________________
मनोभावविषये च चिन्तयामि तदा तदा तं प्रति परमोऽहोभावो जागर्ति । यतो न तेन कदाऽपि शासनस्य खण्डनं विभाजनं च यथा स्यात् तथा प्रवृत्तिः कृता, किन्तु जिनशासनस्य हितार्थमैक्या) चैव प्रयत्नो विहितः । यदा शासनसम्बन्धिनोऽन्यगच्छसम्बन्धिनस्तीर्थसम्बन्धिनश्च प्रश्ना उद्भवेयुस्तदा निजस्वार्थं स्वसमुदायं स्वप्रसिद्धिं च गौणं कृत्वा केवलं जिनशासनमेव प्रधानीकृत्य समादधाति स्म स पूज्यः । शासनरक्षार्थं स्वहानिमप्यवगणयति स्म, यत स दूरदशितया चिन्तयति, यद्यद्यहं मे आग्रहं न त्यजेयं तर्हि समाजे परस्परं वैमनस्यं क्लेशः सङ्घर्षश्चोत्पद्येरन्, समाधानं च न भवेत्, अन्ततो गत्वा समाजे विभागः स्यात् । परम्परया शासनेऽराजकता मतभेदो विसंवादिता च प्रवर्तेत, इति । एवं तेन शत्रुञ्जय-गिरनार-समेतशिखर-इत्यादितीर्थेषु, सङ्केषु, गच्छे, समाजे च प्रवर्तमानानां क्लेशादीनां दूरीकरणे साफल्यमपि प्राप्तम् । तथाऽपि 'शासनस्य यत्कार्यं तदेव मे कार्य, शासनस्य शोभायामेव मे शोभा' इति मत्वा न कुत्रचिदपि कदाचिदपि च प्रसिद्धिः कृता । एवं न च प्रसिद्ध्यर्थं दम्भ-प्रपञ्चादिकस्याऽऽश्रयोऽपि कृतः ।
___ 'प्रसिद्ध्यर्थं प्रशंसार्थं च दम्भप्रपञ्चादिकमावश्यकमस्ति' इति मन्यन्ते केचिज्जनाः । सामान्यतोऽधुना ये ये लोकप्रियाः प्रसिद्धाश्च महाभागा दृश्यन्ते, तेषां सर्वासामपि प्रवृत्तीनां सूक्ष्मदृष्ट्या निरीक्षणं क्रियते तदा ज्ञायते यत् तैः कीदृशं कीदृशं मायाप्रपञ्चादिकमाचरितम् । ते बहिस्तु सरला दृश्यन्ते किन्त्वन्तस्तु मलिनवृत्तयो दुराशयाश्च भवन्ति । एष पूज्यपादो बहिरन्तरं वोभयतोऽपि सरल आसीत् । तत एव न कदाऽपि तेन प्रसिद्ध्यर्थं प्रपञ्चादिकं कृतम् । केवलं स्वकीयेन सत्त्वेन सामर्थ्येन तपसा तथा नैष्ठिकब्रह्मचर्येणैव सर्वत्र स्वकीयं प्रभुत्वं स्थापितम् ।
___ एष पूज्यपादस्तु परमनिरीह आसीत् । स न केवलं स्वसमुदाये एव अपि तु समस्तेऽपि तपोगच्छेऽन्यगच्छेषु चाऽपि मान्य आसीत् । तत्कालीनाः समर्थाः सर्वेऽपि सूरीश्वराः पूज्यस्य वचनं प्रमाणीकृत्याऽङ्गीकुर्वन्ति स्म । एवं 'आणंदजी कल्याणजी पेढी' इति संस्थायाः सर्वेऽप्यग्रण्यः श्रीमन्तश्च पूज्यस्य भक्ता आसन् । तथाऽपि तीर्थानां विभिन्नानां संस्थानां च व्यवस्था मदाज्ञानुसारमेव करणीया, इति न कथितं लिखितं च कुत्राऽपि । कुत्रचिद् नोल्लेखोऽपि प्राप्यते श्रूयते चाऽपि । भो ! वस्तुतो यो महानस्ति स न कदाऽपि महत्ता प्रस्थापयितुं प्रयतते, यश्च प्रयतते स न महान् भवति । एवं वर्तमानकाले प्रवर्तमानरीत्यनुसारं स्वमहत्त्वं स्थापयितुमन्येषां महत्ता न दूषिता चाऽपि पूज्येन ।
भोः ! किं कथयेयम् । तस्मिन् काले समाजे केचिज्जना एतादृशा आसन्, येषां हृदयं महत्त्वाकाङ्क्षा-माया-दम्भेादिविषेण बाढं लिप्तमासीत् । ये भक्ष्यार्थं श्वेव निरन्तरं प्रसिद्ध्यर्थमितस्ततोऽटन्ति स्म । ते जना अस्य पूज्यस्यैतादृशी महत्तां प्रतिष्ठां च सोढुं न शक्नुवन्ति स्म । ततस्ते जनाः प्रतिदिनं पूज्यपादं प्रति मिथ्याक्षेपान् कुर्वन्ति स्म । तथाऽपि पूज्येन कदाऽपि तान् प्रति दुर्भावलेशोऽपि न कृतः । अहो ! यदा ते एव जना सङ्कटे पतितास्तदा तेषां रक्षणं पूज्येनैतेनैव
शासनसम्राट् १४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org