SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ वाचकानां प्रतिभाव: प्रतिस्पन्दः नवनन्दनकल्पतरो ! भवतारणदक्ष गुरो !! भव मे हृदि हर्षकरो, जय दुर्गुणवारिमरो ! ।। कुरुतां जनता बहुसुकृतं यदि वा दुरितं मतिविहतम् । कुरुतां महितां हितसुहितां महतां हृदयं ननु सदयम् ।। संस्कृते प्राकृते साहिती वर्धयन् सर्वदा सर्वदो भारती हर्षयन् । हासयन् वाचकान् कल्पवृक्षोऽधुना राजतामाश्रितो राजतां नन्दने ।। एच. वि. नागराजराव् ९० नवम उपमार्ग, नविलुमार्गः, कुवेम्पुनगरम्, मैसूरु ५७००२३ पूज्यवर्याः ! सादरं नैकाः प्रणतयः । ऊनविंशशाखायां मुनिधर्मकीर्तिविजयप्रणीता 'न्याय्यात् पथः प्रविचलन्ति पदं न धीराः' इति कथा साश्रुनयनं पुनः पुनः पठिता । पठता चाऽनुभूतं यदेषा घटना चित्रवत् प्रचलन्त्यस्तीति । अत्यन्तं हृदयद्राविणी कथैषा । अस्मिन् युगे देवभाषारक्षणाय क्रियमाणा भवतां प्रयत्नाः सुश्लाघनीयाः । तदर्थं लेखितुं वक्तुं वा शब्दा एव न विद्यन्ते । विदुषामनुचरः डॉ. राजेन्द्र जोषी लोहारदा (जि. देवास) म.प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy