________________
दण्डकच्छन्दोमयी गुरुस्तुतिः । पण्डितः जगदीश-झा-मैथिलः
जयति मुनिवरो महीमण्डले मण्डनो भारते चाडम्बरे द्योतनस्तेजसांराशिरासीत् स्वतेजश्चयैः सत्कदम्बादितीर्थोद्धृतौ पेशलो जैनधर्मोद्धुरो निर्भरो धर्मकृत्ये रतोऽनारतं प्राणिसावने बद्धकक्षः सदा दीनकारुण्यकल्पद्रुमः सज्जनः साधुसङ्के समानो महाबन्धुरो बन्धुवर्णोद्धरो विश्वविख्यातकीर्तिः कृतार्थोऽखिले शासने सर्वदा स्वीयततोऽमलान्तस्तलः कोविदस्तत्त्वविज्ञानपाथोनिधिः शेवधिः सद्विवेकावलेः प्राप्तशिष्यावलीचीर्णसद्वन्दनो नैकजैनागमश्रद्धसच्छ्रावकैः सेवितांहिद्वयो धर्मविस्तारकः सारसङ्ग्राहिचित्तो मरालो यथा नीर-दुग्धद्वयात् क्षीरपाणोद्यतो दुःखिदुःखावलीशान्ति-सन्तानको भीमसंसारकान्तारसंभ्रामिणां मार्गदेशी पर: कुत्सिताचारसक्तात्मनामम्भसा चारुचर्यासु शिक्षाव्रतः सुन्दरः सर्वदा सौम्यचित्तः सुधीः प्रेमपीयूषपाः पापवून्दापनोदादरो बन्धुरो निन्द्यकविली-दूरगोऽनारतं स्वार्थचिन्ता सदा त्यागचीर्णोद्यमोऽन्योपकारव्रतन्यस्तचित्तः सदा नेमिसूरीश्वरः सर्वलोकप्रियः प्रातरुत्थाय कल्याणकामैः सदा चिन्तनीयो मुदा निश्चलेनाऽऽत्मना बाल्यतो ब्रह्मचर्यव्रताराधकः साधकः सर्वजीवेषु साम्यव्रतस्याऽनिशं योगियोगीश्वरस्तेजसा भास्कर: प्रोच्चगाम्भीर्यतोऽसौ महासागरः॥
४८ | शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org