SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ शास्त्रप्रेमिभिः साहित्यरसिकैश्चाऽन्यैर्मुनिभिरस्यां दिशि प्रशंसनीयं कार्यं कृतम् । एवं सम्यज्ज्ञानस्य सुरक्षा प्रसिद्धिश्च कृता । तदर्थं श्रीजैनतत्त्वविवेचकसभा - श्रीजैनग्रन्थप्रकाशकसभा - इत्यादीनां बह्वीनां संस्थानां निर्माणं कारितम् । अतोऽत्राऽस्य नेमिसूरीशस्य प्रतिकृतिः स्थापिता," इति । जैनसङ्घे वर्तमानसाधुसमुदाये च ' नेमिसूरीशस्तीर्थोद्धारक' इति ख्यातिः प्रवर्तते । किन्त्वेतेन पूज्येन तीर्थोद्धारेण सह ग्रन्थसर्जनं, ग्रन्थसंरक्षणं, ग्रन्थसंशोधनं चाऽपि कृतमासीत् । पूज्येन न्यायसिन्धुः सप्तभङ्गीप्रभा हेमप्रभाव्याकरणं चेत्यादयो बहवो जैनन्यायकलिता व्याकरणविषयकाश्चाऽनेके ग्रन्था रचिताः । तद्ग्रन्थपठनेनैव ज्ञायते यत्तस्य पूज्यस्य मतिनैपुण्यं काव्यशक्तिः साहित्य-छन्दोऽलङ्कारबोधो न्यायवैशारद्यं षड्दर्शनबोधो जैनदर्शनसिद्धान्तानां सूक्ष्मबोधश्च कियान् कीदृशश्चाऽऽसीदिति । वर्तमानकाले तु संशोधनविषयकाणां ग्रन्थानां सर्वाऽपि सामग्री सुलभा परिस्थितिश्चाऽपि सानुकूलाऽस्ति । तत्काले तु तादृशी सामग्री दुर्लभा परिस्थितिश्चाऽपि प्रतिकूलाऽऽसीत्। तादृशे काले पूज्येनैतेनाऽऽकरग्रन्थानां सम्पादनं सर्जनं च विधायैका नूत्ना दृष्टिरुद्धाटिता । तथाऽप्यहं 'लघुहरिभद्रो वा - लघुयशोविजयो' वेति नोद्घोषणा कृता, किन्तु 'तेषां पूज्यानां चरणरजोनिभ एवाऽस्मि' इति मन्यते स्म स सूरीशः । एवं पूज्यपादेन शासनोपयोगीनि बहूनि कार्याणि कृतानि । तेन यद्यत्कृतं तस्य कल्पनाऽप्यशक्याऽस्ति । एतेन पूज्येन कृतानि कार्याणि निरीक्ष्य मनसि विकल्पो भवति यद् - एतादृशं कार्यं तु बहवो जनाः सम्मील्याऽपि कर्तुं न शक्नुवन्ति, अतोऽस्य पूज्यपादस्य जीवनकथा दन्तकथैव मंस्यते । तस्मिन् काले जिनशासने बहवः समर्थाः सूरीश्वरा आसन् । तह्यपि कथं शासनसम्राडेव सङ्घमान्य आसीत् ? इति प्रश्नः सर्वेषामपि जनानां चित्ते समुद्भवति । तदा तस्य समाधानमेतदेव यत् स ज्ञानविशुद्धसंयमाद्याचारादिगुणैः सह नेतृत्वयोग्यगुणानामपि धारको दीर्घद्रष्टा निर्भयो गीतार्थो देशकालोचितनिर्णयकरणेऽपि समर्थश्चाऽऽसीत् । यथा केवलं धनेन बलेन ज्ञानेन च राजपदं प्राप्तुं न शक्यं, किन्तु समयोचितनिर्णयशक्तिः प्रजास्वैक्योत्पादनशक्तिश्चेत्यादिगुणानां धारक एव राज्यधुरं वोढुं शक्तो भवति तथैव जिनशासनधूर्वहने स एव समर्थो य उपरि वर्णितानां गुणानां धारको भवेत् । केवलं पुस्तकस्य पठनेन पाठनेन सर्जनेन च, प्रतिष्ठादिमहोत्सवकरणेन, बहुशिष्यजनानां स्वामित्वेन, कोट्यधिपतीनां भक्तानां गुरुत्वेन वा तादृशो भवितुं नाऽर्हति । अन्ते, सूरिपदशताब्द्यवसरे गुरुचरणयोरिदमेव प्रार्थनं यद् भवत्कृपया निर्गुणिनो मन्दधियश्च मे मानसे विवेकगुणः प्रादुर्भवेदिति । Jain Education International For Private & Personal Use Only शासनसम्राट् १५१ www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy