________________
सर्वैरपि रात्रिन्दिवमवगणय्य निरन्तरं पदप्रतिष्ठाज्ञानादीनां प्राप्त्यर्थम्, अर्थाद् व्यक्तित्वं (Career) रचयितुं प्रयत्नो विधीयते किन्तु सदाचारस्य सात्त्विकतायाश्चाऽवाप्त्यर्थम्, अर्थात् चारित्र्यं (character) प्रवर्धितुं कः प्रयत्नः क्रियते ? सात्त्विकतैव चित्ते प्रवर्तमानां निषेधात्मकदृष्टिं विनाश्य श्रद्धां बलं पुण्यं च जागरयति । पूज्यपाद श्रीनेमिसूरिभगवतां जीवनगानं विचिन्त्यते तदा ज्ञायते यद्, यथैकस्यैव जनस्य पुण्यबलेन सात्त्विकतावशेन च सर्वस्मिन्नपि समाजे गृहे च शान्तिः सुखं च प्रवर्तते, उत्थानं चाऽपि भवति, अन्यजनानां पापानि दुर्बलानि भवन्ति तथैवैकस्यैव दुराचारिणः पापवशेन समाजस्य गृहस्य च पतनमपि भवति, तथा समाजे गृहे चाऽशान्तिः क्लेशः सङ्घर्षश्चाऽपि प्रवर्तन्ते ।
भ्रातर् ! एतत्कथनस्य सार एष एव यद्, एकोऽपि सात्त्विको नैष्ठिकब्रह्मचारी च जनो यत्किमपि कर्तुं शक्नोति, सर्वजनानपि च वशीकरोति । एकाकिभिरपि मम गुरुवर्यैः पूज्यपादश्रीने मिसूरिभिः सात्त्विकताया बलेन जिनशासनं सुदृढं विधाय शान्तिः प्रस्थापिता, शासनस्य शोभा प्रवर्द्धिता, लोकेषु जिनशासनस्य जैनधर्मस्य च प्रभावनं कृतम् । एकेन बुद्धिमता सज्जनेन व्याकृतम् – “पूर्वमेकाकिनैव श्रीनेमिसूरिभगवता यत्कार्यं कृतं तत्कार्यमद्य शताधिकैः सूरिभिः सम्मील्याऽपि कर्तुं न शक्यम्" । एषैवाऽञ्जलिः पूज्यपाद श्रीनेमिसूरिभगवतां सर्वोपरित्वं चरितार्थं करोति ।
अन्ते, एतस्मिन्नवसरे त्वयाऽपि निर्णयः करणीयो यद् 'अहमपि सात्त्विकजीवनं जीविष्यामि, प्रसिद्ध्यर्थं च न कदाचिदपि माया-प्रपञ्चादिकमाचरिष्यामी'ति । तव जीवनं झटिति सफलीभवेदित्याशंसे ।
१६४ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org