________________
तदा तन्निवारण एव प्रयतनीयं न तु भयाकुलतया शोचनीयम् ।
ईदृशा दीर्घदर्शिनो विचारशीलाश्च जना विरलतयैव प्राप्यन्ते, ईदृशैश्च जनैरेव जागतिकेतिहासस्य पृष्ठानि व्याप्तानि । शासनसम्राजः पूज्याचार्याः श्रीविजयनेमिसूरीश्वरा ईदृशा एव निर्भीका दीर्घदृष्टियुताश्च महापुरुषा आसन् । द्वावप्येतौ गुणौ तेषां निसर्गत एवाऽऽस्ताम् ।
आ बाल्यादेव ते कुत्रचिदपि परिस्थिती निर्भयतयैवाऽवर्तन्त दीर्घदर्शित्वाच्च परिसरलक्षणानि निरीक्ष्यैव भावि वृत्तमनुमातुं ज्ञातुं च क्षमा आसन् । (अत एव व्यावहारिकशिक्षणप्राप्त्यनन्तरं तरुणेऽपि वयसि तैर्वाणिज्यमपि तदेव कृतं यस्मिन् निर्भयता दीर्घदर्शिताऽनुमाशक्तिश्चैव प्राधान्येनोपयुज्यन्ते ।) ईदृशक्षमतावत्त्वात् ते यदा कदाऽपि भाविनमपायं प्रथमत एव जानन्ति स्म, स्वसमीपमागतानां च जनानां पदरवत एव ते कथं किमर्थं वाऽऽगता इत्यप्यवबुध्यन्ते स्म ।
तेषां जीवने तादृशा बहवः प्रसङ्गा घटिता यत्र तेषां दीर्घदर्शिताया निर्भीकतायाश्च फलत्वेन समाजस्य लाभो जातो नैकशोऽपायहांनमपि च सञ्जातम् । तादृशमेकं वा प्रसङ्गं पश्यामः ।
गूर्जरदेशे अहमदाबादनगरे जैनैस्तीर्थरक्षणार्थं 'श्रेष्ठिआणंदजी-कल्याणजीसंस्था' इत्यभिधा संस्था स्थापिताऽस्ति प्रायो द्विशतवर्षपूर्वम् । तस्याः संस्थायाः प्रमुखो हि अहमदाबादस्याऽऽधनगरवेष्ठि-शान्तिदासस्य वंशज एव भवितमहती नियमः. अन्ये सभ्याः प्रतिनिधयश्च समग्रदेशस्य विभिन्नप्रान्तेभ्यश्चीयन्ते । शासनसम्राजां काले प्रारम्भे श्रेष्ठिश्रीलालभाई-दलपतभाईमहोदयस्तस्याः संस्थायाः प्रामुख्यं भजति स्म । (तन्नाम्ना अहमदाबादनगरेऽद्याऽपि एल्.डी.इत्युपाह्वा बढ्यो विद्यासंस्था वरीवृत्यन्ते ।) सोऽतीव कुशलः कार्यनिपुणः प्रभावकव्यक्तित्वशाली चाऽऽसीत् । आङ्ग्लसर्वकारोऽपि तदीयकार्यदक्षतया प्रभावितः सन् तस्मै 'सरदार' इति बिरुदं दत्तपूर्वी । लालभाईश्रेष्ठिनः प्रभावस्तु वाइसरोय-पर्यन्तानां सर्वेषां ब्रिटिशसर्वकारीयाधिकारिणामुपर्यासीत् ।
___ तदात्वे भारतस्य ब्रिटिशसर्वकारस्य वाइसरोय् लोर्डकर्झन् आसीत् । स कदाचित् आबूदेलवाडातीर्थस्य दर्शनार्थं गतः । तदा तत्र तस्य गमनं ज्ञात्वा मुम्बई-अहमदाबादादिनगरेभ्यो बहवः श्रेष्ठिनोऽपि तत्र गता आसन् । किन्तु लालभाईश्रेष्ठी ह्यन्यकार्यव्यग्रत्वात् तत्र गमनार्थं सज्जो नाऽऽसीत् । एतज्ज्ञात्वा दीर्घदर्शिनः पूज्यशासनसम्राजः श्रेष्ठिनमाहूय तत्र गमनार्थं बहुशः प्रेरितवन्तः । अतः सोऽपि 'गुर्वाज्ञा प्रमाण मिति चिन्तयन् आबूपर्वतं प्राप्तः ।
इतो लॉर्डकर्झन् कलामर्मज्ञ आसीत् । आबू-देलवाडातीर्थस्थान् जिनालयान् दृष्ट्वा स आश्चर्यचकितो जातः । ईदृशी सूक्ष्मा कला तेन न कुत्राऽपि निरीक्षिताऽऽसीत् । अथ च स
शासनसम्राजां दीर्घदर्शिता निर्भीकता च | १५३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org