________________
तथा नयने निमील्य, विमलाचलेश्वरे जिनवरे मनः सन्निधाय, सद्ध्यानलीनमानसाः श्रीनेमिसूरीश्वराः, चन्दनतिलकितभालं, कण्ठावलिमालं, वरवृष, वृषभवरसेवितचरणं चरणसरोजरजःपुञ्जपावितनम्रामरेन्द्रमुकुटमणिगणं, भुवनजनमनोगहनमवगाहमानमिव समवसरणमध्यमध्यासीनं, रत्नप्रकरप्रभावभासमानासमानकाञ्चनसिंहासनमासीनं, जनाभिनन्दनं नाभिनन्दनं निजमनोमुकुटे सङ्क्रामन्तमिव ध्यायन्ति स्म ।
इत्थं च दर्शन-वन्दन-पूजन-ध्यानेन स्वात्मानं कृतकृत्यं कृतवान् सुकृतिसन्ततिशेखरः स सुमहान् सङ्घः । यथा हि
'धन्योऽस्मि कृतकृत्योऽस्मि पुण्योऽस्मि यत्पुनः पुनः ।
तवैव वदनं दृष्टं ध्यातस्त्वं गुणसागरः ॥२५॥ एवं तीर्थयात्रोत्तीर्णभवार्णवः स सङ्घोऽनघोऽभवत् ।
श्रीनेमिसूरीश्वराणां निजशिष्यौघज्ञानार्जन-चारित्रपालनस्य योगक्षेमावहानां ज्ञानदानेऽपूर्वप्रयासेन, विजयदर्शनोदय-नन्दन-विज्ञान-पद्मा-ऽमृत-लावण्य-कस्तूरसूरिप्रमुख्या मनीषिमूर्धन्याः शिष्याः प्रशिष्याश्च गुरुकुलवासनिष्ठाप्रतिष्ठा प्राप्तवन्तः । सर्वेऽपि च ते विविधे साहित्यविभागे लब्धप्रतिष्ठाः समजायन्त ।
___ मरुधरस्थफलोधिनगरवास्तव्यः श्रीसम्पत्लालः कोचरो गूर्जरदेशमण्डनपेथापुरनगरे विराजमानयोगनिष्ठश्रीबुद्धिसागरसूरिवराख्यात-संसूचिताष्टमतपआराधनाबलावलब्ध'जङ्गमयुगप्रधानत्व'प्रमाणः, वैक्रमे भूमि-वसु-निधि-वसुंधा वर्षे नूतनवर्षदिने पूज्यं श्रीमन्तं नेमिसूरीश्वरमवन्दत। महाप्रयाणम्...
जङ्गमयुगप्रधानाः समर्थानुशासितारोऽनेकतीर्थोद्धारकारकाः शासनसम्राजः सूरिचक्र चक्रवर्तिनः श्रीविजयनेमिसूरीश्वराः वैक्रमे शर-नंभो-नंभो-नयनवर्षे श्रीसङ्घस्याऽत्याग्रहवशतो निजजन्मनगरीमधुमत्यां चातुर्मास्यमतिवाहयितुमागताः । तच्चाऽन्तिमं तेषां चातुर्मासमभवत् । तदा चाऽनेकेऽशुभसूचका उत्पाता अभवन् । यथा(१) पर्युषणपर्वणि श्रावणमासस्याऽमावस्यादिने दिनेश्वरेऽस्ताचलं गन्तुकामे जातं तत्परित
स्तेजोवर्तुलम् । (२) पर्युषणपन्तिमे दिने सांवत्सरिकप्रतिक्रमणारम्भात् पूर्वमेव वटविटपिन एका महती
शाखाऽकस्मादेव त्रुटिता, सनिर्घोषं च धरातले पतिता । (३) भाद्रपदामावास्याया रजन्यां नववादनसमये स्रस्तो नभस्त एकस्तारकः सञ्जाता च तेजो
रेखा। स च निर्घात इति कस्याऽपि महापुरुषस्य वियोगं सूचयति स्म । (४) स्वास्थ्ये विकलीभूते पूज्येन नन्दनसूरिः किञ्चित् कथितः । तथा दीपावलीदिने, समग्रे सङ्के
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org