________________
मान्यवराः
नन्दनवनकल्पतरोः १९ तमेऽङ्के प्रकाशितः विदुषः श्रीमतः एच्. वि. नागराजरावमहोदयस्य "संस्कृतिः संस्कृताश्रिता किम्" इतिशीर्षक: प्रस्तावः विचारप्रचोदकोऽस्ति ।।
___ संस्कृतशब्दस्य अर्थद्वये प्रयोगो दृश्यते । संस्कृतं नाम दैवी वाक्-इत्यादिस्थलेषु पाणिन्यादिभिराचार्यैः व्याकरणानुशासनेन सम्यक् कृतम् इत्येकोऽर्थः । संस्कारैः संस्कृतः पूर्वैःइत्यादिषु तु स्थलेषु गुणाधायकक्रियाविशेषैः प्रगुणीकृतो द्रव्यविशेषः इत्यपरः । (जैनशासनेषु शब्दस्य द्रव्यत्वमङ्गीकृतमित्यन्यदेतत् ।) संस्कृति-संस्कार-शब्दौ परस्परमेकोऽन्यस्य पर्यायौ । संस्कारो नाम दोषापनयनपूर्वकं गुणाधानम् । अतिशयविशेषाधानमित्यर्थः । अतिशयस्तु तत्र तत्र पृथग्विधः ।
"पञ्चविंशतिसंस्कारैः संस्कृता ये द्विजातयः । ते पवित्राश्च योग्याश्च ........ || अतः परं द्विजातीनां संस्कृतिनियतोच्यते । संस्काररहिता ये तु ............. || आश्वलायनः । "संस्कारैः संस्कृतः पूर्वैरुत्तरैरपि संस्कृतः ।" मनुः ? "कार्यः शरीरसंस्कारः पावनः प्रेत्य चेह च ।" मनुः
"पावनः पापक्षयहेतु । प्रेत्य परलोके । संस्कृतस्य यागादिफलसम्बन्धात् । इहलोके च वेदाध्ययनाद्यधिकारात् । कुल्लूकभट्टः ।।
संस्कृतिः संस्कृताश्रिता इत्यत्र शिक्षण-प्रशिक्षणैः वृद्धव्यवहारैः लोकव्यवहारानुसन्धानादिभिः सुभगकृतः सु-शीलगुणाचारयुक्तः यः तस्मिन् सभ्यताऽपरपर्यायः सुरुचिपूर्णः विनययुक्तः लोकावर्जकः सदाचरः सन्निधत्ते -इत्येवंरूपोऽर्थः स्यात् ।
संस्कृतिः संस्कृतवाङ्मये निहितास्तीत्यभिमानोऽस्तु नाम । परं संस्कृतानभिज्ञेषु संस्कृतिर्नास्तीति तु वक्तुमसाम्प्रतम् । शिक्षारूपसंस्कारेण तेजितः सम्यग् व्यवहरति सदाचरति । तदेवोक्तं - संस्कृतिः संस्कृताश्रिता इति । शिक्षैव संस्कारः । सुशिक्षिता एव संस्कृताः । अतः संस्कृतानभिज्ञाः देशीयाः विदेशीया: वा सुशिक्षिताः शीलगुणसदाचारयुक्ताः संस्कृता एवेति सर्वथा तेषु संस्कृतिः सभ्यता निहितैव ।
यत्तु अशिक्षितेषु ग्रामीणेष्वपि केषुचित् जनेषु क्वचित् संस्कृतिः लक्ष्यते इति तदपि लोकतः वृद्धव्यवहारादिभिः आहितसंस्कारस्यैव प्रभावः इति वक्तुं युज्यते । अतः सुष्ठुक्तं संस्कृतिः संस्कृताश्रिता शिक्षिताश्रिता इति ।
यलापुर कृष्ण शर्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org