________________
शासन सम्राट श्रीविजयनेमि सुरिस्तवनानि
गुरुस्तुति: आचार्यश्रीविजयनन्दनसूरिः
अचिन्त्यचिन्तामणिकल्पशाखिने, विशुद्धसद्ब्रह्मसमाधिशालिने । दयार्णवायाऽर्थितदायिने सतां, नमो नमः श्रीगुरुनेमिसूरये
२
जगद्गुरूणां गुरवे महस्विने, महाशयायाऽऽगमतत्त्ववेदिने । परोपकाराय शरीरधारिणे, नमो नमः श्रीगुरुनेमिसूरये अपीरितं स्वप्नदशासमुद्भवं, प्रसादपुण्येन यदीयदर्शनम् । तनोति नॄणामविगीतसम्पदो, नमो नमः श्रीगुरुनेमिसूरये क्षमैक सन्मार्गविभासनक्षमाः, सुवर्णरम्याः स्फुरदर्थभासिनीः । तमः शमा गा दधतेंऽशुमालिने, नमो नमः श्रीगुरुनेमिसूरये प्रभावभूत् सिद्धिनिधानमद्भुतं पुरा प्रवृत्तं भरताद्यचक्रिणः । कदम्बतीर्थं पुनरुद्धृतं यतो, नमो नमः श्रीगुरुनेमिसूरये
अनेकभूपैश्च निषेविताङ्घये, गृहीतजीवाभयदानवर्त्मने । सदैव दीनोद्धरणैकचेतसे, नमो नमः श्रीगुरुनेमिसूरये
कृतापराधेऽपि च मादृशे जने, दयार्द्रचित्ताय हितैषिणेऽन्वहम् । प्रमोदमैत्रीकरुणात्मदृष्टये, नमो नमः श्रीगुरुनेमिसूरये
सुलक्षणामार्तमनोमनोहरां, प्रसादनीमाकृतिमेव बिभ्रते । अशेषसौभाग्यगुणश्रियाऽऽश्रितां, नमो नमः श्रीगुरुनेमिसूरये
गुरुस्तुतेरष्टकमात्मने हितं, गुरोः शुभाशीर्वचनानुभावतः । प्रभातकाले पठतां सतामिदं तनोतु सिद्धिं सुधियं च सम्पदः
शासनसम्राड्-विशेष:
Jain Education International
For Private & Personal Use Only
n
સો
ોકો
॥५॥
En
॥७॥
॥८॥
un
www.jainelibrary.org