SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ शरदिन्दोरमन्दकौमुद्यामिन्दुमणिसंस्थापनमिव । वैक्रमे सिन्धु-सिन्धुर-शेवधि-विधु वर्षे पूज्य श्रीनेमिविजयानां पावननिश्रायां, स्तम्भनकपार्श्वदेवस्य नीलरत्नमय्या अप्रतिमप्रतिमायाः पुनः प्रतिष्ठा विहिता महता समुल्लासितमहेन श्रीसद्धेन । इदमपि पद्मोपरि परिमलबहलवर्षणमिव । विक्रमस्य ग्रह-शरै-निधानं-धरी-वत्सरे भावनगरमध्ये पूज्यपादपन्न्यासप्रवराणां गम्भीरविजयानां निश्रायां नेमिविजयेन व्याख्याप्रज्ञप्त्या योगोद्वहने विहिते पूज्या गम्भीरविजयाः वलभीपुरे विक्रमादित्यवत्सरे गगन-दर्शन-निधान-निशेने मिते, महामनसे मुनिवरनेमिविजयाय कार्तिककृष्णसप्तमीदिने गणिपदं, तथा मृगशीर्षशुक्लतृतीयादिने पन्न्यासपदं प्रदत्तवन्तः । तस्मिन्नेव वर्षे राजनगरे पन्न्यासप्रवराः श्रीनेमिविजयाः, मुनिमानन्दसागरं, निजगुरुबन्धुं मुनिप्रेमविजयं, निजविनेयं सुमतिविजयं चेति त्रीन् मुनिवरान् पन्न्यासपदेऽस्थापयन् । ___ इदं तदा दीपेन दीपानां प्रदीपनमिव । तीर्थाशातनानिवारणम् पालीताणा-ठक्कुरः श्रीमानसिंहः, श्रीमानेन सिंहमिवाऽऽत्मानं मन्यमानः, शत्रुञ्जयगिरिवरे मूलचैत्ये उपानहाऽमुक्तपादं सञ्चरन्, धूमपानं च कुर्वन्नाशातनां विधाय श्रावकाणां मनो दूनयति स्म । तं मानसिंहं न्यायालये समानीय मध्येसभं तर्कप्रगल्भवाचा पराजित्य, गर्वं सर्वं निराकृत्य श्रीनेमिविजयपन्न्यासप्रवरेण तीर्थस्याऽऽशातना निवारिता । एवं च भवाब्धिपरकूलं शिवसौख्यवरमूलं विमलाचलं महातीर्थं पुनरपि विमलं व्यधत्त । एवं तु तीर्थरक्षा कृता येन स्वात्मरक्षा कृता भवेत् । भव्यानां सत्त्वसङ्घातो विनाशाद् रक्षितस्तथा ॥१९॥ आचार्यपदे प्रस्थापनम् (शासनसम्राट) युग-रसा-ऽङ्क-शशाङ्काङ्किते वैक्रमेऽब्दे परमपूज्या गम्भीरविजयाः पन्न्यासप्रवरं नेमिविजयं सविधि विहितयोगोद्वहनं तृतीयपरमेष्ठिपदेन मणिना मुकुटमणिमिव विभूषितवन्तः । ततश्च श्रीनेमिविजयः पन्न्यासस्तु श्रीविजयनेमिसूरिरित्याख्यया समाख्यातः । यत् समग्रतपागच्छीयमुनिगणेषु सयोगविधिमाचार्यपदमाप्तमिति तदैव 'शासनसम्राड्' इति द्वितीययाऽभिधयाऽद्वितीयतरमभिधीयत स्म सर्वैः सहषैरिति । ६४ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy