SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ समर्पणम् पण्डितशशिनाथ-झा-मैथिल: (शार्दूलविक्रीडितम्) येषां बुद्धिरुपेत्य मुक्तिविषयं वृद्धिं गता गौरवान्नानन्दं तत एव याति कमलावासे विमुक्तादरा । गम्भीरागमयोगतोऽतिविमलामासेवमाना परां सूरिप्रौढिमनर्गलां भुवि चिरं ते सन्तु सूरीश्वराः ॥१॥ येषां दर्शनतोऽपि भव्यजनता भाग्योदयं मन्यते, सौख्यं नन्दनगं परं सुमतितो विज्ञानजं भाषते । सिद्धिं त्वष्टविधां सपद्मनिलयां नाडतो वरामीहते, ते कल्पान्तमवन्तु धर्मकुसुमां विश्वम्भरां सूरयः ॥२॥ येषां वागमृतं निपीय विबुधा वीतस्पृहा जानते, विषयषु भक्तिसुलभं रूपं परं तद्धितम । गीर्वाणोक्तिसुमावली यदुदितां कस्तूरसा नेहते ते धन्या मितजीवतत्त्वनिचयाः सूरीश्वरा वाग्मिनः ॥३॥ येषां नो कमला धनार्थिमहिता मानं गता मानिता सोमाद्यैरपि या सुमित्रपदवीं नीता सुभद्राशया । ते वाचस्पतितो वरा नृतिकलाः सल्लभा आगमे सद्वीरोक्ति प्रकाशनासमसमुद्योता बुधाग्रेसराः ॥४॥ , येषां पादरजो नरेन्द्रमुकुटे यात्युन्नतिं मौक्तिकात्, रामाराममुखाऽपि कामघटना प्राप्ता न यन्मानसम् । ते वीरोक्तिविबोधिसम्पदतुला स्थैर्ये सुमेरुपमा नीत्या श्रीभरतावनौ कलिघटां भीष्मां जयन्तून्नता: ॥५॥ नेतस्तान् मितवानिधीन् प्रति मया सूक्त्याऽल्पया योग्यया रीत्या योजितया शमादिफलिका सम्मानतो योद्गता । स्पष्टाभासतया मितार्थविधुरा साऽन्योक्तिसूक्तावली सन्नाम्ना प्रथिता सकर्णनिवहैराकल्पमस्त्वादृता ॥६॥ *स्वयंरचितस्य अन्योक्तिसूक्तावलीग्रन्थस्य समर्पणं पण्डितवर्येण पूज्याचार्यश्रीनेमिसूरिभगवते कृतमस्ति । इयं तत्रस्थैव स्तुतिः ॥ समर्पणम् ४७ Jain Education International For Private & Personal Use Only saw.jahmedia.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy