________________
ऋषभदेव-प्रार्थनम्
मुनिकल्याणकीर्तिविजयः
(रागः वैष्णवजन तो तेने रे कहीए......) ऋषभजिनेश्वर ! तव पदकमले, मम चित्तं मधुकरतु रे त्वद्गुणकुसुममरन्दरसानां, पानोत्सवमाचरतु रे.....
तरूं लतेव त्वां गुणगेहं, सुकृतास्पदमाश्रयतु रे विषयभुजङ्गमपाशविनाशे, शिखिलीलामनुहरतु रे.....
४.....
कमलं दिनकरमिव गुणभास्कर !, त्वां दृष्ट्वा प्रविकसतु रे कुमुदनिभं ननु चन्द्रविकाशे, प्रह्लादनमनुभवतु रे...... त्वया विना स्वामिन् ! जलमध्ये, मीनसदृशमिह ताम्यतु रे त्वां दृष्ट्वा जलधरमिव केकी, हर्षभरैर्बत गर्जतु रे..... हृदयनिविष्टे जिन ! सिंहे त्वयि, दोषेभैर्नहि बिभ्यतु रे त्वन्नामामृतपानैः पुष्टं, कर्ममल्लमाह्वयतु रे..... त्वद्ध्याने मग्नं गतराग !, सुख-दुःखे विस्मरतु रे विहितसमस्तभुवनकल्याण !, त्वयि नित्यं समरसतु रे....
६.....
'ऋषभदेव-प्रार्थनम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org