________________
महाप्रयाणम् आश्विनकृष्णामावास्यादिनमागतम् । स्वास्थ्यं तु नितरां प्रतिकूलमेवाऽऽसीत् पूज्यस्य । आप्रात उक्तवानासीत् पूज्यो यद् - 'अद्य जलं विहाय नाऽन्यत् किमप्याहारादिकं ग्रहीष्यामि' इति । समग्रोऽपि सङ्घ उपस्थित आसीत् । चिकित्सका अपि यथासमयमागत्य निरीक्षणं कुर्वन्त आसन । अद्य शरीरे ज्वरोऽप्यासीत । ततश्च शरीरमशक्तं जातमासीत । असौख्यमप्यनभवन्नासीत पूज्यः । तथाऽपि - वदनं प्रसादसदनमिव मुखेऽपूर्वा काचिच्छान्तिर्विलसन्त्यासीत् । मृत्योः स्वागतार्थं सज्ज इव पूज्य आसीत् । अनेकशतजनाः पूज्यस्य दर्शनार्थमागता आसन् । सर्वेषां मनांस्युद्विग्नान्यासन् ।
पञ्चवादनसमयो जातः । सर्वाऽप्यावश्यकक्रिया पूज्येन कृता । सर्वेभ्यश्च क्षमायाचनं कृत्वाऽऽत्मभावे लीनो जातः । जनाः 'नमो अरिहंताणं' 'चत्तारि सरणं पवज्जामि' इत्यादीनि मङ्गलवचनान्युच्चारयन्त आसन् । तच्छ्रवणस्याऽऽह्लादः पूज्यस्य मुखारविन्दे दृश्यमान आसीत् ।
सायं सप्तवादनसमये च पूज्यः स्वकीयामिहलोकयात्रां समाप्य स्वर्गं प्राप्तवान् । नूतनवर्षस्य प्रभाते एव पूज्यस्याऽन्तिमसंस्कारः सम्पन्नो जातः । यत्र पूज्यः स्वर्गं गतस्तत्र कुलिकामेकां निर्माप्य तस्यां पूज्यस्य पादुका स्थापिता जाता । यत्र पूज्यो जातस्तत्रैव विलयं प्राप्तः । अन्तिमसंस्कारभूमावपि जिनालयो निर्मितः ।
महापुरुषाणां जन्म जीवनं मरणं चेत्यादि सर्वमपि विशिष्टमेव भवति ।
चित्रमयो विजयनेमिसूरिः | १४५ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org