमासीत्, एतदेव च 'शासनसम्राट-तपोगच्छाधिपतिश्च' इति बिरुदं सफलीकरोत्यपि ।
पूज्यपादेन सर्वेष्वपि विषयेषु यान्यतीवोपयोगीनि कार्याणि कृतानि तानि त्वविस्मरणीयानि सन्ति । किन्तु तान्यपि यादृशे काले यादृश्यां परिस्थित्यां च कृतानि तदेव महत्त्वयुतमस्ति । अनुस्रोतःप्रवाहे तरणं त्वतीव सरलमस्ति । अनुकूलपरिस्थित्यामनुकूलवातावरणे च यत्कार्यं क्रियते तस्य न तथा महत्त्वं यथा प्रतिस्रोतःप्रवाहेऽर्थात् प्रतिकूलपरिस्थितौ कृतस्य कार्यस्य । पूज्येन यत्कार्यं कृतं तस्य महत्तां विज्ञातुमेकोनविंशशताब्द्या उत्तरा? निरीक्षणीयः । तस्मिन् काले जिनशासनस्य स्थितिश्चिन्ताजनिकाऽऽसीत् । ज्ञानविषये सुषुप्तिस्तथा तीर्थक्षेत्रेष्वराजकता प्रवर्तमानाऽऽसीत् । तादृशे काले पूज्यपादेन समाजो जागरितः, जनानां दृष्टिरुद्घाटिता, शुद्धधर्मस्य बोधो निरूपितश्च । एवं धर्मस्य यथार्थबोधस्तदैव भवति यदा सम्यज्ज्ञानं स्यादिति भानं लोकमानसे दृढीकृत्य समाजे शास्त्राणां पठनपाठनयोः परम्परा पुनरुज्जागरिता । अप्रकाशितानाम् अष्टसहस्री-सम्मतितर्केत्यादीनां बहूनामाकरग्रन्थानां प्रकाशनं कृत्वा जनेभ्यो नूना दृष्टिः प्रदत्ता । एवं ज्ञानस्य मार्गः सरलः कृतः । पूज्यपादश्रीहरिभद्रसूरीश्वराणां महोपाध्यायश्रीयशोविजयवाचकानां च कठिनग्रन्थानां पठनस्य पाठनस्य च बहुभ्यः कालेभ्यः पश्चात् प्रारम्भ एतेन पूज्येनैव कृतः । एकः प्रसङ्गोऽस्य साक्ष्यं ददाति ।
_ 'चन्देरिया' नामके कस्मिंश्चिद् ग्रामे पुरातत्त्वविदा मुनिश्रीजिनविजयेन पूज्यपादश्रीहरिभद्रसूरेः स्मृतिमन्दिरं कारितमस्ति । एकदा वन्दनार्थं श्राद्धजन एकस्तत्र गतवान् । तस्मिन् स्मृतिमन्दिरे श्रीहरिभद्रसूरेः प्रतिमायाः समीपे शासनसम्राटश्रीनेमिसूरीशस्य प्रतिकृतिर्दृष्टा तेन श्राद्धजनेन ।
- एतत् किम् ? इत्याश्चर्यं प्राप्तवता तेन श्राद्धजनेन मुनिश्रीजिनविजयः पृष्टः - "जैनसमाजे प्रतिभावन्तः समर्थाश्च नैके सूरिपुङ्गवा जाताः । तथा भवान् तु पूज्यपादश्रीविजयानन्द (आत्मारामजी)सूरेः सन्तानीयो मुनिराजोऽस्ति । तद्यपि न कस्यचिदप्यन्यस्य सूरेः, किन्त्वस्य सूरीशस्यैव प्रतिकृतिः कथं स्थापिताऽत्र ?" इति ।
मुनिराजेन कथितम् - "भोः ! पूज्यपादश्रीहरिभद्रसूरीश्वरो मे प्रियगुरुरस्ति । स सूरीशः कः, तेन के के ग्रन्था रचिताः, जिनशासनस्य कियती सेवा कृता, जैनसङ्घोपरि कियानुपकारः कृतः, तेन रचितानां ग्रन्थानां का महत्ता च? इति परिचयो वर्तमानजैनसमुदाये एतेन नेमिसूरिणा कारितः । एवं च जैनसमुदाये जैनसाहित्यप्रकाशनस्य प्रारम्भोऽपि सूरिणैतेनैव कृतः । तत्पश्चात्
१५० शासनसम्राड्-विशेष:
Page #162
--------------------------------------------------------------------------
________________
शास्त्रप्रेमिभिः साहित्यरसिकैश्चाऽन्यैर्मुनिभिरस्यां दिशि प्रशंसनीयं कार्यं कृतम् । एवं सम्यज्ज्ञानस्य सुरक्षा प्रसिद्धिश्च कृता । तदर्थं श्रीजैनतत्त्वविवेचकसभा - श्रीजैनग्रन्थप्रकाशकसभा - इत्यादीनां बह्वीनां संस्थानां निर्माणं कारितम् । अतोऽत्राऽस्य नेमिसूरीशस्य प्रतिकृतिः स्थापिता," इति ।
जैनसङ्घे वर्तमानसाधुसमुदाये च ' नेमिसूरीशस्तीर्थोद्धारक' इति ख्यातिः प्रवर्तते । किन्त्वेतेन पूज्येन तीर्थोद्धारेण सह ग्रन्थसर्जनं, ग्रन्थसंरक्षणं, ग्रन्थसंशोधनं चाऽपि कृतमासीत् । पूज्येन न्यायसिन्धुः सप्तभङ्गीप्रभा हेमप्रभाव्याकरणं चेत्यादयो बहवो जैनन्यायकलिता व्याकरणविषयकाश्चाऽनेके ग्रन्था रचिताः । तद्ग्रन्थपठनेनैव ज्ञायते यत्तस्य पूज्यस्य मतिनैपुण्यं काव्यशक्तिः साहित्य-छन्दोऽलङ्कारबोधो न्यायवैशारद्यं षड्दर्शनबोधो जैनदर्शनसिद्धान्तानां सूक्ष्मबोधश्च कियान् कीदृशश्चाऽऽसीदिति । वर्तमानकाले तु संशोधनविषयकाणां ग्रन्थानां सर्वाऽपि सामग्री सुलभा परिस्थितिश्चाऽपि सानुकूलाऽस्ति । तत्काले तु तादृशी सामग्री दुर्लभा परिस्थितिश्चाऽपि प्रतिकूलाऽऽसीत्। तादृशे काले पूज्येनैतेनाऽऽकरग्रन्थानां सम्पादनं सर्जनं च विधायैका नूत्ना दृष्टिरुद्धाटिता । तथाऽप्यहं 'लघुहरिभद्रो वा - लघुयशोविजयो' वेति नोद्घोषणा कृता, किन्तु 'तेषां पूज्यानां चरणरजोनिभ एवाऽस्मि' इति मन्यते स्म स सूरीशः । एवं पूज्यपादेन शासनोपयोगीनि बहूनि कार्याणि कृतानि । तेन यद्यत्कृतं तस्य कल्पनाऽप्यशक्याऽस्ति । एतेन पूज्येन कृतानि कार्याणि निरीक्ष्य मनसि विकल्पो भवति यद् - एतादृशं कार्यं तु बहवो जनाः सम्मील्याऽपि कर्तुं न शक्नुवन्ति, अतोऽस्य पूज्यपादस्य जीवनकथा दन्तकथैव मंस्यते ।
तस्मिन् काले जिनशासने बहवः समर्थाः सूरीश्वरा आसन् । तह्यपि कथं शासनसम्राडेव सङ्घमान्य आसीत् ? इति प्रश्नः सर्वेषामपि जनानां चित्ते समुद्भवति । तदा तस्य समाधानमेतदेव यत् स ज्ञानविशुद्धसंयमाद्याचारादिगुणैः सह नेतृत्वयोग्यगुणानामपि धारको दीर्घद्रष्टा निर्भयो गीतार्थो देशकालोचितनिर्णयकरणेऽपि समर्थश्चाऽऽसीत् । यथा केवलं धनेन बलेन ज्ञानेन च राजपदं प्राप्तुं न शक्यं, किन्तु समयोचितनिर्णयशक्तिः प्रजास्वैक्योत्पादनशक्तिश्चेत्यादिगुणानां धारक एव राज्यधुरं वोढुं शक्तो भवति तथैव जिनशासनधूर्वहने स एव समर्थो य उपरि वर्णितानां गुणानां धारको भवेत् । केवलं पुस्तकस्य पठनेन पाठनेन सर्जनेन च, प्रतिष्ठादिमहोत्सवकरणेन, बहुशिष्यजनानां स्वामित्वेन, कोट्यधिपतीनां भक्तानां गुरुत्वेन वा तादृशो भवितुं नाऽर्हति । अन्ते, सूरिपदशताब्द्यवसरे गुरुचरणयोरिदमेव प्रार्थनं यद् भवत्कृपया निर्गुणिनो मन्दधियश्च मे मानसे विवेकगुणः प्रादुर्भवेदिति ।
शासनसम्राट्
१५१
Page #163
--------------------------------------------------------------------------
________________
शासनसम्राजां दीर्घदर्शिता निर्भीकता च
मुनिकल्याणकीर्तिविजयः
बहुधा जना अल्पदर्शिनो भयाकुलाश्च भवन्ति । सद्यो लाभं सुखं वा वीक्ष्य तत्प्राप्त्यर्थं यथासुखं वर्तन्ते आचरन्ति च, किन्तु भाविनि काले तदाचरणं कीदृगिष्टानिष्टफलदायकं भविष्यतीति तु नैव विचारयन्ति । अतो यदा तदनिष्टफलमुद्भवति तदा तेऽन्येषामुपरि दोषारोपणं कृत्वा रुदन्ति किन्तु स्वस्यैवाऽयं दोषः पुरा कृत इति तु नैव चिन्तयन्ति स्वीकुर्वन्ति वा । अथ च कदाचिद् भाग्यवशात् तत इष्टफलं प्राप्येत तदा ते वृथाऽभिमानं वहन्तो गर्वोन्नता अटन्ति । किन्तु बहुशोऽपि नैष्फल्यं प्राप्ता अपि ते न कदाचिद् दीर्घदृष्टेर्लाभान् विचारयन्ति, प्रत्युत दीर्घदर्शिनो जनान् दीर्घसूत्रितया निन्दन्तः स्वीयप्रशंसामेव कुर्वन्तितराम् ।
एतस्याश्चाऽल्पदर्शिताया फलत्वेन ते सदाऽपि भयाकुला भवन्ति । यतः स्वीयाल्पविचारिताया अविचारिताया वा फलत्वेन सदाऽपि भयं चिन्ता वा तान् पीडयत्येव ।
किन्तु, महापुरुषा विचारशीला वा जनाः सर्वत्राऽपि कार्ये - लघौ वा महति वा तद्गुणदोषादिकं सम्यग् विचार्यैव वरीवृत्यन्ते । अथवा, एतद्रीत्या विचारणादेव ते महापुरुषा भवन्तीति तु सम्यग् विधानम् । यदपि तैः कृतं क्रियते करिष्यते वा तत्र सर्वत्र ते जागृताः सावधानाश्च भवन्ति । तस्येष्टत्वानिष्टत्वादिकं तेषां मनःपटले पूर्वमेव प्रतिफलितं भवति । अतः स्वकार्यस्य सर्वमपि फलं तेषां धारणानुसारमेव भवति । अथ च कदाचिद् दैवात् समस्या काचित् समुद्भवेद् विपरीतं फलं वाऽपि प्राप्येत तदाऽपि तेषां दुःखमुद्वेगो भयं वा न भवेत् । यतस्ते सर्वमप्येतद् विचारितपूर्विण एव भवन्ति । ततश्च तस्य निवारण एव ते प्रयत्नशीला भवन्ति न तु शोचने । तेषामीदृश्या विचारशैल्याः फलतया ते सदा निर्भीकाश्चाऽपि भवन्ति । तेषामेक एव मन्त्रो भवति यत् – तथैव वर्तितव्यं यथा न काचित् समस्योद्भवेत्, यदि च दैवात् समस्योद्भवेत्
I
१५२ शासनसम्राड् - विशेषः
Page #164
--------------------------------------------------------------------------
________________
तदा तन्निवारण एव प्रयतनीयं न तु भयाकुलतया शोचनीयम् ।
ईदृशा दीर्घदर्शिनो विचारशीलाश्च जना विरलतयैव प्राप्यन्ते, ईदृशैश्च जनैरेव जागतिकेतिहासस्य पृष्ठानि व्याप्तानि । शासनसम्राजः पूज्याचार्याः श्रीविजयनेमिसूरीश्वरा ईदृशा एव निर्भीका दीर्घदृष्टियुताश्च महापुरुषा आसन् । द्वावप्येतौ गुणौ तेषां निसर्गत एवाऽऽस्ताम् ।
आ बाल्यादेव ते कुत्रचिदपि परिस्थिती निर्भयतयैवाऽवर्तन्त दीर्घदर्शित्वाच्च परिसरलक्षणानि निरीक्ष्यैव भावि वृत्तमनुमातुं ज्ञातुं च क्षमा आसन् । (अत एव व्यावहारिकशिक्षणप्राप्त्यनन्तरं तरुणेऽपि वयसि तैर्वाणिज्यमपि तदेव कृतं यस्मिन् निर्भयता दीर्घदर्शिताऽनुमाशक्तिश्चैव प्राधान्येनोपयुज्यन्ते ।) ईदृशक्षमतावत्त्वात् ते यदा कदाऽपि भाविनमपायं प्रथमत एव जानन्ति स्म, स्वसमीपमागतानां च जनानां पदरवत एव ते कथं किमर्थं वाऽऽगता इत्यप्यवबुध्यन्ते स्म ।
तेषां जीवने तादृशा बहवः प्रसङ्गा घटिता यत्र तेषां दीर्घदर्शिताया निर्भीकतायाश्च फलत्वेन समाजस्य लाभो जातो नैकशोऽपायहांनमपि च सञ्जातम् । तादृशमेकं वा प्रसङ्गं पश्यामः ।
गूर्जरदेशे अहमदाबादनगरे जैनैस्तीर्थरक्षणार्थं 'श्रेष्ठिआणंदजी-कल्याणजीसंस्था' इत्यभिधा संस्था स्थापिताऽस्ति प्रायो द्विशतवर्षपूर्वम् । तस्याः संस्थायाः प्रमुखो हि अहमदाबादस्याऽऽधनगरवेष्ठि-शान्तिदासस्य वंशज एव भवितमहती नियमः. अन्ये सभ्याः प्रतिनिधयश्च समग्रदेशस्य विभिन्नप्रान्तेभ्यश्चीयन्ते । शासनसम्राजां काले प्रारम्भे श्रेष्ठिश्रीलालभाई-दलपतभाईमहोदयस्तस्याः संस्थायाः प्रामुख्यं भजति स्म । (तन्नाम्ना अहमदाबादनगरेऽद्याऽपि एल्.डी.इत्युपाह्वा बढ्यो विद्यासंस्था वरीवृत्यन्ते ।) सोऽतीव कुशलः कार्यनिपुणः प्रभावकव्यक्तित्वशाली चाऽऽसीत् । आङ्ग्लसर्वकारोऽपि तदीयकार्यदक्षतया प्रभावितः सन् तस्मै 'सरदार' इति बिरुदं दत्तपूर्वी । लालभाईश्रेष्ठिनः प्रभावस्तु वाइसरोय-पर्यन्तानां सर्वेषां ब्रिटिशसर्वकारीयाधिकारिणामुपर्यासीत् ।
___ तदात्वे भारतस्य ब्रिटिशसर्वकारस्य वाइसरोय् लोर्डकर्झन् आसीत् । स कदाचित् आबूदेलवाडातीर्थस्य दर्शनार्थं गतः । तदा तत्र तस्य गमनं ज्ञात्वा मुम्बई-अहमदाबादादिनगरेभ्यो बहवः श्रेष्ठिनोऽपि तत्र गता आसन् । किन्तु लालभाईश्रेष्ठी ह्यन्यकार्यव्यग्रत्वात् तत्र गमनार्थं सज्जो नाऽऽसीत् । एतज्ज्ञात्वा दीर्घदर्शिनः पूज्यशासनसम्राजः श्रेष्ठिनमाहूय तत्र गमनार्थं बहुशः प्रेरितवन्तः । अतः सोऽपि 'गुर्वाज्ञा प्रमाण मिति चिन्तयन् आबूपर्वतं प्राप्तः ।
इतो लॉर्डकर्झन् कलामर्मज्ञ आसीत् । आबू-देलवाडातीर्थस्थान् जिनालयान् दृष्ट्वा स आश्चर्यचकितो जातः । ईदृशी सूक्ष्मा कला तेन न कुत्राऽपि निरीक्षिताऽऽसीत् । अथ च स
शासनसम्राजां दीर्घदर्शिता निर्भीकता च | १५३
Page #165
--------------------------------------------------------------------------
________________
कालग्रस्तान् जिनालयान् जीर्णीभूतान् दृष्ट्वा चिन्तितवान् यदमीषामुद्धारः कर्तव्यः । स जैनसङ्घाग्रण्यः कथितवान् यद् ‘वयम् (आङ्ग्लसर्वकारः) एतेषां जिनालयानामुद्धारं करिष्यामः । भवद्भिरेतदर्थं मह्यमनुमतिर्दातव्या ।'
एतच्छ्रुत्वा सर्वेऽपि तेऽग्रण्यः स्तब्धाः सञ्जाताः । वाइसरोय्-महोदयमेतदर्थं निषेधयितुं न कस्याऽपि सामर्थ्यमासीत् । तावता लालभाई-श्रेष्ठिना नम्रतया कथितं- 'महोदय ! वयं जैना एवैतेषां जीर्णोद्धारं कारयिष्यामः ।'
__ लॉर्डकर्झन् उक्तवान् - 'जिनालयानां जीर्णोद्धारार्थं पुष्कलं धनमावश्यकम् । तच्च भवन्तो व्ययितुं न शक्ताः । अतो वयमेव तद् व्ययं करिष्यामः, निपुणैरभियन्तृभिः कुशलशिल्पिभिश्च जीर्णोद्धारं कारयिष्यामः ।'
तदा प्रत्युत्पन्नमतिना लालभाई-श्रेष्ठिना सगौरवं प्रत्युत्तरितं - 'महाभाग ! समग्रे भारतदेशे विंशतिर्लक्षं जैनाः सन्ति । यद्यहं तीर्थोद्धारार्थं तान् याचेय तदा ते सर्वेऽपि मे एकैकं वा रूप्यकमवश्यं दास्यन्ति । एवं स्थिते विंशतिर्लक्षं रूप्यकाणां तु सहजं प्राप्स्यते । तेन धनेन वयमेवाऽस्य तीर्थस्योद्धारं कारयिष्यामः । तथा यैः शिल्पिभिरेते जिनालया निर्मितास्तेषां वंशजाः शिल्पकलाकुशलाः शिल्पिनोऽद्याऽपि विद्यन्ते । तैरेव वयं जीर्णोद्धारं कारयिष्यामः । अतो भवद्भिः कष्टं न ग्राह्यम् ।'
एतन्निशम्य सस्मितं लॉर्डकर्झन् अवदत् - 'लालभाई ! भारतस्यैकतृतीयांशं वाणिज्यं जैनानां हस्तगतमित्यहं जानाम्येव' (अतो भवन्त एतज्जीर्णोद्धारं कर्तुं समर्था एव ।) ।
एतत्संवादं श्रुत्वाऽऽश्वस्ता अन्ये जैनाग्रण्यो विचिन्तितवन्तो यद् - 'यदि दीर्घद्रष्टुभिः शासनसम्राभिर्विजयनेमिसूरिभिराग्रहं कृत्वा लालभाईश्रेष्ठ्यत्र प्रेषितो नाऽभविष्यत् तदाऽद्य तीर्थमिदं जिनालयाश्चैतेऽस्मद्धस्तच्युता अभविष्यन्, समग्रो जैनसङ्घश्चाऽस्मान् निन्दन्नभविष्यदद्य । किन्तु पूज्यगुरुवर्याणां दीर्घदर्शितया लालभाईश्रेष्ठिनश्च दक्षतया रक्षिता वयमपयशसः।'
एतस्मात् प्रसङ्गाद् ज्ञायते यत् पूज्याः शासनसम्राजः कियद्दूरपर्यन्तं द्रष्टुं विचारयितुं च शक्ता आसन्, अनेन गुणेन च तैः कथङ्कारं समाजरक्षणं तीर्थरक्षणं च कृतम् ।
अधुना तेषां निर्भीकतागुणं प्रदर्शयन्तं प्रसङ्गमेकं पश्यामः ।
अहमदाबादनगरे तदा मुख्याधिकारी (Commisioner) प्राट-इत्याख्यः आङ्ग्लाधिकार्यासीत् । तस्य सचिवौ द्वौ वणिजावास्ताम् । तत्पार्खादन्यदा तेनाऽधिकारिणा ज्ञातं यज्जैनेषु विजयनेमिसूरीश्वरेत्याख्या धर्माचार्यास्तेजस्विनो विद्वांसश्च सन्तीति । अतः स तान् मेलितुं निर्णीतवान् । तस्येमं निर्णयं ज्ञात्वैकतम: सचिवो गुरुवर्याणां पार्वे आगत्य प्रार्थितवान्
१५४ शासनसम्राड्-विशेषः
Page #166
--------------------------------------------------------------------------
________________
यत् - 'आङ्ग्लो मुख्याधिकारी भवद्दर्शनार्थमागन्ता । स आसन्द एवोपवेक्ष्यत्यतो भवद्भिरपि भूमौ नोपवेष्टव्यमिति ।
तदा गुरुभिरुक्तं - 'भो ! अहं तु सदाऽपि भूमावेवोपविशामि । मत्पार्श्वेऽपि च ये केचिदागच्छन्ति तेऽपि सर्वे भूमावेवोपविशन्ति । तथा च कस्यचिदधिकारिणः कृतेऽहं ममाऽऽचारान् नैव त्यक्ष्यामि । एवं सति यदि तस्याऽऽगमनेच्छा स्यात् तर्त्यागच्छेत् सः, अन्यथा ने 'ति । एतज्ज्ञात्वा प्रभावितेन तेनाऽऽङ्ग्लाधिकारिणा सा मर्यादा स्वीकृता । स नियि गुरुभिराश्रिते धर्मस्थाने आगतः । अन्तः प्रविशता तेन स्वीयं शिरस्त्रं (Hat) तु निष्कासितं, किन्तु पादत्रे नैवाऽपसारिते । एतद् दृष्ट्वा गुरुभिरग्रण्ये जैन श्रावकाय ते अपसारयितुमादिष्टम् । तदा तेनाऽधिकारिणा प्रतिकृतं यत्- 'यदि सपादत्र एवाऽहमन्तरागच्छेयं तदा का विप्रतिपत्तिर्भवताम् ?'
गुरुभिरुक्तं - 'यस्य यस्य धर्मस्थानस्य यो यो नियमः स स तत्र गच्छता सर्वेणाऽपि पालनीयः । यथा भवतां देवालयं (Church) योऽपि प्रविशति स तन्नियमानुसारं शिरस्त्रं (Hat) निष्कासयत्येव । एवमकुर्वाणं तु किं भवांस्तत्स्थानान्त: प्रवेशयेद् वा ?'
अधिकारिणोक्तं - ‘सत्यं, किन्त्वहं कदाचित् सशिरस्त्रमपि जनं देवालये प्रवेष्टुमनुमन्येय ।' गुरुभिः कथितं - 'तदपि सत्यं, किन्तु यः सभ्यो मनुष्यः स्यात् स तु तत्तद्धर्मस्थानस्य मर्यादां पालयेदेव ।'
तदा सस्मितं ‘भवतां कथनं सत्यमेवे 'ति वदन् सोऽधिकारी पादत्रे अपसार्यैवाऽन्तः
प्रविष्टः ।
एतेन प्रसङ्गेन ज्ञायते सूरिसम्राजां निर्भीकता । यः कोऽपि प्रसङ्गो भवेत् कीदृशोऽपि जन आगच्छेत् ते कदाऽपि भयं वृथाऽहोभावं वा नैवाऽनुभूतवन्तः । सहैवौचित्यं सद्व्यवहारं चाऽपि नैव त्यक्तवन्तः ।
( वयं तु स्वातन्त्र्योत्तरं वर्षषष्ट्यनन्तरमपि श्वेतवर्णं दृष्ट्वाऽहोभावं स्वस्मिश्च हीनभावमनुभवामस्तदत्र चिन्त्यम् ।)
एवं च गुरुवर्याणां जीवनेऽगणितास्तादृशाः प्रसङ्गा घटिता येषु तेषां दीर्घदर्शिताया निर्भीकतायाश्च कारणत्वात् समाजस्य धर्मशासनस्य च पुष्कलो लाभः सञ्जातो नैकाश्च विपत्तयो निवारिताः । अस्माकं जीवनेऽपि तादृशा गुणा: प्रकटीभवेयुरित्याशया विरमामः ।
शासनसम्राजां दीर्घदर्शिता निर्भीकता च १५५
Page #167
--------------------------------------------------------------------------
________________
कुलगौरवम् मुनित्रैलोक्यमण्डनविजयः
I
वाक्यमिदं समस्ति आर्यभद्रबाहुविरचिते श्रीकल्पसूत्राख्ये आगमग्रन्थे प्रभुमहावीर - प्रव्रज्याग्रहणवर्णनाधिकारे प्रविव्रजिषुं प्रभुं प्रति धात्र्योक्तेषु हितशिक्षावचनेषु । अल्पाक्षराऽपीयं हितशिक्षा प्रविव्रजिषुभिर्मुमुक्षुभिर्नितान्तं मननीयाऽस्ति । तत्राऽपीदं वाक्यं स्वकीयमनन्यं महत्त्वं दधाति । यतोऽनेनैकेनैव वाक्येन सा जिनधात्री स्मारितवत्यस्ति ऋषभादितीर्थकृतां भरतादिराजराजेश्वराणां च तत्पूर्वजानां यशउज्ज्वलपरम्पराम्; उज्जागरितवत्यस्ति-कुलावतंसस्याऽऽभिजात्यसम्पन्नानां नीतीनां स्मृतिः; साक्षात्कारितवत्यस्ति चेक्ष्वाकुकुलगौरवम् । तद्गौरवमिदं यद्इक्ष्वाकुकुलीनोऽङ्गीकृतं कार्यं सकलसामर्थ्येन निर्वहेत्, गृहीतां प्रतिज्ञां स प्राणान्तेऽपि परिपालयेत्, स्वलक्ष्यं प्रत्यविचलां निष्ठां स धारयेद्, न च सङ्ग्रामे पश्चाद्गमनं मनसि चिन्तयेदपि । सङ्क्षेपेणैतदेव सा प्रोक्तवत्यस्ति यद् वर्धमानेन न जातु विस्मर्तव्यमिक्ष्वाकुकुलस्य कुलश्रेष्ठत्वं स्वदेहे प्रवहतो रक्तस्य च तत्कुलीनत्वम् ।
11
इक्खागकुलसमुप्पन्नेऽसि णं तुमं ज. (ऐक्ष्वाककुलसमुत्पन्नोऽसि नूनं त्वं जात !)
परमियं पुरातनी स्थितिः । अधुना कि केवलं कुलस्मृत्याऽऽत्मभानं सम्भवेत् ? आम्, अवश्यम् । श्रीविजयनेमिसूरिसमुदायस्थश्रमणानां (महतः पूर्वाचार्यस्य नाम्ना तत्सन्ततिसमुदायः परिचीयते इति जैनशासनव्यवस्था) कर्त्तव्यभानार्थं श्रीविजयनेमिसूरिवंशजत्वस्मरणं पर्याप्तम् । यतः केवलमनेनैव तस्याऽन्तर्जागर्ति सामुदायिकीनां शालीनतापूर्णरीतीनां स्मृति:; तत्सम्मुखं प्रत्यक्षीभवति स्वसमुदायस्य गौरवान्वितपरम्परा । सा परम्परा - यया जैनशासनाय नैके ज्ञानवन्तश्चारित्रमूर्त्तयः यस्तपस्विनः प्रभावकाश्च श्रमणाः प्रदत्ताः, यया जैनशासनस्य सर्वेषु क्षेत्रेषु महत्त्वपूर्णं योगदानं विहितम्, यस्यामुदात्तविचारसरणे: प्राधान्यमस्ति, या सर्वदा पराक्रमणे कवचीभूताऽन्तर्विक्षुब्धौ च मध्यस्थीभूता, या परम्परा च निखिलैजैनै: स्वयंस्फूर्त्या मूर्धन्यीकृताऽस्ति ।
उत्सहेऽहं तत्परम्परासत्कानां कतिपयानां पुण्यश्लोकानां श्रमणप्रवराणां ज्ञानसाधनायाः प्रकाशनार्थम् । मन्मानसे परमगुरूणां यावान् प्रभावोऽस्ति, ततोऽप्यधिकोऽस्ति तद्वंशजानां पूज्यानाम्। कारणं त्वेतदेव यद् महतः पृष्ठे जायमानः शून्यावकाशो जनसमाजेन सोढुमशक्यो
शासनसम्राड्-विशेष:
१५६
Page #168
--------------------------------------------------------------------------
________________
भवति, परं श्रीविजयनेमिसूरिशिष्यैः तच्छून्यावकाशः सदैव निरुद्धः । प्रायो द्विशतवर्षीयान्धकारयुगानन्तरं परमगुरुभि नशासने यद् ज्ञानज्योतिः पुनः प्रज्वालितं तस्याऽद्यपर्यन्तं संरक्षणमुद्दीपनं चैतैः कृतम् । कष्टेन विश्वसितुं शक्याऽपि नितान्तं सत्या सा ज्ञानसाधनाऽत्र प्रस्तूयते ।
इदमत्राऽवधेयम् – प्रत्येकं प्रतिभासम्पन्नो मुनिवरोऽधिकाधिकज्ञानशाखानां परिचयवान् स्यात्, अतिप्रचलितशाखासु तु सर्वासु यथाशक्ति प्रावीण्यं दध्याच्चेति जैनशासनेऽपेक्ष्यते । वस्तुतो जैनशास्त्रेषु सर्वतत्त्वधारासत्कविचारपरिशीलनाद्, जैनशास्त्रकाराणामनेकशास्त्रप्रावीण्यात् स्वयं जैनदर्शनस्याऽतिविशालत्वाच्चैकस्याऽपि जैनसिद्धान्ताकरग्रन्थस्य पठनार्थमनेकशास्त्राणां ज्ञानमावश्यकं भवति । फलतः सामान्योऽपि कश्चिज्जैनदर्शनवेत्ता पञ्चषाणां शाखानामधिकारी स्यात्तर्हि नाऽऽश्चर्यम् । अत एवाऽत्र तेषां तेषां महाज्ञानिनां तत्तच्छाखासु वैशारद्यमेव वर्ण्यते न पुनः सर्वशाखाभ्यासवार्ता । यतः श्रीविजयनेमिसूरिभगवन्तः स्वशिष्यान् प्रथमं तावत्श्रीसिद्धहेमशब्दानुशासनं, प्राकृतव्याकरणं, अमरकोशः, महाकाव्यादिसंस्कृतसाहित्यं, श्रमणचर्यावैराग्यादिविषयकप्रकरणानि, जैनन्याय-जैनदर्शनविषयकग्रन्थाः, कर्मशास्त्रसूत्राणि, सिद्धान्तलक्षणप्रभृतिनव्यन्यायं, तर्कसङ्ग्रहमुक्तावली-साङ्ख्यतत्त्वकौमुदी-पातञ्जलयोगसूत्रअर्थसङ्ग्रहवेदान्तपरिभाषादिसर्वदर्शनप्राथमिकग्रन्था इत्यादि पाठयन्ति स्मैव । एतावदधिगत्याऽभिलषितशाखास्वधिकपरिश्रमः क्रियते स्म । अस्तु, प्रकृतं प्रस्तुमः ।
परमगुरूणां शिष्यप्रशिष्यादयस्तेषां जीवितावधौ एव सपादशताधिका आसन् । तेषामध्ययनार्थं काशीपण्डिता मैथिलपण्डिताश्च सहैव वसन्ति स्म । स्वयं सर्वतन्त्रस्वतन्त्राः परमगुरवोऽपि ताननुदिनं पाठयन्ति स्म । एकैकः श्रमणः प्रतिदिनं दशतो द्वादश घण्टाः स्वाध्याये निर्गमयेदिति तेषामाग्रहस्तदर्थं च स्वयमेवाऽवधानं दधति स्म । शास्त्रनैपुण्यम्, उत्कृष्टाऽध्यापनशैली, हितबुद्धिपूर्णा कठोरता, अपूर्वा प्रज्ञाप्रेरणशक्तिः, पाठने उत्साहः-इत्यादीनां समेषामध्यापकोचितगुणानां तेषु सुभगः समन्वय आसीत् । अथ शिष्यप्रशिष्या अपि बुद्धिमन्तः परिश्रमवन्तश्चाऽऽसन । फलतो जैनशासनेन बहवो विद्वत्तल्लजा लब्धाः । तथाहि
श्रीविजयदर्शनसूरयः-एते प्राचीनन्याये पारदृश्वान आसन् । दार्शनिकाचार्येषु त्वेतेऽद्वितीयाः। सम्मतितर्कमहार्णवावतारिका, खण्डनखण्डखाद्यटीका, तत्त्वार्थविवरणगूढार्थदीपिका, स्याद्वादबिन्दुः, पर्युषणाकल्पलता-इत्यादीन् विद्वत्ताप्रचुरान् ग्रन्थान् विरचय्यैते प्राचीनन्यायाध्ययनपरम्पराया मूलाधारं पुनः स्थापितवन्तः ।
श्रीविजयोदयसूरयः-गीतार्थत्वस्य पर्यायवाचिशब्दोऽस्त्येषां नाम । कस्मिन्शास्त्रे एतेषामधिकारो नाऽऽसीदित्येव प्रश्नः । परमगुरूणां पुण्यनिश्रायामेतैः श्रीसिद्धसेनादिवाकर
कुलगौरवम् | १५७
Page #169
--------------------------------------------------------------------------
________________
श्रीहरिभद्रसूरि-श्रीहेमचन्द्राचार्य-श्रीयशोविजयप्रभृतिश्रुतधराणां ग्रन्था हस्तलिखितपत्रेभ्यः समुद्धृताः, संशोधिताः, सम्पादिता विंशतितमशताब्द्यामैदम्प्राथम्येन प्राकाश्यं नीताश्च । वार्धक्ये बहुवर्षाणि यावत् प्रज्ञाचक्षुष्कत्वेऽपि शिल्पशास्त्रनिपुणा एते केवलं हस्तस्पर्शनेन धर्मस्थानस्थवास्तुदोष-तत्परिहारादि वक्तुं शक्नुवन्ति स्म । मुहूर्तादिप्रदानार्थं ग्रहगत्यादिगणितं त्वेतेषां मनस्येव प्रचलति स्म । परमेते यथा ज्ञानागाधत्वेन रत्नाकरमनुहरन्ते स्म तथैव गभीरतया नम्रतादिगुणरत्नैश्चाऽपि । अध्यापनेऽध्ययनार्थिनां साहाय्ये चैतेषामभ्यधिका रुचिरासीत् । रत्नप्रभाख्या जैनतर्कभाषायाष्टीका, नवतत्त्वविस्तरार्थः, मूर्तिमन्तव्यमीमांसा, जैनतत्त्वसारः-इत्यादीन्यास्वाद्यतमान्येतेषां विद्वत्तायाः फलानि ।
श्रीविजयनन्दनसूरयः-परमगुरूणां परमकृपापात्रेष्वेतेषु तेषां सर्वाऽपि प्रतिभा सङ्क्रान्ताऽऽसीद् । अतो ज्ञानसाधनाक्षेत्रे परमगुरूणामिवैषामपि प्रथमपङ्क्तावविचलं स्थानम् । एतैः साङ्गोपाङ्गमधीतानां ग्रन्थानां नामसूचिरपि पृष्ठं व्याप्नुयात् । जैनन्याये एभिः किमपि ज्ञातव्यमवशिष्टं नाऽऽसीत् । कर्मशास्त्रे एतेषां प्रगतिपरिचयार्थमेतदेव पर्याप्तं यत् कर्मप्रकृतिनामको महाग्रन्थोऽपि ग्रामानुग्रामं विहरता रात्रौ चन्द्रिकायां स्वयमेवाऽवगाहितः । आगमे त्वेतेषां परिणत्यर्थं किं वक्तव्यं तदेव न ज्ञायते । ज्योतिषमेभिः स्वयमेव परिशील्य तथाऽऽत्मसात्कृतं यत् स्वजीवनकाले सम्पूर्णे भारतवर्षे जायमानेषु जैनशासनकार्येषु प्रतिशतं नवत्यंशेषु (९०%) एतेषामेव मुहूर्तदानादिकं भवति स्म । शिल्पशास्त्रप्रवीणानामेषां मार्गदर्शनेन निर्मितिं प्राप्ता जिनालयाः शतशः । सर्वेषु दर्शनेष्वेषां निर्बाधा गतिः । जैनतर्कसङ्ग्रह-जैनसिद्धान्तमुक्तावलीकर्मस्तवप्रकाश-षडशीतिप्रकाश-हैमनेमिप्रवेशिका-आचेलक्यतत्त्व-पर्युषणातिथिविनिश्चयसमुद्घाततत्त्व-स्याद्वादरहस्यपत्रविवरण-कदम्बगिरिस्तोत्रादिग्रन्था एतेषां सर्वतन्त्रस्वतन्त्रत्वपरिचायकाः ।
श्रीविजयविज्ञानसूरयः-परमगुरूणां सर्वेषु व्यावहारिककार्येषु सहयोगिनः, 'चाणक्य' रूपेण परिचीयमाना एते षड्दर्शनादिषु पारङ्गता आसन् । परमगुरुप्रतिच्छायाकल्पनं शिष्येषु सर्वतोमुख्याः प्रतिभायाः प्रकटनं चैते स्वधर्मत्वेन स्वीकृतवन्तः ।
श्रीविजयामृतसूरयः-यद्यप्येतेषां सर्वज्ञसिद्धिटीका-स्याद्वादकल्पलतावतारिकादिग्रन्था न्यायकोविदत्वेन सप्तसन्धानमहाकाव्यसरणि-शान्तिनाथचरित्रटीकादयश्च साहित्यसुधीत्वेन प्रख्यापनार्थं पर्याप्ता आसन्, तथाऽपि सहृदयानामेषां मनसि तदा तदा वल्ल्यां पर्णानीव प्रस्फुटन्तीनां काव्यलहरीणां सङ्ख्या तावती जाता यदेते 'कविरत्न'त्वेनैव प्रसिद्धि समुपगताः ।
श्रीविजयपद्मसूरयः-परीक्षायां 'बहुश्रुतत्वस्य निर्दोषं लक्षणं लिखतु' इति १५८ शासनसम्राड्-विशेषः
Page #170
--------------------------------------------------------------------------
________________
प्रश्नस्योत्तररूपेण यदि विद्यार्थी 'विजयपद्मसूरित्वं' लिखेत् तद्यपि तस्मै पूर्णाङ्का दातव्या भवेयुस्तादृश्येतेषां ज्ञानसम्पत्तिः । कवित्ववित्तसम्पन्नानामेतेषां प्रतिनिमेषमेकं श्लोकं रचयितुं सामर्थ्यमासीत् । स्तोत्रचिन्तामणि-प्राकृतकाव्यप्रकाशादिग्रन्थैः काव्यसाहित्यं, विशेषतो भक्तिकाव्यक्षेत्रमेतैः सुपरिपुष्टम्। श्रमणोपासकेषु ज्ञानवृद्ध्यर्थमेते प्रवचनकिरणावलीदेशनाचिन्तामणि-श्रावकधर्मजागरिकादिग्रन्थान् सन्दृब्धवन्तः ।
श्रीविजयलावण्यसूरयः-किमेक एव पुरुषो व्याकरणं, नव्यन्यायः, जैनन्यायः, साहित्यं, व्याख्यानम् - एषु सर्वेषु क्षेत्रेष्वसाधारणं प्रभुत्वं धर्तुं शक्नुयाद् - इति प्रश्ने श्रीलावण्यसूरीणामेव नाम ग्रहीतव्यं भवेत् । किमधिकेन ? एतासु सर्वासु शाखासु मनीषिणामेतेषां तावन्महत्त्वपूर्ण योगदानं यत् प्रत्येकं शाखाया अध्ययनकर्तृणामेकः स्वप्नो भवति-अहं लावण्यसूरिभवेयमिति । नयरहस्य-नयोपदेश-न्यायसङ्ग्रह-अनेकान्तव्यवस्था-शास्त्रवार्तासमुच्चय-द्वात्रिंशद्वात्रिंशिकातिलकमञ्जरी-काव्यानुशासनादिटीकारचनानां धातुरत्नाकर-सिद्धहेमशब्दानुशासनबृहन्न्यासानुसन्धान-तत्त्वार्थत्रिसूत्रीप्रकाशिकादिग्रन्थसृष्टीनां चैतेषामेव विधातृत्वेऽपि; ग्रन्थसङ्ख्याया अत्यधिकत्वाद्, ग्रन्थानां बृहत्कायत्वात्, प्रतिपाद्यमानविषयाणां च प्राज्यत्वान्मनस्याशङ्कोद्भवति यद्, भविष्यति कदाचिदितिहासपण्डितेषु मिथ्याविवादो भविष्यति - किमेतावन्तो ग्रन्था एकेनैव लावण्यसूरिणा विरचिताः ? इति ।
श्रीविजयकस्तूरसूरयः-प्राकृतभाषाया अध्ययने तत्साहित्यस्य प्रणयने चैते नूनं दीपदण्डायन्ते। उपेक्षितप्रायमेतत् क्षेत्रमेते स्वपरिश्रमपीयूषेण पुलकितं कृतवन्तः । एतेषां प्राकृतविज्ञान-पाठमाला प्राकृतभाषाध्ययनक्षेत्रे एको नून आविष्कारः । पाइयविन्नाणकहापाइयविन्नाणगाहा-सिरिउसहणाहचरिय-सिरिचन्दरायचरियादिग्रन्थग्रथनेन सिरिसिरिवालकहासिरिधणवालकहा-करुणरसकदम्बकादि-ग्रन्थसम्पादनेन चैते प्राकृतसाहित्यक्षेत्रे नूतनयुगं प्रवर्तितवन्तः ।
श्रीविजयधर्मधुरन्धरसूरयः- 'यथा नाम तथा गुणा' इत्युक्तिं चरितार्थयन्त एते सत्यं विद्वद्धुरीणा आसन् । ज्ञानसाधनायाः सर्वोच्च शिखरमेते आरूढाः । एभिर्विरचितेभ्यो न्यायव्याकरण-साहित्यादिविषयकशताधिकग्रन्थेभ्यः कतिपयानां नामोल्लेख एवाऽस्मान् चित्रचित्रितान् कर्तुं क्षमः - सिद्धहेमसरस्वती, लक्षणार्थचन्द्रिका, लक्षणविलासः, अनेकार्थसाहस्री, नयवादः, आत्मवादः, निह्नववादः, पञ्चलक्षणीगूढार्थरहस्यं, कर्मप्रवादमीमांसा (रम्यातिरम्यैः पद्यैः कर्मशास्त्रनिरूपको ग्रन्थः), मयूरदूतम्, आर्षभीयचरितं, वज्जचरियं, समणधम्मरसायणं (प्राकृते गीतगोविन्दसमं गेयकाव्यं), अण्णुत्तिसयं, काव्यविमर्श इत्यादि । काव्यश्रीप्रियतमानामेतेषां
कुलगौरवम् | १५९
Page #171
--------------------------------------------------------------------------
________________
गुर्जरभाषया विरचितानि तु गाथासहस्राणि सन्ति ।
प्रवर्तकमुनिश्रीयशोविजया: जन्मना गोपालकानामेतेषां ज्ञानसम्पद् नितरां विस्मयावहा । श्रामण्यात् पूर्वं गाथासप्तकमात्रस्य नामस्तवस्य कण्ठस्थीकरणे मासषट्कं निर्गमितवतामेषां प्रव्रज्यानन्तरं परमगुरूणां श्रीनेमिसूरिभगवतामाशिषा तावान् प्रज्ञातिशय आविर्भूतो यद् विद्वद्भिः सह कस्मिन्नपि विषये संस्कृतपद्यैरेव सम्भाषणं कर्तुं क्षमा जाता: । दौर्भाग्यादेतेषामिहलीलाऽतिशीघ्रं समाप्ता । परं तावत्यत्यल्पेऽपि काले एतैर्विरचितानि स्तुतिकल्पलतादिग्रन्थसत्कानि चित्रकाव्यादिश्लोकशतानि दृष्ट्वाऽनुमातुं शक्यते यदेतेषां दीर्घायुष्कत्वे विद्वत्तायाः फलरूपेण विश्वेन किमलप्स्यत ।
मुनिश्रीरत्नप्रभविजया :- गृहस्थाश्रमे भारतवर्षस्य सर्वप्रथमा होमियोपथीविषये एम्. डी. उपाधिधारकाश्चिकित्सका एते षष्टितमवर्षे प्रव्रज्यां गृहीत्वा, तस्मिन् वयस्यप्यविरतमध्ययनं कृत्वा विश्वाय महन्तमुपहारं दत्तवन्तः - स च Sramana Bhagawan Mahaveera (8 Vol. 2500 pages) इति नाम्नाऽऽङ्ग्लभाषानिबद्धं श्रीवीरप्रभोः सम्पूर्णं जीवनचरित्रम् । तथा आङ्ग्लभाषयैव जैनदर्शनसम्बद्धानन्यानपि ग्रन्थानेते ग्रथितवन्तः ।
अपरं च श्रीविजयदक्षसूरि - श्रीसुमित्रविजय - श्रीगुणविजय - श्रीजयानन्दविजयश्रीशिवानन्दविजय-श्रीप्रतापविजयादयो भूरयो विद्वांसोऽस्यामेव परम्परायां लब्धजन्मानः । एतेऽपि बह्वीनां रचनानां सूत्रधाराः । वस्तुत एतद्वंशजस्यैकैकस्य श्रमणस्य ज्ञानसाधना किञ्चिदपूर्वैवाऽऽसीत् । परं कतमानहं संस्तुयाम् ? कतीनां ग्रन्थरत्नानामुल्लेखं कुर्याम् ? महत: सन्तोषस्य विषयस्त्वेष यदद्यपर्यन्तं सा ज्ञानिपरम्पराऽक्षुण्णा विद्यते ।
-
केचित् पुरोभागिनः कथयेयुर्यत् स्तुतिपरकवाग्विलासो माऽस्तु, वस्तुनिष्ठपरिचयो भवतु । परं ते एव प्रष्टव्या यदमृतस्य कृते 'इदं श्रेष्ठ' मित्यतिरिच्य वास्तविकोऽभिप्रायः किं सम्भवेत् । वस्तुतः परमगुरुभिः कठोरपरिश्रमेण सज्जीकृतानां कुलगौरवीभूतानां श्रमणवरेण्यानां वास्तविकवर्णनेऽपि महाग्रन्था आवश्यकाः । परं केवलं ज्ञानसाधनालेशवर्णनेन मां विरमयत्यात्मप्रशस्त्यकरणरूपाऽस्माकं मर्यादा । अथ चैतस्मिन् परमगुरुसूरिपदशताब्दीवर्षे तेषां चरणयोर्ममैषैव विज्ञप्तिर्यत्तेषामनुग्रहेण तेषामेवाऽयं शिशुः स्वजीवने संरक्षेत् संवर्धयेच्च कुलगौरवंनेमिकुलगौरवम् ।
१६०
शासनसम्राड् - विशेष:
Page #172
--------------------------------------------------------------------------
________________
पत्रम्
मुनिधर्मकीर्तिविजयः नमो नमः श्रीगुरुनेमिसूरये ।। आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । 'कर्णावती'नगरे चतुर्मासी पूर्णीकृत्य शत्रुञ्जयतीर्थं प्रति विहृतवन्तो वयं सर्वेऽपि । अस्माकं सर्वेषामपि देहे सातं वर्तते । तत्रापि भवतां सर्वेषां कुशलं कामये ।।
एतद् वर्षं पूज्यपादशासनसम्राटश्रीनेमिसूरिभगवतां सूरिपदशताब्द्या मङ्गलवर्षमस्ति । एते पूज्यपादा विंशतितमशताब्द्याः प्रभावकपुरुषा आसन् । तैर्जेनसङ्घस्योपरि बहव उपकाराः कृता इति तु विदितमेव त्वया । अस्मिन्नवसरे चित्तेऽनेके प्रश्नाः सञ्जायन्ते - कथमेक एव पुरुष एतादृशं कार्यं विधातुं शक्नुयात् ? कोऽत्र हेतुः ? किं मन्त्रौषधविद्यादिप्रयोगः, देवसाहाय्यमुत कोट्यधिपतिभक्तजनानां संस्तुतिः ? ।
नैतादृशः कोऽप्युपाय आश्रितः पूज्यपादैः । किन्तु केवलमदम्येच्छाशक्तिः यथार्थकार्यनिष्ठा-सात्त्विकता चैव तेषां सामर्थ्यमासीत् । 'मानवो यदिच्छति तत्कर्तुं शक्नोति' इति या लोकोक्तिविद्यते साऽत्र चरितार्थी भवति । यदि जनो निश्चितं कार्यं कर्तुं प्रबलेच्छामासेवेत तथा समर्पितभावेन निष्ठया च तत्कार्यं कुर्यात्तवश्यं सिद्धिर्भवत्येव । पूज्यपादश्रीनेमिसूरिभगवतां जीवने एतौ द्वावपि गुणौ दृश्येते स्म । तैर्यत्कार्यं महद् लघु वा सङ्घगतं व्यक्तिगतं वा कर्तुं निर्णीतं तत्कार्यस्य पारोऽवश्यं प्राप्तः । प्रत्येकं कार्यं स्वकीयं महत्त्वपूर्णं च विद्यते इति मनसिकृत्य निष्ठयोत्साहेन चैव ते कुर्वन्ति स्म । तत एव ते सदा साफल्यं प्राप्नुवन्ति स्म । यदि "कार्यं कुर्वतां चित्ते कार्य प्रत्यौदासीन्यं स्यात्, एतत्कार्यं न सिद्धयेत्तदा न काऽपि बाधा" इति मन्दभावो जागृयात् तहि न कदाऽपि सिद्धिर्भवति । यदि कदाचिद् दैववशात् सफलीभवेत्तदाऽपि चित्ते प्रसन्नता तु न स्यात्, यतस्तत्र निष्ठाया इच्छायाश्चाऽभाव आसीत् ।
तत्राऽपि यदि सात्त्विकता न स्यात्तदा सिद्धिर्भवेद्वा न वा भवेत् । यत्र सात्त्विकता तत्राऽशक्यमपि कार्यं शक्यं भवति । क्रिया ज्ञानं तपश्चेति यत्किमपि सात्त्विकतां विना प्रायो निष्फलं भवत्यथवा विशिष्टफलं तु नैव ददाति ।
किं नाम सात्त्विकता? मनसि वचसि काये च न काऽपि पापबुद्धिः, न च मायाप्रपञ्चादिकं
पत्रम्
१६१
Page #173
--------------------------------------------------------------------------
________________
'किन्तु स्फटिकवन्निर्मलं मनः, इति प्रथमोऽर्थः । एवं ब्रह्मचर्यस्य परमविशुद्धिः, मनसि विकारलेशोऽपि न, इति द्वितीयोऽर्थः ।
पूज्यपादानां चित्ते यावतीच्छा निष्ठा चाऽऽसीत् ततोऽपि विशेषतया सात्त्विकताऽऽसीत् । तत एव ते सर्वेष्वपि कार्येषु सिद्धि प्राप्नुवन्त आसन् । तदानीन्तने काले सर्वत्र तेषां पूज्यपादानां प्रभुत्वमासीत् । सर्वेऽपि सङ्घमान्यजना नगरश्रेष्ठिनस्तेषामाज्ञायां प्रवर्तन्ते स्म । अतः स्वेच्छानुरूपं यत्किमपि कर्तुं ते समर्था आसन्, तथाऽपि ते स्वकीयं स्वार्थं विहाय जिनशासनमेव केन्द्रीकृत्य सर्वमपि कार्यं कृतवन्तः । प्रसिद्ध्यर्थं कुत्रापि कदाचिदपि च तैर्मायाप्रपञ्चादिकस्याऽऽश्रयः कृत इति न श्रूयते । न च कदाचिदपि स्वक्षति गोपयितुं प्रयत्नः कृतः, तथैव च न स्वशक्ति प्रदर्शयितुमपि त्वरा कृता । अद्य तु विपरीता स्थितिविद्यते - मायाप्रपञ्चादिद्वारेणाऽहनिशं स्वक्षति स्वदोषं च पिधातुं तथा स्वदोषः स्वक्षतिश्चाऽपि गुणः शक्तिश्चाऽस्तीति स्थापयितुं प्रयत्नो विधीयते जनैः ।
यत्रैतादृशी सात्त्विकता विद्यते तत्र सर्वसिद्धयः सम्मुखमागच्छन्ति । देवा अपि स्वाधीनीभूय साहाय्यं विदधति । दुर्दैवमपि सौभाग्यं भवति । रिपवोऽपि मित्राणि भवन्ति । एवं सात्त्विकवृत्तिवान् यत् करोति, वाञ्छति, वदति, चिन्तयति च तत्सर्वमपि विना विघ्नं सिद्ध्यति । अशुभवृत्तयो दुष्टजनाश्चाऽपि तं जनं पीडयितुं न शक्नुवन्ति । यतः सात्त्विकजनानां देहात् तेजःपुञ्जो निर्गच्छति। जनस्य यावती बलिष्ठा सात्त्विकता तावती तेजःशक्तिरधिका भवति । तस्याऽऽभामण्डले न केपि दुष्टजना हिंसकप्राणिनश्च प्रवेष्टुमर्हन्ति,न च हानिमपि ते कुर्वन्ति । किन्तु सर्वेऽपि अनुकूला भवन्ति । पूज्यपादश्रीसोमप्रभसूरिभिः कथितम्
तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥
(सूक्तिमुक्तावली-४०) एवं तन्त्र-मन्त्र-विद्या-औषधादीनां विपरीतशक्तिप्रयोगाश्चाऽपि व्यर्था भवन्ति । पूज्यपादानां जीवने एतादृशी सात्त्विकताऽऽसीत् । अत एव तन्नामस्मरणेन दर्शनमात्रेणैव च दुष्टवृत्तयो नश्यन्ति । तस्मिन् काले बहवो ज्ञानिनस्तपस्विनश्चारित्रवन्तश्च सूरीश्वरा आसन्, किन्तु तेषु सर्वेष्वपि पूज्यपादा एव सर्वोपरित्वं भजन्त आसन् । यतस्ते सरला नैष्ठिकब्रह्मचारिणश्चाऽऽसन् । अत एव ते एतादृशं महदविस्मरणीयं च कार्यमपि कर्तुं समर्था जाताः ।
बन्धो ! अद्यैतादृश्याः सरलताया दर्शनमपि सुदुर्लभमस्ति । यदि यः कश्चिद् दीपं
शासनसम्राड्-विशेषः
Page #174
--------------------------------------------------------------------------
________________
गृहीत्वा मार्गयितुं निर्गच्छेत् तर्हि कदाचिदेकं वा द्वौ वा महापुरुषौ प्राप्नुयात् । अस्मिन् क्षणे मे उपकारिणो गुरुवर्यपूज्यपादश्रीसूर्योदयसूरीश्वराः स्मृतिपथमायान्ति । तेषां जीवने एतादृशी सात्त्विकता सन्दृश्यते। ते तु परमनिरीहाः, अतो न स्वमुखात् किमपि वदन्ति ते, किन्तु बहुभ्योऽन्येभ्यः सकाशात् श्रुतं यत्-पूज्यपादप्रभावात् तेषां दर्शनमात्रेण चैव भूतपिशाचादयोऽपि पीडामवाप्य दूरत एव नश्यन्ति, इति । अन्यथाऽद्य सर्वत्र महत्त्वाकाङ्क्षा - दम्भ-प्रपञ्चादिकस्यैव साम्राज्यं प्रवर्तते, तथा विकारा एव दरीदृश्यन्ते । तत एव देशे समाजे च सर्वत्राऽहर्निशं विविधधर्मानुष्ठानानि होमयज्ञादयः प्रभुभक्तिः प्रभुपूजाश्च भवन्ति तथाऽपि न जनानां मुखे प्रसन्नता शान्तिः सौख्यं च दृश्यन्ते, न चाऽऽत्मिकोत्थानस्य दिशं प्रति रुचिरपि दृश्यते । एकदैकः साधकः पुरुषो मया पृष्टः भो ! विद्याप्राप्त्यर्थं किं कोऽपि मन्त्रः किमपि चौषधमस्ति ?
तेन साधकेन कथितम् नैष्ठिकब्रह्मचर्यस्य पालनं न केवलं विद्यासिद्धीनामपि तु सर्वसिद्धीनां निदानमस्ति । तदेव मन्त्र औषधं चाऽस्ति ।
-
-
मयोक्तम् - भो ! वयं तु साधवः, अतो ब्रह्मचारिण एव स्मः ।
साधकेन गदितम् - महाराज ! भवतां कथनं सत्यं, किन्तु नैष्ठिकब्रह्मचर्यं नाम - केवलं दुराचारो न करणीयः, इति न; अपि तु "ब्रह्मणि चरन्ति ते ब्रह्मचारिणः " । ब्रह्मणि अर्थादात्मनि रमणमिति ब्रह्मचर्यम् । पञ्चानामपीन्द्रियाणां विषयाभिलाषं विहाय निरासक्त्या निर्ममतया च वर्तनीयम् । मनसाऽपि विजातीयव्यक्तेराकर्षणाभावो वार्तारुच्यभावश्च" इति । अन्यथा यथा गृहस्याऽग्रणीजनः पूज्यजनः कथ्यते तथैव संन्यासिवेषोऽङ्गीकृतोऽतो ब्रह्मचार्युच्यते, किन्त्वेतावन्मात्रेण लब्धिसिद्धयो नोपलभ्यन्ते । सकृद् मनसाऽपि कृतं ब्रह्मचर्यखण्डनं युष्माभिराधितानां चारित्रतपोमन्त्रादीनां च पुण्यं नाशयति । अतोऽन्यत् सर्वमपि विहाय नैष्ठिकब्रह्मचर्यपालनं करोतु भवान् । सर्वा अपि लब्धयः सिद्धयश्च भवतः स्वागतार्थं सम्मुखमागमिष्यन्तीति ।
बन्धो ! एतन्निशम्य मनसि विचारा उत्पन्नाः । अद्य सर्वतो मोहस्य विकृतेश्चैव साम्राज्यं प्रवर्तते । यावद् धर्मस्थानकेष्वपि सदाचाराणां नीतिमत्ताया गुणवत्तायाः सत्यनिष्ठायाः सात्त्विकतायाश्च ह्रासस्तथा धनस्य सत्ताया बाह्याडम्बरस्य बाह्यधर्मस्य चैवं मोहस्यैव सर्वोपरित्वं दरीदृश्यते । धर्मस्थानकानि धर्मपुरुषाश्चैव समाजस्य देशस्य चैवं समग्रविश्वस्योत्थाननिमित्तीभूता आदर्शरूपाश्च सन्ति, किन्तु यदा तेऽपि मोहलम्पटा भवेयुस्तदा समाजस्य पतनं निश्चितमस्ति । सात्त्विकतां विना समाजस्योत्थानमशक्यम् । केवलं ज्ञानेन क्रियया तपसा धनेन सत्तया च किम् ? अस्माभिः
पत्रम्
१६३
Page #175
--------------------------------------------------------------------------
________________
सर्वैरपि रात्रिन्दिवमवगणय्य निरन्तरं पदप्रतिष्ठाज्ञानादीनां प्राप्त्यर्थम्, अर्थाद् व्यक्तित्वं (Career) रचयितुं प्रयत्नो विधीयते किन्तु सदाचारस्य सात्त्विकतायाश्चाऽवाप्त्यर्थम्, अर्थात् चारित्र्यं (character) प्रवर्धितुं कः प्रयत्नः क्रियते ? सात्त्विकतैव चित्ते प्रवर्तमानां निषेधात्मकदृष्टिं विनाश्य श्रद्धां बलं पुण्यं च जागरयति । पूज्यपाद श्रीनेमिसूरिभगवतां जीवनगानं विचिन्त्यते तदा ज्ञायते यद्, यथैकस्यैव जनस्य पुण्यबलेन सात्त्विकतावशेन च सर्वस्मिन्नपि समाजे गृहे च शान्तिः सुखं च प्रवर्तते, उत्थानं चाऽपि भवति, अन्यजनानां पापानि दुर्बलानि भवन्ति तथैवैकस्यैव दुराचारिणः पापवशेन समाजस्य गृहस्य च पतनमपि भवति, तथा समाजे गृहे चाऽशान्तिः क्लेशः सङ्घर्षश्चाऽपि प्रवर्तन्ते ।
भ्रातर् ! एतत्कथनस्य सार एष एव यद्, एकोऽपि सात्त्विको नैष्ठिकब्रह्मचारी च जनो यत्किमपि कर्तुं शक्नोति, सर्वजनानपि च वशीकरोति । एकाकिभिरपि मम गुरुवर्यैः पूज्यपादश्रीने मिसूरिभिः सात्त्विकताया बलेन जिनशासनं सुदृढं विधाय शान्तिः प्रस्थापिता, शासनस्य शोभा प्रवर्द्धिता, लोकेषु जिनशासनस्य जैनधर्मस्य च प्रभावनं कृतम् । एकेन बुद्धिमता सज्जनेन व्याकृतम् – “पूर्वमेकाकिनैव श्रीनेमिसूरिभगवता यत्कार्यं कृतं तत्कार्यमद्य शताधिकैः सूरिभिः सम्मील्याऽपि कर्तुं न शक्यम्" । एषैवाऽञ्जलिः पूज्यपाद श्रीनेमिसूरिभगवतां सर्वोपरित्वं चरितार्थं करोति ।
अन्ते, एतस्मिन्नवसरे त्वयाऽपि निर्णयः करणीयो यद् 'अहमपि सात्त्विकजीवनं जीविष्यामि, प्रसिद्ध्यर्थं च न कदाचिदपि माया-प्रपञ्चादिकमाचरिष्यामी'ति । तव जीवनं झटिति सफलीभवेदित्याशंसे ।
१६४ शासनसम्राड्-विशेषः
-
Page #176
--------------------------------------------------------------------------
________________
श्रन्थसमीक्षा
'कनीयसी' (कथासङ्ग्रहः) (समीक्षक : डा.रूपनारायणपाण्डेयः मनी का पूरा, सोराम,प्रयागः, उ.प्र.,२१२५०२) कथाकार : डा. हरिहर शर्मा अर्यालः "हरिः अरविन्दः", प्राध्यापकः श्रीरामशङ्करवेदविद्यापीठम्, कोडरा, पोपदा, कबीरनगरम् - २७२१६४(उ.प्र.) प्र.व. -२०६२ वि० । पृ. सं. ८० । मूल्यम् - ३०/- त्रिंशद्रूप्यकाणि
विपुलतरं रमणीयं कमनीयं च कथासाहित्यं सुरभारत्यां राजतेतराम्, किन्तु नूतनतरकथाशिल्पदृष्ट्या प्रणीता लघुकथाः कथाश्च वैपुल्येन न विभान्ति । साम्प्रतं डा. राजेन्द्रमिश्रडा. प्रशस्यमित्रशास्त्रि-डा. प्रकाशमित्रशास्त्रि-डा. अशोकन्-डा. केशवचन्द्रदाश-आचार्यबाबूरामअवस्थिप्रभृतिभिर्नूतनकथाभिः सुरभारतीसाहित्यस्य श्रीः संवर्ध्यते । तेषामेव परम्परायां डा. हरिहरशर्माअर्यालमहोदयेन 'कनीयसी' इति कथासङ्ग्रहः प्राणायि ।
कथासङ्ग्रहेऽस्मिन् सप्त कथाः सन्ति - कनीयसी, कुम्भस्नानस्य फलम्, अनुपमा, पूर्णा सहभोजनाशा, मायाया महिमा, एकाऽपरा सृष्टिः, लघीयसी मत्स्यकन्या ।
'कनीयसी' इति कथायां कनीयसी स्वसद्व्यवहारेण त्यागेन तपसा च सकलकुलस्य विश्वासभाजनं बभूव । 'कुम्भस्नानस्य फलम्' इति कथायां वधूपुत्राभ्यां कुम्भमेलके परित्यक्ताया ललिताया नूतनजीवितोपक्रमो वर्ण्यते । 'अनुपमायाम्' कृष्णवर्णानुपमा सुचरितैः पत्युः प्रेयसी बभूव । 'पूर्णा सहभोजनाशा' इति कथायां पत्युर्जन्मदिने तस्य मित्रस्य राजीवस्य, तज्जायायाः सख्या लतायाश्च सहभोजनाशा पूर्णतां जगाम । 'मायाया महिमा' इत्यत्र भीमः कृष्णस्य कृपया कृष्णाया महिमानं ज्ञातुं शशाक । 'एकाऽपरा सृष्टिः' इति वैज्ञानिक्यां कथायां डा.दत्तात्रेयस्य सृष्टिः तमेव हन्तुं प्रयतते । 'लघीयसी मत्स्यकन्या' इति कथायां लघीयस्या मत्स्यकन्याया रागोपेतं चरितमुपवर्ण्यते । कथेयमाङ्गलकथाया रूपान्तररूपाऽस्ति । ग्रन्थात् प्राक् श्रीरामसुभग
ओझामहाभागस्य प्रो. राजेन्द्रमिश्रादीनां च विदुषां सम्मतयः शोभन्ते । अत्र सगृहीताः कथाः विविधासु पत्रिकासु प्रायशः प्रागपि प्रकाशिता बभूवुः ।
कथासङ्ग्रहेऽस्मिन् अनुपमा-कनीयसीत्यादयः कथाश्चरित्रप्रधानाः सन्ति । विषमे परिवेशेऽपि कनीयसी कर्तव्यपथं सामाजिकं च दायित्वं न परित्यजति । ममतायाः स्खलितं
ग्रन्थसमीक्षा | १६५
Page #177
--------------------------------------------------------------------------
________________
विज्ञाय यदा वरस्य पित्र्यादयो गन्तुमुद्यताः, तदा कनीयस्या वाक्पटुता श्रेयस्करी जाता। "सत्यं वदामि, त्रुटि: केनाऽपि कर्तुं शक्यते। किन्त्वात्मीयानां त्रुटिः स्खलनं कथ्यते, परेषां सैवाऽपराधः । अहं निवेदयामि, भवती पश्यतु ममताम् । किं साऽपराधिनी प्रतिभाति ? दर्शनं विनैव कस्यचिद्विषये काऽपि धारणा नोचिता।" (कनीयसी, पृ. १८)इत्थमेतासु कथासु पात्राणां चरित्रस्य मनोवैज्ञानिक विश्लेषणं सर्वत्र राजते। अनुपमा नारीचरितस्योदात्तं स्वरूपं प्राकाश्यं नयति ।
'कुम्भस्नानस्य फलम्' इति कथा वर्तमानसमाजे वृद्धानां दुर्गतिं यथावत् प्रस्तूय तन्निवारणाय मार्गमपि निर्दिशति । 'लघीयसी मत्स्यकन्या' अनूदिताऽपि मार्मिकी हृदयहारिणी च विद्यते । महाभारते 'द्रौपदी त्वथ सञ्जज्ञे शचीभागादनिन्दिता । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता।" (आदि० ६७/१५७) इति वचनाद् द्रौपदी शच्या अवतारो भवति,न तु मायायाः, किन्तु न जाने 'मायाया महिमा' इति कथायां कथं सा 'महामाया' इत्यभिहिता ?
अस्य ग्रन्थस्य मुद्रणं प्रायशः त्रुटिरहितं वर्तते । ग्रन्थोऽयं सर्वैः सङ्ग्राह्यः पठनीयश्च । जयतु संस्कृतम् ।
१६६ शासनसम्राड्-विशेषः
Page #178
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
विद्योत्तमाकालिदासीयम्
(महाकाव्यम्)
(समीक्षकः - डा. रूपनारायणपाण्डेयः, मनी का पूरा, सोरामः, प्रयागः, उ.प्र. २१२५०२) रचयिता तथा प्रकाशकः - डा. आचार्य रामकिशोर मिश्रः२९५/१४, पट्टीरामपुरम्, खेकड़ा, बागपत, उ.प्र. २०११०१) प्रकाशनतिथिः - चैत्रशुक्ला प्रतिपदा, २०६३/ पृ.सं. १६०/मूल्यम् - २००/
विद्यन्ते विबुधवाणीवाङ्मये वाल्मीकि-व्यास-भास-कालिदास-भारवि-माघादयो महाकवयः, तेषु कालिदासः 'कविकुलगुरुः' इत्यभिधीयते । तस्य महाकवेः पत्नी 'विद्योत्तमा' बभूवेति विद्वज्जना मन्यन्ते । कविवरेण डा.रामकिशोरमहाभागेन कालिदासं विद्योत्तमां चाऽवलम्ब्य 'विद्योत्तमाकालिदासीयम्' इति महाकाव्यं व्यरचि ।
अस्मिन् महाकाव्ये - एकविंशतिः सर्गा विलसन्ति । प्रथमसर्गे - काशिराजः शारदानन्दो नाम सन्ततिं कामयते । द्वितीयसर्गे - विद्योतमा जायते । तृतीयसर्गे- सा-यो मां शास्त्रार्थेन जेष्यति, तेन सह विवाहं करिष्ये- इति प्रतिजानीते । चतुर्थसर्गे- भैरवनाथेन साकं तस्याः शास्त्रार्थो वर्ण्यते। पञ्चमसर्गे - मातुः पुत्रीविवाहचिन्ता । षष्ठसर्गे - तस्याः प्रतारणयोजना । सप्तमसर्गे - मौनशास्त्रार्थो भवति । अष्टमसर्गे - कालिदासेन साकं तस्या विवाहः । नवमसर्गेसौभाग्यनिशायां तया स व्यज्यते । दशमसर्गे-गुरुणा सह कालिदासस्य विमर्शः । एकादशसर्गे - पुत्रीविषये पितुश्चिन्तोच्यते । द्वादशसर्गे कालिदासः पत्नी प्राप्तुं प्रयतते । त्रयोदशसर्गे - विद्योत्तमा कालिदासं कविं विधातुं यतते । चतुर्दशसर्गे-कालिदासस्य कवित्वं निगद्यते । पञ्चदशसर्गे - विद्योत्तमा न्यायं प्राप्तुं विक्रमादित्यराजसभां प्रति याति । षोडशसर्गे-तयोविवादो निर्णयश्च । सप्तदशसर्गे- तयोः प्रणयपरिचर्बोच्यते । अष्टादशसर्गे-पुत्राप्तिर्वात्सल्यं च । एकोनविंशसर्गे-गृहचर्चा । विंशसर्गे - दाम्पत्यमुपवर्ण्यते । एकविंशसर्गे च - बालशिक्षणं विस्तरेण प्रस्तूयते । ग्रन्थात् प्राक् कविकथनं ग्रन्थान्ते च कविपरिचायिका कविपरिचयद्वादशकं च विलसन्ति ।
अस्मिन् महाकाव्येऽनेके विषया नूतनतया प्रतिपादिताः सन्ति, तद् यथा-षोडशे सर्गे पतिपत्नीविवादः, अष्टादशे सर्गे बालक्रीडावर्णनम्, एकविंशे च सर्गे बालशिक्षणम् । बालशिक्षणे
ग्रन्थसमीक्षा १६७
Page #179
--------------------------------------------------------------------------
________________
'पुत्र ! संस्कृतं पठ निजभाषाम्', 'वत्स ! पठेस्त्वं संस्कृतभाषाम्', 'प्रणम पाणिनि वैयाकरणम्' 'शब्दधातुरूपाण्यवगच्छ', 'हुङ्करु रे सुत ! कथां शृणोषि', 'कुरु सुत ! सम्प्रति समासज्ञानम्' चेत्यादिशीर्षकेषु संस्कृताध्यापनस्य नवा योजना मनो हरतितराम् । यद्यपि कामपि जनश्रुतिमाश्रित्य प्रणीतं महाकाव्यमिदं कविवरस्य डा. मिश्रस्य नितरामपूर्वकाव्यप्रणयनप्रतिभां पदे पदे प्रदर्शयति, सरसतया सुगमतया चाऽभिनवसंस्कृतज्ञान् सजवं समाकर्षति, तथाऽपि यत्र तत्र बाणादीनां महाकवीनां कृतीनां भावानामपि संस्मृतिमुद्बोधयति । अत्र पद्यद्वयं द्रष्टव्यम्
'केशग्रहो नारीणां रतेषु शास्त्रेषु चिन्ता काव्येषु बन्धः । न वर्णसङ्करताऽऽसीत् प्रजासु कामप्रसङ्गे दूतप्रबन्धः ॥ छत्रेषु दण्डाः कम्पा ध्वजेषु गीतेषु रागाः करिमदविकाराः । शशिमा कलङ्का नाऽऽसन् प्रजासु गवाक्षलीना जालप्रकाराः ॥'
___ (वि. १/२२-२३) कानिचन मुद्रणस्खलितानि विहाय समग्रं महाकाव्यं नितरां रम्यतरं हृद्यतरं च विद्यते । एतदर्थं डा. मिश्रमहाभागाः समेषां संस्कृतविदुषां धन्यवादमर्हन्ति । महाकाव्यमिदं सर्वैः सुरभारतीसमुपासकैः काव्यप्रणयिभिश्च संग्राह्यं समास्वाद्यं च ।
जयतु संस्कृतम् ।
१६८
शासनसम्राड्-विशेषः
Page #180
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षा
'विद्योत्तमाकालिदासीयम्'
समीक्षकः राजेशकुमार मिश्रः रचयिता - डो. आचार्य रामकिशोरमिश्रः प्रकाशकः - डा. रामकिशोर मिश्रः प्राप्तिस्थानम् - २९५/१४,पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २०११०१ मूल्यम् - २०० रूप्यकाणि
विद्योत्तमाकालिदासीयमेकं महाकाव्यमस्ति । अस्य रचयिता कविवर्यः साहित्यव्याकरणाचार्यः, एम्.ए., पीएच्.डी., महामनामालवीयमहाविद्यालयस्य पूर्वोपाचार्यः संस्कृतविभागाध्यक्षश्च वर्तते । कविरयं प्रायः ३६ संस्कृतरचनानां सर्जनत्वेन नूनं साहित्यदिग्गजोऽस्ति । अस्य महाकाव्ये एकविंशतिसर्गाः सन्ति । रचनायां पदे पदे महाकाव्यस्य सर्वे गुणा दृष्टिपथमायान्ति । कृतिरेषा मातापितृचरणेभ्यः समर्पिता वर्तते । यथा
__ओ३ङ्कारमिश्रसम्भूतो होतीलालः' पिता मम ।।
देवी प्रातःस्मरणीया मातृत्वेन कलावती ॥ ययोरंशेन मे देहे रक्तं वहत्यहर्निशम् ।।
ताभ्यां दिवङ्गतात्मभ्यां महाकाव्यं समर्पितम् ॥ रचनायाः कथानकं कालिदासविद्योत्तमयोश्चरितमस्ति । कालिदासविद्योत्तमयोः सङ्क्षिप्ता कथा कविना स्वकल्पनया विस्तृता कृता । अस्य प्रथमसर्गे सन्ततिकामना, द्वितीयसर्गे विद्योत्तमाजन्म, तृतीयसर्गे विद्योत्तमाप्रतिज्ञा, चतुर्थसर्गे शास्त्रार्थः, पञ्चमसर्गे मातुः पुत्रीविवाहचिन्ता, षष्ठसर्गे प्रतारणयोजना, सप्तमे सर्गे मौनशास्त्रार्थः, अष्टमसर्गे कालिदासविवाहः, नवमसर्गे मिथुनमेलनशर्वरी, दशमसर्गे गुरुशिष्यवार्ता, एकादशसर्गे पुत्रीविषये पितुश्चिन्ता, द्वादशसर्गे पत्नी प्राप्तुं कालिदासस्य प्रयत्नः, त्रयोदशसर्गे कालिदासं कवीकर्तुं विद्योत्तमायाः प्रयत्नः, चतुर्दशसर्गे कालिदासस्य कवित्वम्, पञ्चदशसर्गे पत्नीत्यागपत्रम्, षोडशसर्गे काव्यचर्चा, सप्तदशसर्गे प्रेमचर्चा, अष्टादशसर्गे वात्सल्यम्, एकोनविंशसर्गे गृहचर्चा, विशसर्गे दाम्पत्यम्, एकविंशसर्गे च बालशिक्षणम्।
कविः शिवभक्तोऽस्ति । तेनाऽष्टमूर्तिस्वरूपः शिवः स्मृतः । यथा प्रथमसर्गे प्रथमोऽयं श्लोकः
ग्रन्थसमीक्षा / १६९
Page #181
--------------------------------------------------------------------------
________________
यस्याऽष्टौ मूर्तयः ख्याताः स समर्थो विभुः शिवः ।
प्रसारयतु लोकेषु कवीनाममृतं यशः ॥ कवेः कल्पना मधुराः सन्ति । काव्ये सर्वमपि मधुरं मनोहरं च । यत्र तत्र गीतिप्रवाहो वर्तते । षोडशसर्गादेकविंशसर्गपर्यन्तं रचना गीतात्मिका वर्तते । कविचित्रणं पाण्डित्यप्रचुरं काव्यकौशलं च प्रतिभासनाथम्, यत् खलु संस्कृतसाहित्ये ललामभूतमस्ति । कविः सर्वतन्त्रस्वतन्त्रोऽस्ति । तेन भाषा-रीति-संवाद-विचारादीनां दर्शनमेतावता कौशलेन कारितं, यत् सर्वं सहजं वर्तते । सरसं सरलं चेदं महाकाव्यं सर्वविशेषतायुक्तम् । काव्यस्य सरलताविषये कविना
लिखितम्
संस्कृतं सरलीकर्तुं लिखाम्यहं निरन्तरम् । दुर्बोधता न काऽप्यत्र पठ्यतां संस्कृतं सदा ॥
यद् यत्पद्यं च गीतं च सरलं लिखितं मया ।
संस्कृतं तेन सर्वेण जनभाषा प्रतीयते ॥ स्यादल्पं संस्कृतज्ञानं जनस्य कस्यचिद् यदि ।
तत् स ममाऽस्य काव्यस्य ह्यानन्दं प्राप्तुमर्हति ॥ संवादाः षोडशसर्गे दर्शनीयाः सन्ति । यथाविद्योत्तमा - न कोऽपि मे त्वां विना जगत्यामेकस्त्वमेव बन्धुः ।
सखा मैत्रीं गतः सर्वतो रक्षक-करुणासिन्धुः ॥ शकुन्तलाऽहं त्वं दुष्यन्तः पूरय कामं काम !
इतो मामवलोकय मे राम ! कालिदासः - साऽसि देवयानी त्वं विज्ञे ! ययातिरहमधोगतः ।
प्रेम्णा यस्तां यातः स परं तया स्वपतिधिकृतः ।। तव कामं मंस्ये किं त्वं नो यास्यसि मे वशताम् ?
प्रिये ! त्वं गच्छे: काशीधाम || कवेर्विद्वत्त्वं कवित्वं व्यवहारकुशलत्वं लोकमर्मज्ञत्वं शास्त्रज्ञानित्वं भावनात्मकत्वं च सर्वं काव्यकल्पनया प्रकटितम् । 'ज्ञात्वा किञ्चित्कवयितुमिच्छ' - इति कविपुत्रस्य कृते सन्देशोऽपि मौलिक एव । 'शाकुन्तलमपि ते मयाऽर्पितम्' - इति पत्नी निवेद्य महाकाव्यं समाप्ति गच्छति । ध्रुवपदयुक्तानां श्लोकानां पद्यानां च प्रवाहपूर्णा रचना महाकाव्यत्वं सफलीकरोति । निष्कर्षरूपेण कथयितुं शक्नोमि यदेतत् काव्यं सर्वथा पठनीयं क्रयणीयं च वर्तते ।
अध्यापकः, राजकीय उच्चतर माध्यमिक विद्यालयः, देवताधारः,
कोट, चम्बा-२४९१४५. टिहरीगढ़वाल (उत्तराखण्ड)
१७० शासनसम्राड्-विशेषः
Page #182
--------------------------------------------------------------------------
________________
।
आलोचनम् वेषस्य संस्कृतेश्च कः सम्बन्ध: ? .
एच्. वि. नागराजराव् साम्प्रदायिकं भारतीयं वेषभूषणादिकं ये धारयन्ति ते संस्कृतिमन्तः, ये तु पाश्चात्यमाधुनिकं तद् धारयन्ति, ते संस्कृतिविषये आत्मगुणविषयेऽनादरं कुर्वते इति धारणा मम मनसि आ बहोः कालादवर्तत । किन्तु केभ्यश्चन मासेभ्यः प्राग् मम जीवनेऽनुभवपथमागता घटना संशयबीजानि मन्मनस्युप्तवती ।
__रक्तशर्करापरीक्षार्थमहं मैसूरुनगरे कञ्चन परीक्षालयं गतवान् । परीक्षा कारयित्वा फलितजिज्ञासया तत्राऽहमुपविष्टः । विविधविषयपरीक्षार्थिनां पङ्क्तिस्तत्र स्थिता । स्त्रियः पुरुषाश्च पङ्क्तावासन् । काश्चन स्त्रियः साम्प्रदायिकं दुकूलं धृतवत्यो हरिद्राकुङ्कमशोभिता नानाभरणधारिण्य आसन् । भारतवर्षसंस्कृतेः प्रतिबिम्बवत् ताः प्रतिभान्ति स्म । तत्र पङ्क्तौ स्थिता च काचिद् विंशतिवर्षदेशीया युवतिः । पाश्चात्यवसनधारिणी तिलकरहिता च । अधुनातनजनाः संस्कृतेदूंरीभूता इति मम तां दृष्ट्वा भातम् ।
अस्मिन् सन्दर्भे परीक्षार्थमादौ धनदानस्य पर्यायः कस्याश्चन ग्रामीणाया वृद्धाया महिलाया आगतः । रक्तशर्करापरीक्षा कार्या-इति सा वृद्धाऽवदत् । 'अशीतिर्दीयताम्' इति कायस्थो वदति स्म । सा वृद्धा विह्वला जाता । 'अहो, मयि पञ्चाशदेव रूप्यकाणि सन्ति' इति सा दिङ्मूढेव स्थिता । यदि धनं नास्ति, तर्हि किमर्थमत्राऽऽगम्यते ? इत्यसहनया पङ्क्तौ स्थिताः केचन स्वगतमवदन् । दुकूलधारिण्यः स्त्रियस्तां वृद्धां सतिरस्कारं पश्यन्ति स्म ।
___ पश्चात् स्थिता पाश्चात्यवस्त्रधारिणी युवतिः पुरस्तादागता । स्वधनभस्त्रिकामुद्घाट्य शतं रूप्यकाणि कायस्थाय दत्त्वा 'अस्याः परीक्षा क्रियताम्' इति प्राप्तिपत्रिकां प्राप्य वृद्धायै दत्त्वा पुनः पश्चाद् गत्वा पङ्क्तौ स्वस्थानेऽतिष्ठत् । 'शतं जीवताद् वर्षाणि भवती' इति वृद्धाऽऽशीर्वादं कृत्वा परीक्षार्थमन्तर्गता ।
___ अत्र मम चिन्ता जाता । 'अहो ! का संस्कृतिः ? निर्दिष्टवस्त्रधारणं वा भूतदया वा? तां युवतिं विना अन्ये केऽपि तत्र करुणां न प्रादर्शयन् । ममाऽपि का स्थितिः ? अहमपि सर्वमद्राक्षम् । मम समीपेऽपि पर्याप्तं धनमासीत् । किन्तु तस्या असहायाया वृद्धायाः साहाय्यं कर्तव्यमिति बुद्धिर्मम न जाता । अपरिचितायाः कस्याश्चित् साहाय्यं कर्तुं सिद्धाऽभवत् सा युवतिरेव । तस्या वेषभूषणानि कीदृश्यपि सन्तु नाम, तस्या हृदये करुणा वर्तते । तत्तुलनायामहमेवाऽसंस्कृतः इति ।
आलोचनम् | १७१
Page #183
--------------------------------------------------------------------------
________________
कथा
રો
साक्षात्कारः प्रभोरस्मात्
मुनिराजसुन्दरविजयः पुरा सुन्दरदासोऽभूत् सज्जनानां शिरोमणिः । विद्वानात्मैकलक्षी स ज्ञान-ध्याने रतः सदा સોશી एकदा टोकदेशेऽयं सज्जनः स समाययौ । यतो नैकत्र तिष्ठन्ति साधवो निर्मलाम्बुचत् महात्मागमनं श्रुत्वा स्वदेशे टोकभूपतिः । सत्सङ्गार्थं गतस्तस्य सुमनं भ्रमरो यथा नत्वा स्तुत्वा च तं सेक्षुवाचोवाच महीपतिः । जिज्ञासाऽस्ति गुरो ! काचित् पृच्छेयमत एव किम् ? ॥४॥ प्रेम्णा पूच्छ त्वमित्युक्ते जगाद जगतीपतिः । ज्ञापय कृपयोपायं प्रीतिरीतेः प्रभोः गुरो !
કો भवद्वद् भगवत्साक्षात्कारं मनश्चिकीर्षति । कयाचित् तेऽभवद् रीत्या प्रीतिः परेश्वरं प्रति
૬ો नीतः सुन्दरदासेन दासेन सेवितो नूपः । गवाक्षं भगवत्साक्षात्कणायैव तेन वै रक्षया मिश्रितं वारि तत्राऽऽसीत् स्थालिकास्थितम् । गुरुरुवाच पश्य त्वं जले तव मुखाकृतिम् आस्यस्याऽदर्शनात् क्षीरे टोकेश उक्तवानिदम् ।। दृश्यते नाऽऽननं मेऽत्र श्यामत्वात् सलिलस्य तु ॥
॥७
॥
सेक्षु....स इक्षुः (तदः से: स्वरे.... -हैम- १-३-४५) इत्यनेन सन्धिः ।
शासनसम्राड्-विशेषः
Page #184
--------------------------------------------------------------------------
________________
રૂ
श्रुत्वा सुन्दरदासेन राजानं कथितं पुनः । मुखदर्शनाय शुद्धेऽप्यस्थिरे सर्वतोमुख्ने अस्पष्टं स्वं मुखं दृष्ट्वा जजल्प टोकपार्थिवः । पर्यसोऽस्थिरतातो न यथावन्मुखमीक्ष्यते अथ सुन्दरदासस्तत् स्थिरीकृत्वाऽवदद् दकम् । राजन् ! प्रेक्षस्व शुद्धे के स्थिरे ते वदनाकृतिम् यथावत् स्वास्यमालोक्य भुवने भूर्भूदभ्यधाद् । ईक्षे स्पष्टतयेदानीम् मदीयं सुन्दराननम् गुरो ! ज्ञातं मया नेदं भवान् किं कृतवानिदम् । उपायस्तव प्रश्नस्य सप्रयोगः प्रदर्शितः सकूदप्सु सरक्षेषु लपनं त्वं न दृष्टवान् । यतो हि जीवनीयस्य जानासि मलिनत्वतः तद्वद्विषय-वासना-कषायैर्हि कलङ्किते । मानसे नो भवेत् साक्षात्कारः किल प्रभोरिति यथा चाऽस्थिरतोयेऽपि त्वया तुण्डं न प्रेक्षितम् । तथैवाऽस्थिरचित्ते स्याद् दर्शनं न प्रभोरिति शुद्धं चाऽथ स्थिरं चेति चेतस्तव च स्याद् यदि । भवत्येव प्रभोः साक्षात्कारस्तृतीयवारवद् । टोकाधीशस्त्रिलोकेश-साक्षात्कारस्य लब्धवान् । रीतिं सुन्दरदासस्य सुन्दरैर्वचनैरिति
ઉsો
૬ો
છો
૨૮
ઉsો
1. जलम् ।
A. राजा ।
कथा | १७३
Page #185
--------------------------------------------------------------------------
________________
मर्म-नर्म
कीर्तित्रयी
बालकः किं जिह्वाया अपि पादौ भवतः ? माता नैव वत्स ! जिह्वायाः पादौ नैव भवत बालकः तर्हि पिता कथमेवं वदति यत् .
मातुर्जिह्वाऽहर्निशं चलन्त्येवाऽऽस्ते ?
MAT
(प्राणिसङ्ग्रहालये द्वौ कर्मकरौ रुदन्तौ दृष्ट्वा -) दर्शकः भोः ! किमर्थं रोदनम् ? कर्मकरौ 'हस्त्ययं मृतोऽस्ति' -- इति । दर्शकः हस्तिनि भवतोर्बहु प्रेमाऽऽसीद् वा? कर्मकरौ नैव भोः !, हस्तिनः कृते आवा
भ्यामेव गों निखनितव्य इत्यादिष्टमस्त्यधिकारिणा।
१७४ शासनसम्राड्-विशेषः
Page #186
--------------------------------------------------------------------------
________________
शिक्षक: दिवा तारकाणि कदा दृश्यन्ते भोः विद्यार्थी यदा कपोलयोश्चपेटा पतेत् तदा !!
माता
बालः
माता
बाल:
( रुदन्तं बालं) किं जातं वत्स ! ? भित्तौ चित्रमवलम्बयितुमासन्दमारूढः पिता स्खलित्वा पतितः - इति ।
तत्र किमर्थं रोदनम् ? एष तु हसनीयो वृत्तान्त: !
मातः ! अहमपि तदाऽहसद् एव !
मर्म-नर्म
१७५
Page #187
--------------------------------------------------------------------------
________________
21
(प्राणिसङ्ग्रहालये) रमणः अहं विचारयामि यद् यद्ययं व्याघ्रो
वक्तुं प्रभवेत् तदा स किं वदेत् ? गमनः स वदेद् यद् - भो मूर्ख ! नाऽहं
व्याघ्रः, अहं तु चित्रकः !!
शिक्षकः - (विद्यार्थिनं प्रति) - भो ! 'मम श्वा' इति विषये लिखितो निबन्धस्तु तव
त्वद्भातुश्च समान एवाऽस्ति । किं त्वया ततश्चौर्यं कृत्वा लिखितोऽस्ति ? विद्यार्थीः - नैव महोदय ! किन्तु निबन्धस्य विषयभूतः श्वा समानोऽस्ति ।
___ १७६ | शासनसम्राड्-विशेषः
Page #188
--------------------------------------------------------------------------
________________
प्राकृतविभाग:
विजयनेमिसूरिथुणणं
आयरियसिरिविजयनेमिसूरिणो पहावपुण्णा गुणा
विजयनेमिसूरिप्रशिष्यः
आचार्यविजयकस्तूरसूरिः अरिहंतं णमिऊणं, सयलपच्चूहवूहसमणपरं । थोसामि गुरुगुरुमहं, खायं नेमित्ति नामेणं गुणरयणनियरभरिओ, गुरुवारिनिही तरिज्जइ कहमिमो । तह वि य भत्तितरीए, गंतुं पारं पगुणओ म्हि ॥२॥ पगुरुसिरिनेमिसूरि, तित्यसमुद्धरणसीलसाली जो । तवगच्छगयणतवणो, पुण्णपहावेण संजुत्तो जस्स किवादिट्ठीए, नमिरा भत्ता हवंति वरमइणो । सूरीसरस्स तस्स हि, गायामि सद्भूयगुणविसरं आयरियअट्ठसंपय-दुल्लहगुणगणविहूसिओ सूरी । पवयणसारपरूवण - परी सया जयउ पावयणी ॥५॥ धम्मकहं जस्स सुहं, पायं पायं विमुत्तभवगरला । भब्वा विबुहा जाया, धम्मकही सच्चमेवायं
જી
प्राकृतविभागः | १७७
Page #189
--------------------------------------------------------------------------
________________
છો
गुहिरो जस्स य घोसो, चमक्करइ जुत्तिविज्जुआजाओ । परिसाइ वरिसइ सइ, वाइघणोऽयं बुहसिहिसुहो दिण्णं जेण मुहुत्तं, बिंबपइट्ठाइकज्जकरमउलं । वितहं कत्थ वि नाऽभू, रेहइ सोऽयं निमित्तण्णू बज्झ-भंततवसा, सुबंभतेएण तह य तेयंसी । पुहवीविक्वायजसो, परमोयंसी य तेणेसो अप्पसहावियसंजम-बलेण मंताइवेइणो वि परे । जेण विमूढा विहिया, मंतविउच्च स तओ तेण
૨૦ણો वागरण-नायगंथाइ-विहाणेणं पहावियं जेण ।। सासणमिमं हि तेणं, कविब्ब स पहावगो णेओ ॥११॥ सिद्धायल-रेवयगिरि-वाइतित्थेसु संघजत्ताओ । पूयापहावणाहिं, विहाविया सूरिणा बहुसो
રો सद्धसुहचिंतणपरो, मणुय-तिरिय-दुक्खदुरियहरणे य । कारुण्णपुण्णहियओ, करुणारसमुत्तिओ तेण ।
શરૂ सूरीसरचक्कीणं, एयारिसगुणसमिद्धिजुत्ताणं । कोडी वंदणसेणी, होज्जा कत्थूरसूरिस्स्
॥१४॥ जम्मसयद्दीदिवहे, नवनयण-गयण-नयणमिए (२०२९) वरिसे । सिरिनेमिसूरिगुरुणो, गुणगणगानं हियं विहियं
કો
शासनसम्राड्-विशेषः
Page #190
--------------------------------------------------------------------------
________________
विजयनेमिसूरिथुणणं
(१)
गुरुथुणणगं
श्रीविजयनेमिसूरिशिष्यः
पं. श्रीप्रतापविजयः
संतो सीलधरो महब्बयधरो सुक्खंगरो पाणिणं, जस्साणं विबुहा वहंति सगला सीयुत्तमंगे सया । पुज्जो सग्गुणमण्डिओ जगगुरू थुच्चो बुहेहिं मुणी, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो
રો
पुण्णाणं जलही किलेसरहिओ कोहाइदोसुज्झिओ, दुक्खाणं भवियाण णासकुसलो विज्जाधणेहिं जुओ । निहाओ भयवं पणठ्ठभयगो सत्तत्तसंबोहगो, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो संदेहद्दि-वियारणासणिसमो सिद्धंतपारंगमो, गुत्तो गुत्तिभरेण जो य समिईहिं भूसिओ सुद्धधी । जेणुदंडकुवाइदप्पदलणे रतिंदिवुज्झम्मइ, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो
રો
प्राकृतविभागः । १७९
Page #191
--------------------------------------------------------------------------
________________
धम्मभोनिहिबढणेग-भ-वई भावारिविद्धंसगो, णिच्चं जस्स चरित्तमत्थि अणघं कामाइदोसुज्झिअं । निप्फावोऽमयणो भवग्गिसलिलं दंतो प्पहावागरो, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो
૪
संजोगा रहिओ विमुक्कसगलोवाही गुणाणं घरं, निम्माओ सुहकारगं दरिसणं जस्सऽत्थि लोगे सया । वखाणब्भुअसत्तितोसियजगासेसासुमंतो कई, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो भव्वंभोजभगो पमायरहिओ कल्लाणहेऊ पहू, पक्खीणठ्ठमदोऽविगारनयणो संसारसंतारगो । मिच्छादसणखण्डगो जिणमयासंवढ़गो निम्ममो, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो आइच्चप्पडिमो तमप्पदलणे धीरो सहावेण जो, बज्जब्भन्तरदिप्पसत्तवजुओ कारुण्णणीरंबुही । भारण्डु वडपमायगो बुहणुओ तेलुक्कभदंगरो, अम्हाणाऽभिमयं पदेउ समणो सो णेमिसूरीसरो
દો
છો
णिक्कामो जयणाजुओ मुणिवरो भब्वाण संपालगो, णिस्सल्लो मणुजोवदेसकुसलो सन्नाणपाहोणिही । . णिग्गंथो समयंबुही जिणमये दक्खोऽविपक्खो गणी अम्हाणाऽभिमयं पदेउ समणो सो णेमसूरीसरो
शासनसम्राड्-विशेषः
Page #192
--------------------------------------------------------------------------
________________
(२) गुरुथुणणगं
विजयशीलचन्द्रसूरिः अहो ! जो सया सुद्धचारित्तनिट्ठो, तहा बंभचेम्मि जो सबसिट्ठो । दयालुत्तणेणेह लोगे गरिठ्ठो, अहं संथुवे तं गुरुं नेमिसूरिं अहो ! जं निवाला अणेगा नमंति, तहा सूरिणो जं बहु आमणंति । जणा जं सया भावओ संथुणंति, अहं संथुवे तं गुरुं नेमिसूरिं ॥२॥ अहो ! जेण तित्थाणि संरक्खियाणि, तहा जेण बिंबाणि सुपइट्ठियाणि । पुणो जेण सत्याणि बहु निम्मियाणि, अहं संथुवे तं गुरुं नेमिसूरिं ॥३॥ “अहो ! सूरिणे होउ मे सत्थिवाओ, तहा सूरिकज्जेऽत्थु मे भत्तिभावो ।” जणा जस्स कज्जे सया एवमाहु, अहं संथुवे तं गुरुं नेमिसूरिं ॥४॥
॥५॥
जओ उग्गया सीसधारा पसत्था, जिणाणासमाराहणे जा समत्था । जओ निग्गया बोधवाया हियत्था, अहं संथुवे तं गुरुं नेमिसूरिं अहो ! जस्स नीसं सुपुण्णेहि मीसं, जणो निच्चमहिकंखए निविसेसं । किवा जस्स मे नासए दुप्पिवासं, अहं संथुवे तं गुरुं नेमिसूरिं
॥६॥
अहो ! जम्मि नाहे समग्गो सणाहो, गणो एस'तव'नामगो सुद्धसाहो । जणो जम्मि ताणम्मि सुत्थोऽत्थि सब्बो, अहं संथुचे तं गुरुं नेमिसूरिं
॥७॥
पहू ! तं सि भवकाणणे सत्थवाहो, गुरो ! तं सि मे पामरस्सेह नाहो । दयासायरं सायरं दीणभावा, अहं संथुचे तं गुरुं नेमिसूरिं
પાટા
प्राकृतविभागः
१८१
Page #193
--------------------------------------------------------------------------
________________
कथा
(गताङ्कादग्रे )
साणुमदी
(सानुमती)
परहुदिआ ( परभृतिका, चेटी) -
परहुआ
महुअरिआ
परहुदिआ
महुअरिआ
हुआ
महुआरआ
आतम्महरि अपंडुर जीविद सत्तं वसन्तमासस्स । दिट्ठो सि चूदकोरअ उदुमंगल तुमं पसाएमि ॥
महुअरिआ (मधुकरिका, चेटी) - परहुदिए ! किं एआइणी मन्तेसि ? महुअरिए ! चूदकलिअं देक्खिअ उम्मत्तिआ होस ।
कहं उवट्ठिदो महुमासो ?
सउन्दलाचरियं
(५)
णिव्वत्तिदं मए पज्जा अणिव्वत्तिणिज्जं अच्छरातित्थसण्णिगज्झं जाव साहुजणस्स
अभिसेअकालो त्ति । संपदं इमस्स राएसिणो उदन्तं पच्चखीकरिस्सं । मेणआसंबंधेण सरीरभूदा मे सउन्दला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वम्हि । किं णु क्खु उदुच्छवे वि णिरुच्छवारम्भं विअराअडलं दीसइ । अत्थि मे विहवो पणिधाणेण सव्वं परिण्णादुं । किंदु सहीए आदरो मए माणइदव्वो । हो, इमाणं एव्व उज्जाणपालिआणं तिरक्खणीपडिच्छण्णा पस्सवत्तिणी भविअ उवलहिस्सं ।
डॉ. आचार्यरामकिशोर मिश्रः
१८२ शासनसम्राड्- - विशेष:
महुआरिए ! तव दाणि कालो एसो मदविब्भमगीदाणं ।
सहि ! अवलंब मं जाव अग्गपादट्ठिआ भविअचूदकलिअं गेण्हिअ कामदेवच्चणं करेमि ।
जइ मम वि क्खु अद्धं अच्चणफलस्स ।
अकहिदे वि एवं संपज्जइ । जदो एक्कं एव्व णो जीविदं दुधाट्ठिदं सरीरं । अए !
Page #194
--------------------------------------------------------------------------
________________
साणुमदी
उभे
कञ्चुकी
साणुमदी
कञ्चुकी
उभे
कञ्चुकी
उभे
साणुमदी
राजा
साणुमदी
विदूसअ (विदूषकः)
राजा
विदूसअ
अप्पडिबुद्धो विचूदप्पसवो एत्थबंधणभंगसुरभी होदि । तुमं सि मए चूदंकुर ! दिण्णो कामस्स गहीदधणुअस्स । पहिअजणजुवइलक्खो पंचाब्भहिओ सरो होहि ॥
[ इदि चूदंकुरं छिपदि ॥]
उस्सवप्पआ क्खु मणुस्सा । गुरुणा कारणेण होदव्वं । (परहुदिआ-महुआरिआ ) सुदं रट्ठअमुहादो जाव अंगुलीअदंसणं । (प्रविश्य) तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः ।
पिअं मे ।
अस्मात् प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातो देवेन ।
जुज्जइ ।
(नेपथ्ये) एदु एदु भवं ।
(कर्णं दत्त्वा) अये, इत एवाऽभिवर्तते देवः । स्वकर्माऽनुष्ठीयताम् ।
तह । (गच्छतः)
(राआणं देक्खिअ ) ठाणे क्खु पच्चादेसविमाणिदा वि इमस्स किदे सउन्दला लिम्मदिति ।
(प्रविश्य) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् । अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥
णं ईदिसाणि तवस्सिणीए भाअहेआणि ।
( पविसिअ ) णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा | माहवीमंडवे इमं वेलं आदिवाहिस्सं । तहिं मे चित्तफलअगदं सहत्थलिहिदं तत्तहोदीए सउन्दलाए पडिकिदि आणेहि त्ति ।
ईदृशं हृदयविनोदस्थानम् । तत्तमेव मार्गमादेशय ।
इदो इदो भवं । एसो मणिसिलापट्टअसणाहो माहवीमंडवो उवहाररमणिज्जदाए णिस्संसअं साअदेण विअ णो पडिच्छदि । ता पविसिअ णिसीददु भवं ।
कथा
१८३
Page #195
--------------------------------------------------------------------------
________________
साणुमदी
राजा
लदासंस्सिदा देक्खिस्सं दाव सहीए पडिकिदि । तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं । सखे ! सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । सा हिइतः प्रत्यादिष्टा स्वजनमनुगन्तुं व्यवसिता, स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनदृष्टिं बाष्पप्रसरकलुषामर्पितवती;
मयि क्रूरे यत्तत् सविषमिव शल्यं दहति माम् ॥ भो ! अत्थि मे तक्को केण वि तत्तहोदी आआसचारिणा णीदे त्ति । कः पतिदेवतामन्यः परामटुंमुत्सहेत ? मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिण्या सखी ते हृतेति मे हृदयमाशङ्कते । संमोहो क्खु विम्हअणिज्जो ण पडिबोहो । जइ एव्वं अत्थि क्खु समाअमो कालेण तत्तहोदीए । अंगुलीअअं एव्वं णिदंसणं अवस्संभावी समाअमो अत्थि । (पविसिअ) इअं चित्तगदा भट्टिणी ।
विदूसअ
राजा
साणुमदी विदूसअ
चदुरिआ(चतुरिका) साणुमदी विदूसअ राजा विदूसअ
अम्मो ! एसा राएसिणो णिउणदा । जाणे सही अग्गदो मे वट्टदि त्ति । भो ! दाणिं तण्हिओ तत्तहोदीओ दीसन्ति । कदमाएत्थ सउन्दला ? त्वं तावत् कतमां तर्कयसि ? तक्केमि जा एसा सिढिलबन्धणुव्वन्तकुसुमेण केसन्तेण उब्भिण्णस्सेअबिन्दुणा वअणेण विसेसदो ओसरिआहिं बाहाहिं अवसेअसिणिद्धतरुणपल्लवस्सचूअपाअवस्स पासे इसिपरिस्सन्ता विअ आलिहिदा सा सउन्दला । इदराओ सहीओ त्ति । निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् । भो ! किं णु तत्तहोदी रत्तकुवलअपल्लवसोहिणा अग्गहत्थेण मुहं आवारिअ चइदचइदा विअ ट्ठिआ । आ, एसो दासीए पुत्तो कुसुमरसपाडच्चरो तत्तहोदीए वअणकमलं अहिलंगेदि महुअरो । ननु वार्यतामेष धृष्टः ।
राजा विदूसअ
राजा
१८४ शासनसम्राड्-विशेषः
Page #196
--------------------------------------------------------------------------
________________
विदूसअ
राजा
साणुमदी
बाल तवस्सिणी
राजा
तवस्सिणी
बाल
तवस्सिणी
पथमा
तवस्सिणी
भो ! चित्तं क्खु एदं ।
वयस्य ! कथमेवमविश्रान्तदुःखमनुभवामि ? प्रजागरात् खिलीभूतस्तस्याः स्वप्ने समागमः । बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥
सव्वा पमज्जिदं तु पच्चादेसदुक्खं सउन्दलाए । सदि क्खु दीवे ववधाणदोसेण एसो अन्धआरदोसं अणुहोदि । अहं दाणि एव्व णिव्वुदं करेमि । अहवा सुदं मए सउन्दलं समस्सासअंतीए महेन्द्रजणणीए मुहादो जण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्सन्ति जह अइरेण धम्मपदिणि भट्टा अहिणन्दिस्सदित्ति । तात्तं एवं कालं पडिपालिदुं । जाव इमिणा वुत्तन्तेण पिअसहिं समस्सासेमि । (पत्थिदा)
(नेपथ्ये)
मा क्खु चावलं करे दि । कहं गदो एव्व अत्तणो पकिदि ?
जिम्भ सिंघ ! दन्ताई दे गणइस्सं ।
I
अविणीद ! किं णो अपच्चणिव्विसेसाणि सत्ताणि विप्पअरेसि ? हन्त, वड्ढइ दे संरम्भो । ठाणे क्खु इसिजणेण सव्वदमणो त्ति किदणामहेओ सि । किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः ? नूनमनपत्यता मां वत्सलयति ।
एसा क्खु केसरिणी तुमं लंघेदि जइ से पुत्तं णं ण मुंचसि । अम्ह, बलिअं क्खु भीदो म्हि ।
बाल
राजा
इदरा तवस्सिणी सुव्वदे ! ण सक्को एसो वाआमेत्तेण विरमाविदुं । गच्छ तुमं । ममकेरए उडए मक्कंडे अस्स इसिकुमारस्स वण्णचित्तिदो मित्तिआमोरओ चिट्ठिदि । तं से
उवहर ।
वच्छ ! एदं बालमिइन्दअं मुंच । अवरं दे कीलणअं दाइस्सं । कहिं ? देइ एदं । ( इदि हत्थं पसारे दि 1)
( बालस्य हस्तमवलोक्य) कथं चक्रवर्तिलक्षणमप्यनेन धार्यते ?
तह । (गच्छदि)
20%
कथा १८५
Page #197
--------------------------------------------------------------------------
________________
बाल
इमिणा एव्व दाव कीलिस्सं । (इदि तवस्सिणी विलोकिअ हसदि ।) तवस्सिणी होदु । ण मं अअं गणेदि । को एत्थ इसिकुमाराणं ? भद्दमुह ! एहि दाव।
मोएहि इमिणा दुम्मोअहत्थग्गहेण डिम्भलीलाए बाहीअमाणं बालमिइन्दअं। राजा (बालमुपगम्य) अयि भो महर्षिपुत्र ! तवस्सिणी भद्दमुह ! ण क्खु अअं इसिकुमारओ । (दौ देक्खिअ) अच्छरिअं अच्छरिअं। राजा
आर्ये ! किमिव ? तवस्सिणी इमस्स बालअस्स दे वि संवादिणी आकिदी त्ति विम्हिदम्हि । अपरिइदस्स
वि दे अप्पडिलोमो संवुत्तो त्ति । राजा
न चेन्मुनिकुमारोऽयम्, अथ कोऽस्य व्यपदेशः ? तवस्सिणी पुरुवंसो । अच्छरासंबंधेण इमस्स जणणी देवगुरुतवोवणे प्पसूदा । राजा (स्वगतम्) इयं खलु कथा मामेव लक्ष्यीकरोति । तवस्सिणी (पविसिअ मित्तिआमोरहत्था) सव्वदमण ! सउन्दलावण्णं पेक्ख । बाल
कहिं मे अज्जू ? (सव्वदो पेक्खदि ।) तवस्सिणी णामसारिस्सेण वंचिदो माउवच्छलो । इदरा तवस्सिणी वच्छ ! इमस्स मित्तिआमोरस्स रम्मत्तणं देक्ख त्ति । राजा
(आत्मगतम्) किं वा शकुन्तलेत्यस्य मातुराख्या । नामसादृश्यं स्यात् । बाल
अज्जुए ! रोचदे मे एसो भद्दमोरओ । (इदि कीलणअमादद्दे ।) तवस्सिणी
(देक्खिअ) अम्हहे, रक्खाकरंडअं से मणिबंधे ण दीसदि । राजा अलमावेगेन । नन्विदमस्य सिंहशावकविमर्दात् परिभ्रष्टम् ।
. (इत्यादातुमिच्छति ।) तवस्सिणी मा क्खु इदं अवलम्बिअ । कहं ? गहीदं णेण । राजा किमर्थं प्रतिषिद्धाः स्मः ? तवस्सिणी सुणादु महाराओ । एसा अवराजिदा णाम ओसही इमस्स जातकम्मसमए
भअवदा मारीचेण दिण्णा । एदं किल मादापिदरो अप्पाणं च वज्जिअ अवरो
भूमिपडिदं ण गेह्लादि । राजा
अथ गृह्णाति ? १८६ शासनसम्राड्-विशेषः
Page #198
--------------------------------------------------------------------------
________________
राजा
राजा
तवस्सिणी तदो तं सप्पो भविअ दसइ । राजा
भवत्या कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ? तवस्सिणी अणेअसो । राजा (सहर्षम्) (आत्मगतम्) कथमिव सम्पूर्णमपि मे मनोरथं नाऽभिनन्दामि ?
(इति बालं परिष्वजते ।) इदरा तवस्सिणी सुव्वदे ! एहि । इमं वुत्तन्तं णिअमव्वावुडाए सउन्दलाए णिवेदेम्ह । (उभे
पत्थिदे) बाल
मुंच मं । जाव अज्जुए सआसं गमिस्सं ।
पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि । बाल मम क्खु तादो दुस्सन्दो । ण तुमं ।
(सस्मितम्) एष विवाद एव प्रत्याययति । सउन्दला (पविसिअ) विआरकाले वि पकिदित्थं सव्वदमणस्स ओसहिं सुणिअ ण मे
आसा आसि अत्तणो भाअहेएसु । अहवा जह साणुमदीए आचक्खिदं तह संभावीअदि एदं ।
(विलोक्य) अये, सेयमत्रभवती शकुन्तला । या मे दीर्घविरहव्रतं बिभर्ति । सउन्दला (देक्खिअ)ण क्खु अज्जउत्तो विअ । तदो को एसो दाणिं किदरक्खामंगलं
दारिअं मे गत्तसंसग्गेण दूसेदि ? बाल (मादरमुवेदिअ) अज्जुए ! एसो को वि पुरिसो मं पुत्त त्ति आलिंगदि ।
प्रिये ! क्रौरमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम् । यदहमिदानीं त्वया
प्रत्यभिज्ञातमात्मानं पश्यामि । सउन्दला (स्वगदं) हिअअ ! समस्सस, समस्सस । परिच्चतमच्छरेण अणुअप्पिअम्हि
देव्वेण । अज्जउत्तो क्खु एसो । प्रिये !, स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थिताऽसि मे सुमुखि ! ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ सउन्दला जेदु जेदु अज्जउत्तो । (इदि रोदिदि)
अज्जुए ! को एसो ?
राजा
राजा
राजा
बाल
कथा | १८७
Page #199
--------------------------------------------------------------------------
________________
सउन्दला
राजा
सउन्दला
राजा
सउन्दला
वच्छ ! दे भाअहेआई पुच्छेहि । (शकुन्तलायाः पादयोः प्रणिपत्य) सुतनु ! हृदयात् प्रत्यादेशव्यलीकमपैतु ते, किमपि मनसः संमोहो मे तदा बलवानभूत् । प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः, स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ उद्धेदु अज्जउत्तो । णूणं मे सुअरिअप्पडिबन्ध पुराकिदं तेसु दिअहेसु परिणामाहिमुहं आसि जेण साणुक्कोसो वि अज्जउत्तो मइ विरसो संवुत्तो । अह कहं अज्जउत्तेण सुमरिदो दुक्खभाई अअं जणो ? उद्धृतविषादशल्यः कथयिष्यामि । प्रिये ! मोहन्मया सुतनु ! पूर्वमुपेक्षितस्ते यो बाष्पबिन्दुरधरं परिबाधमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥
(इति शकुन्तलाया अश्रूणि प्रोञ्छयति ।) (णाममुदरां देक्खिअ) अज्जउत्त ! एदं तं अंगुलीअअं । अस्मादङ्गुलीयोपलम्भात् खलु तव स्मृतिरुपलब्धा प्रिये ! विसमं किदं णेण जं तदा अज्जउत्तस्स पच्चअकाले दुल्लहं आसि । शाकुन्तले ! अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं मारीचं द्रष्टुमिच्छामि । हिरिआमि अज्जउत्तेण सह गुरुसमीवं गन्तुं । अप्याचरितव्यमभ्युदयकालेषु । एहि, एहि । (सर्वे गच्छन्ति ।) (मारीचमुपगम्य) भगवन्तौ ! दुष्यन्तः प्रणमति । वत्स ! चिरं जीव । पृथिवीं पालय । वच्छ ! अप्पडिरहो होहि । दारअसहिदा वो पादवन्दणं करेमि । वत्से, आखण्डलसमो भर्ता जयन्तप्रतिभः सुतः ।
आशीरन्या न ते योग्या पौलीमीसदृशी भव ।। जादे ! भत्तुणो बहुमदा होहि । अअं दे दीहाऊ वच्छओ उहअकुलणन्दणो
राजा
सउन्दला
राजा
सउन्दला
राजा
मारीचः अदितिः सउन्दला मारीचः
अदितिः
१८८ शासनसम्राड्-विशेषः
Page #200
--------------------------------------------------------------------------
________________
राजा
मारीचः
सउन्दला
मारीचः
राजा
मारीचः
राजा
होदु । उवविसह । (सव्वे उवविसन्दि ।)
भगवन् ! इमां शकुन्तलां गान्धर्वेण विवाहविधिनोपगम्य कस्यचित् कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात् प्रत्यादिशन्नपराद्धोऽस्मि महर्षिकण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वं तस्य दुहितरमवगतोऽहम् । इमां गृहीत्वा जिगमिषामि ।
वत्स ! शृणु, यदैवाऽप्सरस्तीर्थावतरणात् प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता, तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा, नाऽन्यथा । स चायमङ्गुलीयकदर्शनावसानः । वत्स ! अलमात्मापराधशङ्कया ।
(स्वगदं) दिट्टिआ अकारणपच्चादेशी ण अज्जउत्तो । ण क्खु सत्तं अत्ताणं सुमरेमि | अहवा पत्तो मए स हि सावो विरहसुण्णहिअआए ण विदिदो । अदो सहीहिं संदिट्ठ म्हि भत्तुणो अंगुलीअअं दंसइदव्वं त्ति ।
वत्से ! इदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । वत्स ! त्वयाऽभिनन्दितः शाकुन्तलेय: ?
भगवन् ! अत्र खलु मे वंशप्रतिष्ठा । ( इति बालं हस्तेन गृह्णाति ।) वत्स ! त्वमपि स्वापत्यदारसहितस्ते राजधानीं प्रतिष्ठस्व ।
यदाज्ञापयति भगवन् । ( सपुत्रपत्नीको गच्छति ।) ।
॥ इदि सउन्दलाचरियं ॥
.
२९५ / १४, पट्टीरामपुरम् खेकड़ा-२०११०१(बागपत) उ.प्र.
१८९
M
कथा
Page #201
--------------------------------------------------------------------------
________________
Page #202
--------------------------------------------------------------------------
________________ b0:00 श्रीविजयनेमिसूरीश्वर गुरुस्तुतिः (भुजङ्गप्रयातम्) अहो योगदाता प्रभो क्षेमदाता, सदा नाथ एवाऽसि नस्तारकस्त्वम् / सुसौभाग्यवान् बाल्यतो ब्रह्मचारी, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 1 // न यामीह पारं गुरूणां गुणानां, कथं ते च गण्या विना शक्तियोगम् / तथाऽपि स्तुतिभक्तरागात् तवेयम्, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 2 // त्वयाऽष्टाङ्गयोगः समाधिः सुलब्ध-स्तथाऽध्यात्मयोगादितोऽसाधि सिद्धिः। क्रियाज्ञानसद्ध्यानयोगैकनिष्ठं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 3 // तवाऽऽसन् नरेशाश्च भक्ता अनेके, जगत्यां त्वया धर्मवीरत्वमुप्तम् / महातीर्थसद्भक्तियोगं दधानं, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 4 // अहं निर्गुणः सद्गुणैः संभृतस्त्व-महं ज्ञानहीनोऽस्मि सज्ज्ञानवास्त्वम् / ममाऽभेददाऽऽविर्भवत्वार्यभक्तिः, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ||5|| मयाऽकारि नो सेवना नाथ काचिन्, न चाऽधारि शिक्षा हृदि त्वत्प्रदत्ता। क्षमन्तां मम प्रार्थनैषा कृपालो, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् // 6 // सनाथस्त्वयाऽद्यापि पर्यन्तमास-मनाथोऽद्य जज्ञेऽथ भाग्यैविहीनः / सदा नाथ याचे तवाऽध्येकसेवां, स्तुवे त्वामहं श्रीगुरुं नेमिसूरिम् ||7|| अथ प्रेमतो बोधदाता न को मे, न वा नाथ मां कोऽपि संरक्षिताऽरे / दयालो ! त्वया दास एषोऽनुकम्प्यः, सदा स्वर्गतो देहि नाथाऽऽशिषो मे // 8 // आचार्यश्रीविजयनन्दनसूरिः (स्तुतिरियं शासनसम्राजां स्वर्गमनानन्तरं तेषां पार्थिवदेहस्य पुरतस्तस्मिन्नेव दिनेऽनवरतं रुदता श्रीविजयनन्दनसरिणा विरचिताऽऽसीत् // ) Www.je all