________________
श्रीस्तम्भनपार्श्वनाथप्रतिष्ठा श्रीस्तम्भतीर्थ-खम्भातनगरस्याऽधिष्ठाताऽस्ति श्रीस्तम्भनपार्श्वनाथभगवान् । लघ्वाकाराऽपि सा प्रतिमा तु नीलरत्नमय्यस्ति । एकदा तारापुरवास्तव्यः कश्चित् सुवर्णकारः श्राद्धवेषेण लोभाविष्टः सन् पूजनव्याजेन तत्राऽऽगतः । मध्याह्नकाल आसीत् । जनानां गमनागमनमपि तदाऽत्यल्पमासीत् । जिनालयस्याऽर्चकोऽपि कार्यव्यग्र आसीत् । एतादृशमवसरं संसाध्य स प्रतिमां चोरयित्वा शनैश्च ततः पलायितवान् । तारापुरं प्राप्य नारेश्वराख्यतडागस्य समीपवर्तिनि प्रदेशे गर्तं कृत्वा प्रतिमां निगूहितवान् । गर्तं च पुनः प्रपूर्य सङ्केताय स तदुपरि चाऽशुचिं कृतवान् । किन्तु 'अत्युग्रपुण्यपापानां फलमिहैव जायते' इति न्यायेन स यावद् गृहं प्राप्तवान् तावत् तस्य नेत्रे दृष्टिविहीने इवाऽजायताम् । असह्या च नेत्रपीडा तस्योत्पन्ना । तस्य पत्नी तं पृष्टवती - 'किमपि दृष्कृतमाचरितं त्वयेति प्रतिभाति मम । निर्हेतुकं न किमप्यनिष्टं घटते । अतो यदपि कृतं स्यात् तत् सत्यं वदतु' इति । एवं च साग्रहं पृष्टः स सर्वं स्वकृत्यं निवेदितवान् । पत्न्यपि तं तदर्थं तर्जितवती ।
अत्र च खम्भातनगरे सर्वत्र हाहारवः सञ्जातः । ‘यावदियं प्रतिमा पुनर्न प्राप्येत तावन्नाऽहमन्नपानादिकं किमपि ग्रहीष्यामि' इति प्रतिज्ञातवान् श्रीअमरचन्दः श्राद्धः । दिनद्वयं त्वेवमेव व्यतीतम् । कोऽप्युदन्तो न प्राप्तः । किन्तु सुवर्णकारेण सहाऽऽगतेन जनेन सह सुवर्णकारस्य मतभेदो जातोऽतोऽपमानितः स सर्वमपि चौर्यकृत्यमन्यसमक्षं प्रकटितवान् । सा च वार्ता प्रसरन्ती सती खम्भातनगरेऽप्यागता । श्राद्धाश्च सत्वरं तारापुरं गतवन्तः । कथमपि सुवर्णकारस्य गृहसङ्केतं प्राप्य तत्र जग्मुः । श्राद्धजनानागतान् दृष्ट्वा तस्य पत्नी सर्वमपि व्यतिकरं यथातथं वणितवती । तस्याश्च साहाय्येन जिनबिम्बं पुनः सम्प्राप्तम् ।
सहर्ष सर्वेऽपि बिम्बं पुनः स्तम्भपुरमानीतवन्तः । पूज्यपादश्च तत्रैव विराजित आसीत् । वि.सं. १९५६ तमे तस्मिन् वर्षे पूज्यस्तं बिम्बं प्रतिष्ठितवान् । एषा च पूज्येन कृता प्रथमा प्रतिष्ठाऽऽसीत् । तदनु च पूज्यस्य मार्गदर्शनानुसारेण श्रीस्तम्भनपार्श्वनाथजिनालयादीनां त्रयाणां जिनालयानां जीर्णोद्धारो निर्णीतः श्रीसद्धेन । शिखरत्रययुतो जिनालयस्तत्र निर्मापितो जातः । तत्र च वि.सं. १९८४ तमवर्षे फाल्गुनशुक्लतृतीयादिने शुभलग्ने श्रीस्तम्भनपार्श्वनाथादिजिनबिम्बानां प्रतिष्ठामहोत्सवः सञ्जातः । एतस्मिन्नवसरे चाऽञ्जनशलाकाविधानमपि संवृत्तम् ।
चित्रमयो विजयनेमिसूरिः
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org