SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ सूरिसम्राजां काश्चन शासनप्रभावनाः जीवदयार्दीभूतहृदयोऽयं सूरिसम्राट् श्रीनेमिसूरिवरो मधुमतीपुरीपरिसरे धीवरैर्मत्स्यानमोचयत् । तीर्थकृतां प्रतिमानां प्राणप्रतिष्ठास्वरूपाञ्जनशलाकाः, सिद्धचकार्हन्महापूजने, मुनिवराणां च योगोद्वहनादिकाः सुविहितपरम्पराः प्रभृतयः पूज्याचार्यवर्यैः पुनरुज्जीविताः । तीर्थोद्धाराः तीर्थभक्तिभावितान्तःकरणतया सूरिसम्राजाऽनेके तीर्थोद्धारा कारिताः । किन्तु तेषु कदम्बगिरितीर्थोद्धारस्तु सुमहान् । तेनाऽऽचार्यवर्येण कदम्बगिरितीर्थं त्रिः पुनरुद्धृतम् । प्रथम तावत् 'कामलीयान् ठक्कुरान्' प्रतिबोध्य, मृगया-मद्यपान-मांसाहारं प्रत्याज्य, तेभ्योऽपि समूल्यदानमात्रेषु भूमिपटेषु जिनालयनिर्माणविधानमारब्धम् । द्वितीयं तु कदम्बगिरितलहट्टिकायां 'बोदाना'भिधाने नेसे(घोषे) 'तीता'नामकौलिको यत् स्वप्नं दृष्टवान्, तदनुसारस्तत्रैव धरायां साकारतां समानीते नूतने जिनायतने महामहसहितं सर्वहितं वर्धमानमानं वर्धमानं जिनं प्रत्यस्थापयच्च वैक्रमे ग्रहोऽष्ट-निधान-कलाधरवत्सरे । तृतीयवारं तु कदम्बगिरिशिखरे सम्पूर्णतामाकलितेषु कलिकाले फलितभाविकमनःफलितेषु जिनवरायतनेषु, समागतासु परितो ग्रामनगरादितः प्रतिमानां पञ्चशतीषु, जलनिधि-निधि-निधि-विधु-सङ्ख्ये विक्रमवर्षे, प्रतिष्ठामहः प्रारब्धः । ... किन्तु तदा प्रवर्तमानं महोत्सवे श्रीनेमिनाथस्वामिनिकेतनात् काष्ठमयात् समुत्थितः सधूमो धूमध्वजः, तदानीं श्रीनन्दनसूरिनाम्ना निजप्रशिष्याचार्येण विधिकारकोत्तरसाधकानां साहाय्येन मन्त्रविधानेन विध्यापितः । एवं श्रीनेमिसूरीश्वरे विघ्नवारणवज्रायमाणे प्रतिष्ठामहोत्सवः सोत्साहं समपद्यत । अन्यदा मेदपाटमण्डले गढबोलग्रामे मुग्धग्राम्या मूर्तिपूजकाः श्रमणोपासकाः, सुविहितगुरुदीपे तिरोहिते, स्थापनानिक्षेपप्रतिक्षेपिना तेरापंथनाम्ना जिनप्रतिमाप्रतिष्ठापनपूजनादिपरिपन्थकेन कुपन्थेन 'किं ग्रावगौर्दुग्धं दुग्धे ?' तर्हि तथैव प्रस्तरप्रतिमाऽपि के अपि लाभ-क्षती न विदधातीति मेधाध्वंसाध्मातकुतर्कध्वान्तव्यामोहितास्ते जिनमूर्ति द्विपञ्चाशत्कीलकैरुत्कीलितां विधाय व्यराधयन् । तदा श्रद्धालूनां श्रद्धाक्षोभविक्षुब्धे सङ्के सङ्घचिन्तापाकरणकृते सूरिसम्राट् सोढ्वाऽप्यनेककष्टान् गत्वा च गढबोलग्रामे, प्रबोधविधिना जागरयित्वा तान् तत्रस्थान् श्रावकान् प्रतिमापूजाविधायकान् गुरुधर्मं नियूंढवान् प्रतिभाप्रागल्येन । शासनसम्राट्..... एकं लघुकवनम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy