________________
कालग्रस्तान् जिनालयान् जीर्णीभूतान् दृष्ट्वा चिन्तितवान् यदमीषामुद्धारः कर्तव्यः । स जैनसङ्घाग्रण्यः कथितवान् यद् ‘वयम् (आङ्ग्लसर्वकारः) एतेषां जिनालयानामुद्धारं करिष्यामः । भवद्भिरेतदर्थं मह्यमनुमतिर्दातव्या ।'
एतच्छ्रुत्वा सर्वेऽपि तेऽग्रण्यः स्तब्धाः सञ्जाताः । वाइसरोय्-महोदयमेतदर्थं निषेधयितुं न कस्याऽपि सामर्थ्यमासीत् । तावता लालभाई-श्रेष्ठिना नम्रतया कथितं- 'महोदय ! वयं जैना एवैतेषां जीर्णोद्धारं कारयिष्यामः ।'
__ लॉर्डकर्झन् उक्तवान् - 'जिनालयानां जीर्णोद्धारार्थं पुष्कलं धनमावश्यकम् । तच्च भवन्तो व्ययितुं न शक्ताः । अतो वयमेव तद् व्ययं करिष्यामः, निपुणैरभियन्तृभिः कुशलशिल्पिभिश्च जीर्णोद्धारं कारयिष्यामः ।'
तदा प्रत्युत्पन्नमतिना लालभाई-श्रेष्ठिना सगौरवं प्रत्युत्तरितं - 'महाभाग ! समग्रे भारतदेशे विंशतिर्लक्षं जैनाः सन्ति । यद्यहं तीर्थोद्धारार्थं तान् याचेय तदा ते सर्वेऽपि मे एकैकं वा रूप्यकमवश्यं दास्यन्ति । एवं स्थिते विंशतिर्लक्षं रूप्यकाणां तु सहजं प्राप्स्यते । तेन धनेन वयमेवाऽस्य तीर्थस्योद्धारं कारयिष्यामः । तथा यैः शिल्पिभिरेते जिनालया निर्मितास्तेषां वंशजाः शिल्पकलाकुशलाः शिल्पिनोऽद्याऽपि विद्यन्ते । तैरेव वयं जीर्णोद्धारं कारयिष्यामः । अतो भवद्भिः कष्टं न ग्राह्यम् ।'
एतन्निशम्य सस्मितं लॉर्डकर्झन् अवदत् - 'लालभाई ! भारतस्यैकतृतीयांशं वाणिज्यं जैनानां हस्तगतमित्यहं जानाम्येव' (अतो भवन्त एतज्जीर्णोद्धारं कर्तुं समर्था एव ।) ।
एतत्संवादं श्रुत्वाऽऽश्वस्ता अन्ये जैनाग्रण्यो विचिन्तितवन्तो यद् - 'यदि दीर्घद्रष्टुभिः शासनसम्राभिर्विजयनेमिसूरिभिराग्रहं कृत्वा लालभाईश्रेष्ठ्यत्र प्रेषितो नाऽभविष्यत् तदाऽद्य तीर्थमिदं जिनालयाश्चैतेऽस्मद्धस्तच्युता अभविष्यन्, समग्रो जैनसङ्घश्चाऽस्मान् निन्दन्नभविष्यदद्य । किन्तु पूज्यगुरुवर्याणां दीर्घदर्शितया लालभाईश्रेष्ठिनश्च दक्षतया रक्षिता वयमपयशसः।'
एतस्मात् प्रसङ्गाद् ज्ञायते यत् पूज्याः शासनसम्राजः कियद्दूरपर्यन्तं द्रष्टुं विचारयितुं च शक्ता आसन्, अनेन गुणेन च तैः कथङ्कारं समाजरक्षणं तीर्थरक्षणं च कृतम् ।
अधुना तेषां निर्भीकतागुणं प्रदर्शयन्तं प्रसङ्गमेकं पश्यामः ।
अहमदाबादनगरे तदा मुख्याधिकारी (Commisioner) प्राट-इत्याख्यः आङ्ग्लाधिकार्यासीत् । तस्य सचिवौ द्वौ वणिजावास्ताम् । तत्पार्खादन्यदा तेनाऽधिकारिणा ज्ञातं यज्जैनेषु विजयनेमिसूरीश्वरेत्याख्या धर्माचार्यास्तेजस्विनो विद्वांसश्च सन्तीति । अतः स तान् मेलितुं निर्णीतवान् । तस्येमं निर्णयं ज्ञात्वैकतम: सचिवो गुरुवर्याणां पार्वे आगत्य प्रार्थितवान्
१५४ शासनसम्राड्-विशेषः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org