________________
'किन्तु स्फटिकवन्निर्मलं मनः, इति प्रथमोऽर्थः । एवं ब्रह्मचर्यस्य परमविशुद्धिः, मनसि विकारलेशोऽपि न, इति द्वितीयोऽर्थः ।
पूज्यपादानां चित्ते यावतीच्छा निष्ठा चाऽऽसीत् ततोऽपि विशेषतया सात्त्विकताऽऽसीत् । तत एव ते सर्वेष्वपि कार्येषु सिद्धि प्राप्नुवन्त आसन् । तदानीन्तने काले सर्वत्र तेषां पूज्यपादानां प्रभुत्वमासीत् । सर्वेऽपि सङ्घमान्यजना नगरश्रेष्ठिनस्तेषामाज्ञायां प्रवर्तन्ते स्म । अतः स्वेच्छानुरूपं यत्किमपि कर्तुं ते समर्था आसन्, तथाऽपि ते स्वकीयं स्वार्थं विहाय जिनशासनमेव केन्द्रीकृत्य सर्वमपि कार्यं कृतवन्तः । प्रसिद्ध्यर्थं कुत्रापि कदाचिदपि च तैर्मायाप्रपञ्चादिकस्याऽऽश्रयः कृत इति न श्रूयते । न च कदाचिदपि स्वक्षति गोपयितुं प्रयत्नः कृतः, तथैव च न स्वशक्ति प्रदर्शयितुमपि त्वरा कृता । अद्य तु विपरीता स्थितिविद्यते - मायाप्रपञ्चादिद्वारेणाऽहनिशं स्वक्षति स्वदोषं च पिधातुं तथा स्वदोषः स्वक्षतिश्चाऽपि गुणः शक्तिश्चाऽस्तीति स्थापयितुं प्रयत्नो विधीयते जनैः ।
यत्रैतादृशी सात्त्विकता विद्यते तत्र सर्वसिद्धयः सम्मुखमागच्छन्ति । देवा अपि स्वाधीनीभूय साहाय्यं विदधति । दुर्दैवमपि सौभाग्यं भवति । रिपवोऽपि मित्राणि भवन्ति । एवं सात्त्विकवृत्तिवान् यत् करोति, वाञ्छति, वदति, चिन्तयति च तत्सर्वमपि विना विघ्नं सिद्ध्यति । अशुभवृत्तयो दुष्टजनाश्चाऽपि तं जनं पीडयितुं न शक्नुवन्ति । यतः सात्त्विकजनानां देहात् तेजःपुञ्जो निर्गच्छति। जनस्य यावती बलिष्ठा सात्त्विकता तावती तेजःशक्तिरधिका भवति । तस्याऽऽभामण्डले न केपि दुष्टजना हिंसकप्राणिनश्च प्रवेष्टुमर्हन्ति,न च हानिमपि ते कुर्वन्ति । किन्तु सर्वेऽपि अनुकूला भवन्ति । पूज्यपादश्रीसोमप्रभसूरिभिः कथितम्
तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपांनाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद् ध्रुवम् ॥
(सूक्तिमुक्तावली-४०) एवं तन्त्र-मन्त्र-विद्या-औषधादीनां विपरीतशक्तिप्रयोगाश्चाऽपि व्यर्था भवन्ति । पूज्यपादानां जीवने एतादृशी सात्त्विकताऽऽसीत् । अत एव तन्नामस्मरणेन दर्शनमात्रेणैव च दुष्टवृत्तयो नश्यन्ति । तस्मिन् काले बहवो ज्ञानिनस्तपस्विनश्चारित्रवन्तश्च सूरीश्वरा आसन्, किन्तु तेषु सर्वेष्वपि पूज्यपादा एव सर्वोपरित्वं भजन्त आसन् । यतस्ते सरला नैष्ठिकब्रह्मचारिणश्चाऽऽसन् । अत एव ते एतादृशं महदविस्मरणीयं च कार्यमपि कर्तुं समर्था जाताः ।
बन्धो ! अद्यैतादृश्याः सरलताया दर्शनमपि सुदुर्लभमस्ति । यदि यः कश्चिद् दीपं
शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org