SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वैक्रमे ऋषि-युग-निधि-विधुमिते वत्सरे, राजनगरमध्ये पन्न्यासप्रवरप्रतापविजयानां करकमलेनोपस्थापनां प्राप्य, निजगुरुवर्याय॑णं चातुर्मासिकीद्वयमतीत्य, गुर्वाज्ञया पादलिप्तपुर्यां 'पञ्जाबी' इतिख्यातेन मुनिदानविजयेन संस्थापितायां 'श्रीबुद्धिसिंहजी'पाठशालायां सघनमध्ययनमध्यापनादिकं समीचीनमाञ्चकत् सफलतया, पूज्याश्च दानविजयाः प्रसन्नतां प्राप्तवन्तः । सत्यमेतद् भवितुं, यथा सतां यत्नः फलं प्राप्तो यदि सद्भिधृतिः परा । मणिरासाद्य वैशा भाति वैकटिकाद् वरात् ॥१८॥ तत्राऽध्ययनाध्यापने परितोषमाप्नुवाने श्रीमद्वद्धिचन्द्रविजया स्वर्गं गतवन्तः श्रीनेमिविजयस्य ज्ञानोपासनापरिश्रमेण सन्तुष्टा इव, निजजीवितव्यहेतुसफलतां मन्यमाना इव । तदा गुरुदेवानां देवलोकप्रयाणेन व्यथामथितोऽपि मुनिनेमिविजयः कालक्रमेण स्वस्थोऽस्थात् । प्रथमः शिष्यः जामनगरमध्ये प्रथमस्वतन्त्रचातुर्मासं विदधतः श्रीनेमिविजयस्य वैराग्यवाहिन्या वाण्या, संसारविरक्तो 'नवलखापरिवारस्य डाह्याभाई श्रावकः' संयममादाय पूज्यनेमिविजयस्य सुमतिविजयाख्यः प्रथमः शिष्योऽभवत् । विक्रमस्यैकपञ्चाशदधिके नवदशशततमेऽब्दे, निजजन्मभूमि मधुमती'नगरे चातुर्मास्यं विहितं, हितकारिणोनिजजननी-जनकयोश्चेतस्तोषितं, पोषितश्च निखिलनगरजनानां वैराग्य-भक्तिभावोऽदुष्यवैदुष्याभरणभूतयाऽद्भुतया भारत्या, निजगुरुवराभिधानमण्डिता च 'श्रीवृद्धिचन्द्रजीसंस्कृतपाठशाला' संस्थापिता । स्तम्भनकनगरे शासनप्रभावनाः स्तम्भनके पुरवरे पूज्य श्रीणां निश्रामाश्रित्य मुनिरानन्दसागरः (पू. सागरजी महाराजः) व्याकरणादिकाभ्यासं कृतवान्, तत्रैव तीर्थे चातुर्मासी स्थिताभ्यां श्रीनेमिविजयानन्दसागरभ्यां मुनिवराभ्यां प्रश्नोत्तरप्रणालीमादृत्य गणधरवादः व्याख्यातः । आनन्दसागरमुनेः प्रश्नधारा, श्रीनेमिविजयस्य च तदुत्तरधारेति धाराद्वयाभ्यां गङ्गा-यमुनाभ्यामिव समेता च सरस्वती । तदा तत् तीर्थं प्रयागत्वमादधत् सभाजनानां श्रद्धासुमतिभाजनानां नयनोत्सवं समुदपादयत् । इदं तु तदानीं सुवर्णे सौरभ्याधानमिव । ___ तदा च तत्रैव ताभ्यां श्रद्धा-मेधासमृद्धाभ्यां 'परिहार्यमीमांसा'ऽभिधपुस्तिकारूपेण प्रगल्भनैयायिकप्रौढिरूढेन प्रत्युत्तरितं जर्मनदेशवास्तव्येन 'हर्मनजेकोबी'नाम्ना विदुषा विपरीतं प्ररूपणानिरूपितं यद्- "जैनशास्त्रेषु मांसाहारोऽपि विहितः स्यात्" इति । एतदेव शासनसम्राट्..... एकं लघुकवनम् / ६३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy