SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ समुपस्थिते, प्रतिक्रमणादिकावश्यके सवेलं कारिते, समाधिसुधासमालीनाः वदनविभाव्यमानप्रशमभावाः क्षमापनादानविधानानन्तरं मृत्यु समाह्वयन्त इवाऽऽत्मानं पश्यन्त इवाऽऽत्मभावे संलीनाः, सायन्तने सप्तवादनसमये पूज्या अक्षरपदमाप्तुमिव क्षरं शरीरं त्यक्तवन्तः । नूतनवर्षवासरे सर्वेऽपि 'दादा' श्रीनेमिसूरिवरान्तिमदर्शनोत्सुकाः सङ्गताः । शिष्यगणैर्महापारिष्ठापनिकायां कृतायां पूज्यश्रीणां वपुश्चन्दनेन चर्चयित्वा, शिबिकामारोप्य, चन्दनदारुमय्यां चितायां पावकसात् कृतं, निजं च चेतः शोकसात् । तत्रैव पूज्यश्रीणां स्मरणयात्राकृते चरणपादुके संस्थापिते । अद्याऽपि ते चरणपादुके सूरिवरप्रभावं द्योतयन्त्यौ मधुमती नगरी तीर्थयतः । जीयात् श्रीनेमिराचार्य आऽर्कशशि समाः शुभाः । यदाचार्यपदाब्दात्तु शतं यातं शुभं शुभम् ॥२६।। २०३/बी, ओकता ओवन्यु, बेरेज रोड, वासणा, अमदावाद. शासनसम्राट्..... एकं लघुकवनम् । ६९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy