________________
श्रन्थसमीक्षा
'कनीयसी' (कथासङ्ग्रहः) (समीक्षक : डा.रूपनारायणपाण्डेयः मनी का पूरा, सोराम,प्रयागः, उ.प्र.,२१२५०२) कथाकार : डा. हरिहर शर्मा अर्यालः "हरिः अरविन्दः", प्राध्यापकः श्रीरामशङ्करवेदविद्यापीठम्, कोडरा, पोपदा, कबीरनगरम् - २७२१६४(उ.प्र.) प्र.व. -२०६२ वि० । पृ. सं. ८० । मूल्यम् - ३०/- त्रिंशद्रूप्यकाणि
विपुलतरं रमणीयं कमनीयं च कथासाहित्यं सुरभारत्यां राजतेतराम्, किन्तु नूतनतरकथाशिल्पदृष्ट्या प्रणीता लघुकथाः कथाश्च वैपुल्येन न विभान्ति । साम्प्रतं डा. राजेन्द्रमिश्रडा. प्रशस्यमित्रशास्त्रि-डा. प्रकाशमित्रशास्त्रि-डा. अशोकन्-डा. केशवचन्द्रदाश-आचार्यबाबूरामअवस्थिप्रभृतिभिर्नूतनकथाभिः सुरभारतीसाहित्यस्य श्रीः संवर्ध्यते । तेषामेव परम्परायां डा. हरिहरशर्माअर्यालमहोदयेन 'कनीयसी' इति कथासङ्ग्रहः प्राणायि ।
कथासङ्ग्रहेऽस्मिन् सप्त कथाः सन्ति - कनीयसी, कुम्भस्नानस्य फलम्, अनुपमा, पूर्णा सहभोजनाशा, मायाया महिमा, एकाऽपरा सृष्टिः, लघीयसी मत्स्यकन्या ।
'कनीयसी' इति कथायां कनीयसी स्वसद्व्यवहारेण त्यागेन तपसा च सकलकुलस्य विश्वासभाजनं बभूव । 'कुम्भस्नानस्य फलम्' इति कथायां वधूपुत्राभ्यां कुम्भमेलके परित्यक्ताया ललिताया नूतनजीवितोपक्रमो वर्ण्यते । 'अनुपमायाम्' कृष्णवर्णानुपमा सुचरितैः पत्युः प्रेयसी बभूव । 'पूर्णा सहभोजनाशा' इति कथायां पत्युर्जन्मदिने तस्य मित्रस्य राजीवस्य, तज्जायायाः सख्या लतायाश्च सहभोजनाशा पूर्णतां जगाम । 'मायाया महिमा' इत्यत्र भीमः कृष्णस्य कृपया कृष्णाया महिमानं ज्ञातुं शशाक । 'एकाऽपरा सृष्टिः' इति वैज्ञानिक्यां कथायां डा.दत्तात्रेयस्य सृष्टिः तमेव हन्तुं प्रयतते । 'लघीयसी मत्स्यकन्या' इति कथायां लघीयस्या मत्स्यकन्याया रागोपेतं चरितमुपवर्ण्यते । कथेयमाङ्गलकथाया रूपान्तररूपाऽस्ति । ग्रन्थात् प्राक् श्रीरामसुभग
ओझामहाभागस्य प्रो. राजेन्द्रमिश्रादीनां च विदुषां सम्मतयः शोभन्ते । अत्र सगृहीताः कथाः विविधासु पत्रिकासु प्रायशः प्रागपि प्रकाशिता बभूवुः ।
कथासङ्ग्रहेऽस्मिन् अनुपमा-कनीयसीत्यादयः कथाश्चरित्रप्रधानाः सन्ति । विषमे परिवेशेऽपि कनीयसी कर्तव्यपथं सामाजिकं च दायित्वं न परित्यजति । ममतायाः स्खलितं
ग्रन्थसमीक्षा | १६५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org