SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ।। श्रीसूरिस्तवशतकम् ।। आचार्यश्रीविजयनन्दनसूरिः प्रणम्य स्तम्भनाधीशं, स्तम्भतीर्थावतंसकम् । श्रीपाश्र्वं सर्वसिद्धीनां, समागत्येक्साधनम् શી प्रणम्य श्रीमहावीरं, गणभृगौतमं प्रभुम् । त्रैलोक्यवन्दनीयांश्च, लोकेषु सर्वयोगिनः રો धन्यानां भव्यजीवाना-मवतंसन्त्यहर्निशम् । जगदुद्धारणैकस्य, यस्य पादनवार्चिषः जातिर्यस्योत्तमा लोके, कुलं सर्वजनाधिकम् । जगद्विभूषणं रूपं, वीर्यं भुवनविश्रुतम् ૪ श्रुतं पूर्वभवाभ्यस्तं, विस्फुरत्यधिकं सदा ।। यस्यैश्वर्यं समैश्वर्यं, सौभाग्यं जगदद्भुतम् રોક तं सर्वोत्कृष्टसद्वीर्य, सद्गुरुं शिवदायकम् । दर्शनज्ञानचारित्र-समृद्ध्युत्कर्षशालिनम् संयमश्रेणिमध्यस्थं, योगसाम्राज्यशोभिनम् । आचार्य नेमिसूरीशं, भक्त्या स्तवीम्युदारया ॥७॥ जल्पन गुणानसद्भूता-नन्यं स्तौति जनं जनः । सतोऽपि तांस्तु ते वक्तु-मक्षमोऽहं कथं स्तुवे ॥८॥ बुधैरप्यपरिज्ञेय-गुणं त्वां स्तोतुमीश्वरः । कः स्यात् तथाऽप्यहं स्तौमि, व्युल्लसद्बालचापलः ॥॥ किञ्चाऽज्ञतामवज्ञाय, निजस्य त्वां स्तवीम्यहम् । यन्मां वाचालयत्येषा, त्वयि भक्तिरवारणा ॥१०॥ नाऽयुक्तत्वं गमिष्यामि, स्तुवंस्त्वामल्पधीरपि । अव्यक्ता अपि बालानां, युक्ता एव गुरौ गिरः ॥११॥ तवाऽनुभाव एवाऽयं, समस्तोऽपि सुनिश्चितम् । तव प्रसादविख्याताः, के वयं प्रमार्थतः કરી दृष्टमात्रैश्च त्वत्पादै-जन्मान्तरकृतान्यपि । म्लायन्त्येनांसि पद्मानि, तरसेन्दुकरैरिव ને રૂપી ॥ श्रीसूरिस्तवशतकम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy