________________
स्वतन्त्रतया कृता प्रथमा चतुर्मासी
साहि चतुर्मासी तत्रैव पादलिप्तपुरे व्यतीता । पश्चाच्च पूज्यदानविजयमहाराजस्य पुरतः श्रीरैवताचलतीर्थयात्रार्थं समुत्पन्नं स्वकीयाभिलाषं पूज्यो व्यक्तीकृतवान् । तस्य चाऽनुज्ञां समवाप्य मुनिप्रधानविजयद्वितीयः स विहारयात्रां प्रारब्धवान् । शनैः शनैश्च विभिन्नेषु ग्रामनगरादिषु विहरन् सन् गिरनारतीर्थं प्राप्तवान् । तत्र च यात्रां कृत्वा विहरन् क्रमशो जामनगरं प्राप्तवान् ।
तत्र हि पूज्यस्य वैदुष्य-वक्तृत्वकौशल - निर्मलचारित्रादिगुणसम्भारेण प्रभावितः श्रीसङ्घश्चतुर्मास्यर्थे विज्ञप्तवान् । पूज्योऽपि द्रव्य - क्षेत्र - काल - भावादिकं सानुकूलं विज्ञाय स्वसम्मतिं दत्तवान् । एवं च सा तस्य प्रथमा स्वतन्त्रा चतुर्मासी जाता । तत्र च पूज्यस्य सदुपदेशात् कार्यद्वयं जातं, यच्च भविष्यति काले जायमानानां शासनोन्नतिकार्याणां मङ्गलाचरणमिवाऽऽसीत् ।
प्रथमं तावद् जामनगरे 'नवलखा' कुटुम्बं ख्यातमासीत् । तत्कुटुम्बस्य डाह्यालालाभिध एक: श्रावकः पूज्यस्योपदेशात् संसाराद् विरक्तो जातः । स च साधुजीवनमङ्गीकर्तुमुत्सुको दृढप्रतिज्ञश्च जातः । किन्तु तस्याऽग्रज एतदर्थं स्वविरोधं प्रकटितवान् - 'ओह् ! व्यसनासक्तस्य तव साधुत्वग्रहणं कथं शक्यं रे ? नैतदर्थमनुज्ञास्येऽहम्' इति । परं डाह्यालालोऽपि स्वप्रतिज्ञायामतिदृढ आसीत् । उभावापि भ्रातरौ स्वस्वनिर्णये निश्चलावास्ताम् । अग्रजस्तु न्यायालयेऽभियोगं प्रवेशितवान् । किन्त्वेवं कृते समाजे कुटुम्बस्य प्रतिष्ठाया हानिर्भविष्यतीति मन्वानाः समाजस्य बुधजनास्तं बोधितवन्तः । पश्चाच्च समहोत्सवं तस्य दीक्षा सम्पन्ना जाता । 'मुनिश्रीसुमतिविजय' इति नाम स्थापितं जातम् । स हि पूज्यस्य प्रथमः शिष्यो जातः ।
१.
द्वितीयं कार्यमासीत् श्रीशत्रुञ्जयतीर्थस्य पदयात्रासङ्घः । श्रेष्ठिवर्य श्रीसौभाग्यचन्दः पूज्यस्य सान्निध्ये यात्रासङ्घमायोजितवान् । अस्यां च सङ्घयात्रायां षण्णियमाः पालनीया भवन्ति पद्भयामेव गमनम्, २. एकश एव भोजनम्, ३. अचित्तमेव भोक्तव्यम्, ४. भूमावेव शयनं, न पल्यङ्के, ५. उभयसन्ध्यायामावश्यकक्रियाकरणम्, ६. ब्रह्मचर्यपालनमिति । पूज्यस्य सान्निध्ये आयोजित एष प्रथम एव यात्रासङ्घ आसीत् ।
Jain Education International
For Private & Personal Use Only
-
चित्रमयो विजयनेमिसूरिः | ९९
www.jainelibrary.org