SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सत्यं गुरुवो हि मार्गदेशकाः । तथा हि तत्त्वं गृणातीति गुरुर्गरीयान्, मनो वृणातीति गुरुर्वरीयान् । तमो लुनातीति गुरुः प्रदीपः, पापं धुनातीति गुरुः सुपुण्यः ॥२०॥ मरुधरेषु कापरडाख्यतीर्थे तु जिनालये एव जाटजातीया जनाश्चामुण्डदेवी-भैरवयोरग्रे मांस-मदिराभोगं कृत्वाऽनेकधाऽऽशातनं कुर्वन्ति स्म । ततस्तत्राऽऽशतननिवारणेन तत्तीर्थपुनरुद्धारदृढसङ्कल्पमाकल्प्याऽनल्पभक्तिप्रभावधृतवीर्याः सूरिवराः प्रतिष्ठामहोत्सवं व्यधापयन्। तत्राऽपि जाटजातीयानामुपद्रवं राज्यकृतरक्षाप्रबन्धेन दूरीकृत्य तीर्थोद्धारसङ्कल्पं समपूरयन् । मुण्डकाविरोधः, पुनर्यात्राप्रारम्भश्च तदा पालीताणानगरे यात्रिकेभ्यो 'मुण्डका' इति यात्राकरः प्रगृह्यमाण आसीत् । तेन पालीताणाठक्कुरमानसिंहो यात्राकरं बहुविधसाम्नाऽप्यत्यजन्न । तदा सूरिसम्राजोऽध्यक्षतायां सुविशालजनसभायां निर्णीतमेतद् हि ‘यात्रायाः करत्याजनं यावद् यात्रायास्त्याग' इति । एवं तु वर्षद्वयं यावद् यात्रा स्थगिता । ततो यात्राकृते कोऽपि न समागच्छति । करमण्डपोऽपि निर्जनः सञ्जातः । तदनन्तरमाङ्ग्लसर्वकाराधिकृतेन मध्यस्थेन 'मुण्डकाकरः समाप्तिमापितः' इति प्रोद्घोषिते पूर्ववत् तीर्थयात्रा प्रारभ्यत । एवङ्कारेण सूरिभास्करेण करान्धकारनिराकरणेन तीर्थयात्रा परमभास्वरा कारिता ।... अत: राज्यविप्लवमेकत्र यात्रा चैकत्र मुक्तिदा । धृतिं धियं समालम्ब्य येन यात्राऽकरा कृता ॥२१॥ सङ्घकरान् समाश्रित्याऽकरं तीर्थं व्यधाद् वरम् । सूरयेऽस्तु नमस्तस्मै नेमये नेमये धियाम् ॥२२॥ मुनिसम्मेलनम् ___ तदानीन्तने जैनसङ्ग्रेऽनेकविधाः समस्याः समजायन्त । तन्निराकरणाय परमपूज्याचार्यश्रीवल्लभसूरिप्रभृतियतिपतिततिः, राजनगरस्य श्रेष्ठिवर्याः श्रीकस्तूरभाई-मणिभाई, श्रीकस्तूरभाईलालभाई, श्रीप्रतापसिंह-मोहोलालप्रमुखाश्चैकत्रभूय चतुर्विधसङ्घसम्मेलनं कर्तुं निश्चितवन्तः । तत्र राजनगरे वियद्-ग्रह-निधि-विधुसङ्ख्ये वर्षे फाल्गुने शुक्लपक्षे तृतीयादिनादारभ्य चतुस्त्रिंशद्वासरावधि मुनिसम्मेलनं पूज्यपादशासनसम्राजां नेमिसूरीश्वराणामध्यक्षतापदे सफलताभाजनमभवत् । शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy