________________
कृतम्, तदा समर्पितः कोट्यधिपतिश्च श्राद्धोऽप्यवगणितः शासनरक्षार्थं पूज्येन । तथाऽपि 'मया शासनरक्षा कृता' इत्युद्धोषणा न विहिता । एतदेव पूज्यस्य जीवनस्य वैशिष्ट्यमासीत्, एतदेव च 'शासनसम्राट-तपोगच्छाधिपतिश्च' इति बिरुदं सफलीकरोत्यपि ।
पूज्यपादेन सर्वेष्वपि विषयेषु यान्यतीवोपयोगीनि कार्याणि कृतानि तानि त्वविस्मरणीयानि सन्ति । किन्तु तान्यपि यादृशे काले यादृश्यां परिस्थित्यां च कृतानि तदेव महत्त्वयुतमस्ति । अनुस्रोतःप्रवाहे तरणं त्वतीव सरलमस्ति । अनुकूलपरिस्थित्यामनुकूलवातावरणे च यत्कार्यं क्रियते तस्य न तथा महत्त्वं यथा प्रतिस्रोतःप्रवाहेऽर्थात् प्रतिकूलपरिस्थितौ कृतस्य कार्यस्य । पूज्येन यत्कार्यं कृतं तस्य महत्तां विज्ञातुमेकोनविंशशताब्द्या उत्तरा? निरीक्षणीयः । तस्मिन् काले जिनशासनस्य स्थितिश्चिन्ताजनिकाऽऽसीत् । ज्ञानविषये सुषुप्तिस्तथा तीर्थक्षेत्रेष्वराजकता प्रवर्तमानाऽऽसीत् । तादृशे काले पूज्यपादेन समाजो जागरितः, जनानां दृष्टिरुद्घाटिता, शुद्धधर्मस्य बोधो निरूपितश्च । एवं धर्मस्य यथार्थबोधस्तदैव भवति यदा सम्यज्ज्ञानं स्यादिति भानं लोकमानसे दृढीकृत्य समाजे शास्त्राणां पठनपाठनयोः परम्परा पुनरुज्जागरिता । अप्रकाशितानाम् अष्टसहस्री-सम्मतितर्केत्यादीनां बहूनामाकरग्रन्थानां प्रकाशनं कृत्वा जनेभ्यो नूना दृष्टिः प्रदत्ता । एवं ज्ञानस्य मार्गः सरलः कृतः । पूज्यपादश्रीहरिभद्रसूरीश्वराणां महोपाध्यायश्रीयशोविजयवाचकानां च कठिनग्रन्थानां पठनस्य पाठनस्य च बहुभ्यः कालेभ्यः पश्चात् प्रारम्भ एतेन पूज्येनैव कृतः । एकः प्रसङ्गोऽस्य साक्ष्यं ददाति ।
_ 'चन्देरिया' नामके कस्मिंश्चिद् ग्रामे पुरातत्त्वविदा मुनिश्रीजिनविजयेन पूज्यपादश्रीहरिभद्रसूरेः स्मृतिमन्दिरं कारितमस्ति । एकदा वन्दनार्थं श्राद्धजन एकस्तत्र गतवान् । तस्मिन् स्मृतिमन्दिरे श्रीहरिभद्रसूरेः प्रतिमायाः समीपे शासनसम्राटश्रीनेमिसूरीशस्य प्रतिकृतिर्दृष्टा तेन श्राद्धजनेन ।
- एतत् किम् ? इत्याश्चर्यं प्राप्तवता तेन श्राद्धजनेन मुनिश्रीजिनविजयः पृष्टः - "जैनसमाजे प्रतिभावन्तः समर्थाश्च नैके सूरिपुङ्गवा जाताः । तथा भवान् तु पूज्यपादश्रीविजयानन्द (आत्मारामजी)सूरेः सन्तानीयो मुनिराजोऽस्ति । तद्यपि न कस्यचिदप्यन्यस्य सूरेः, किन्त्वस्य सूरीशस्यैव प्रतिकृतिः कथं स्थापिताऽत्र ?" इति ।
मुनिराजेन कथितम् - "भोः ! पूज्यपादश्रीहरिभद्रसूरीश्वरो मे प्रियगुरुरस्ति । स सूरीशः कः, तेन के के ग्रन्था रचिताः, जिनशासनस्य कियती सेवा कृता, जैनसङ्घोपरि कियानुपकारः कृतः, तेन रचितानां ग्रन्थानां का महत्ता च? इति परिचयो वर्तमानजैनसमुदाये एतेन नेमिसूरिणा कारितः । एवं च जैनसमुदाये जैनसाहित्यप्रकाशनस्य प्रारम्भोऽपि सूरिणैतेनैव कृतः । तत्पश्चात्
१५० शासनसम्राड्-विशेष:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org