SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ विज्ञाय यदा वरस्य पित्र्यादयो गन्तुमुद्यताः, तदा कनीयस्या वाक्पटुता श्रेयस्करी जाता। "सत्यं वदामि, त्रुटि: केनाऽपि कर्तुं शक्यते। किन्त्वात्मीयानां त्रुटिः स्खलनं कथ्यते, परेषां सैवाऽपराधः । अहं निवेदयामि, भवती पश्यतु ममताम् । किं साऽपराधिनी प्रतिभाति ? दर्शनं विनैव कस्यचिद्विषये काऽपि धारणा नोचिता।" (कनीयसी, पृ. १८)इत्थमेतासु कथासु पात्राणां चरित्रस्य मनोवैज्ञानिक विश्लेषणं सर्वत्र राजते। अनुपमा नारीचरितस्योदात्तं स्वरूपं प्राकाश्यं नयति । 'कुम्भस्नानस्य फलम्' इति कथा वर्तमानसमाजे वृद्धानां दुर्गतिं यथावत् प्रस्तूय तन्निवारणाय मार्गमपि निर्दिशति । 'लघीयसी मत्स्यकन्या' अनूदिताऽपि मार्मिकी हृदयहारिणी च विद्यते । महाभारते 'द्रौपदी त्वथ सञ्जज्ञे शचीभागादनिन्दिता । द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता।" (आदि० ६७/१५७) इति वचनाद् द्रौपदी शच्या अवतारो भवति,न तु मायायाः, किन्तु न जाने 'मायाया महिमा' इति कथायां कथं सा 'महामाया' इत्यभिहिता ? अस्य ग्रन्थस्य मुद्रणं प्रायशः त्रुटिरहितं वर्तते । ग्रन्थोऽयं सर्वैः सङ्ग्राह्यः पठनीयश्च । जयतु संस्कृतम् । १६६ शासनसम्राड्-विशेषः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy