________________
जन्मभूमौ चतुर्मासी वि.सं. १९५१ तमवर्षे श्रीसङ्घस्य मातापित्रोश्चाऽऽग्रहेण पूज्यः स्वजन्मभूमौ श्रीमहुवानगरे चतुर्मासी यापितवान् । पूज्यस्य प्रौढज्ञानेन प्रभावकवक्तृत्वेन कठोरचारित्रचर्यया च समस्तोऽपि सङ्घो विशेषेण च मातापितरावत्यन्तं प्रमुदिता जाताः । तयोर्हदये आनन्दकल्लोलैः कल्लोलिते जाते। अपि च कथं न स्यादेवम् ? तयोः स्ववल्लभोऽद्य सर्ववल्लभो जात आसीत् । कुलस्य गौरवमपि वर्धितमासीद् भगवन्महावीरस्य शासनमपि चोद्योतितमासीदनेन । तौ चाऽद्य धन्यतामनुभवन्तावास्तां जीवनस्य च सार्थक्यं साफल्यं चाऽप्यनुभवतः स्म ।
तत्राऽपि हि पूज्यस्य सदुपदेशात् 'श्रीवृद्धिचन्द्रजी संस्कृत पाठशाला' स्थापिता जाता। एवं नामकरणं कृत्वा स्वगुरुभगवतो नामाऽपि चिरञ्जीवि कृतम् । चतुर्मास्यनन्तरमेको गृहस्थः संसारं त्यक्त्या पूज्यस्य शिष्यत्वं स्वीकृतवान् । तस्य च 'मुनिसौभाग्यविजय' इत्यभिधानं पूज्येन विहितम् ।
चित्रमयो विजयनेमिसूरिः | १०१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org