________________
शासनसम्राजां दीर्घदर्शिता निर्भीकता च
मुनिकल्याणकीर्तिविजयः
बहुधा जना अल्पदर्शिनो भयाकुलाश्च भवन्ति । सद्यो लाभं सुखं वा वीक्ष्य तत्प्राप्त्यर्थं यथासुखं वर्तन्ते आचरन्ति च, किन्तु भाविनि काले तदाचरणं कीदृगिष्टानिष्टफलदायकं भविष्यतीति तु नैव विचारयन्ति । अतो यदा तदनिष्टफलमुद्भवति तदा तेऽन्येषामुपरि दोषारोपणं कृत्वा रुदन्ति किन्तु स्वस्यैवाऽयं दोषः पुरा कृत इति तु नैव चिन्तयन्ति स्वीकुर्वन्ति वा । अथ च कदाचिद् भाग्यवशात् तत इष्टफलं प्राप्येत तदा ते वृथाऽभिमानं वहन्तो गर्वोन्नता अटन्ति । किन्तु बहुशोऽपि नैष्फल्यं प्राप्ता अपि ते न कदाचिद् दीर्घदृष्टेर्लाभान् विचारयन्ति, प्रत्युत दीर्घदर्शिनो जनान् दीर्घसूत्रितया निन्दन्तः स्वीयप्रशंसामेव कुर्वन्तितराम् ।
एतस्याश्चाऽल्पदर्शिताया फलत्वेन ते सदाऽपि भयाकुला भवन्ति । यतः स्वीयाल्पविचारिताया अविचारिताया वा फलत्वेन सदाऽपि भयं चिन्ता वा तान् पीडयत्येव ।
किन्तु, महापुरुषा विचारशीला वा जनाः सर्वत्राऽपि कार्ये - लघौ वा महति वा तद्गुणदोषादिकं सम्यग् विचार्यैव वरीवृत्यन्ते । अथवा, एतद्रीत्या विचारणादेव ते महापुरुषा भवन्तीति तु सम्यग् विधानम् । यदपि तैः कृतं क्रियते करिष्यते वा तत्र सर्वत्र ते जागृताः सावधानाश्च भवन्ति । तस्येष्टत्वानिष्टत्वादिकं तेषां मनःपटले पूर्वमेव प्रतिफलितं भवति । अतः स्वकार्यस्य सर्वमपि फलं तेषां धारणानुसारमेव भवति । अथ च कदाचिद् दैवात् समस्या काचित् समुद्भवेद् विपरीतं फलं वाऽपि प्राप्येत तदाऽपि तेषां दुःखमुद्वेगो भयं वा न भवेत् । यतस्ते सर्वमप्येतद् विचारितपूर्विण एव भवन्ति । ततश्च तस्य निवारण एव ते प्रयत्नशीला भवन्ति न तु शोचने । तेषामीदृश्या विचारशैल्याः फलतया ते सदा निर्भीकाश्चाऽपि भवन्ति । तेषामेक एव मन्त्रो भवति यत् – तथैव वर्तितव्यं यथा न काचित् समस्योद्भवेत्, यदि च दैवात् समस्योद्भवेत्
I
१५२ शासनसम्राड् - विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org