SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गृहीत्वा मार्गयितुं निर्गच्छेत् तर्हि कदाचिदेकं वा द्वौ वा महापुरुषौ प्राप्नुयात् । अस्मिन् क्षणे मे उपकारिणो गुरुवर्यपूज्यपादश्रीसूर्योदयसूरीश्वराः स्मृतिपथमायान्ति । तेषां जीवने एतादृशी सात्त्विकता सन्दृश्यते। ते तु परमनिरीहाः, अतो न स्वमुखात् किमपि वदन्ति ते, किन्तु बहुभ्योऽन्येभ्यः सकाशात् श्रुतं यत्-पूज्यपादप्रभावात् तेषां दर्शनमात्रेण चैव भूतपिशाचादयोऽपि पीडामवाप्य दूरत एव नश्यन्ति, इति । अन्यथाऽद्य सर्वत्र महत्त्वाकाङ्क्षा - दम्भ-प्रपञ्चादिकस्यैव साम्राज्यं प्रवर्तते, तथा विकारा एव दरीदृश्यन्ते । तत एव देशे समाजे च सर्वत्राऽहर्निशं विविधधर्मानुष्ठानानि होमयज्ञादयः प्रभुभक्तिः प्रभुपूजाश्च भवन्ति तथाऽपि न जनानां मुखे प्रसन्नता शान्तिः सौख्यं च दृश्यन्ते, न चाऽऽत्मिकोत्थानस्य दिशं प्रति रुचिरपि दृश्यते । एकदैकः साधकः पुरुषो मया पृष्टः भो ! विद्याप्राप्त्यर्थं किं कोऽपि मन्त्रः किमपि चौषधमस्ति ? तेन साधकेन कथितम् नैष्ठिकब्रह्मचर्यस्य पालनं न केवलं विद्यासिद्धीनामपि तु सर्वसिद्धीनां निदानमस्ति । तदेव मन्त्र औषधं चाऽस्ति । - - मयोक्तम् - भो ! वयं तु साधवः, अतो ब्रह्मचारिण एव स्मः । साधकेन गदितम् - महाराज ! भवतां कथनं सत्यं, किन्तु नैष्ठिकब्रह्मचर्यं नाम - केवलं दुराचारो न करणीयः, इति न; अपि तु "ब्रह्मणि चरन्ति ते ब्रह्मचारिणः " । ब्रह्मणि अर्थादात्मनि रमणमिति ब्रह्मचर्यम् । पञ्चानामपीन्द्रियाणां विषयाभिलाषं विहाय निरासक्त्या निर्ममतया च वर्तनीयम् । मनसाऽपि विजातीयव्यक्तेराकर्षणाभावो वार्तारुच्यभावश्च" इति । अन्यथा यथा गृहस्याऽग्रणीजनः पूज्यजनः कथ्यते तथैव संन्यासिवेषोऽङ्गीकृतोऽतो ब्रह्मचार्युच्यते, किन्त्वेतावन्मात्रेण लब्धिसिद्धयो नोपलभ्यन्ते । सकृद् मनसाऽपि कृतं ब्रह्मचर्यखण्डनं युष्माभिराधितानां चारित्रतपोमन्त्रादीनां च पुण्यं नाशयति । अतोऽन्यत् सर्वमपि विहाय नैष्ठिकब्रह्मचर्यपालनं करोतु भवान् । सर्वा अपि लब्धयः सिद्धयश्च भवतः स्वागतार्थं सम्मुखमागमिष्यन्तीति । Jain Education International बन्धो ! एतन्निशम्य मनसि विचारा उत्पन्नाः । अद्य सर्वतो मोहस्य विकृतेश्चैव साम्राज्यं प्रवर्तते । यावद् धर्मस्थानकेष्वपि सदाचाराणां नीतिमत्ताया गुणवत्तायाः सत्यनिष्ठायाः सात्त्विकतायाश्च ह्रासस्तथा धनस्य सत्ताया बाह्याडम्बरस्य बाह्यधर्मस्य चैवं मोहस्यैव सर्वोपरित्वं दरीदृश्यते । धर्मस्थानकानि धर्मपुरुषाश्चैव समाजस्य देशस्य चैवं समग्रविश्वस्योत्थाननिमित्तीभूता आदर्शरूपाश्च सन्ति, किन्तु यदा तेऽपि मोहलम्पटा भवेयुस्तदा समाजस्य पतनं निश्चितमस्ति । सात्त्विकतां विना समाजस्योत्थानमशक्यम् । केवलं ज्ञानेन क्रियया तपसा धनेन सत्तया च किम् ? अस्माभिः For Private & Personal Use Only पत्रम् १६३ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy