SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ यत् - 'आङ्ग्लो मुख्याधिकारी भवद्दर्शनार्थमागन्ता । स आसन्द एवोपवेक्ष्यत्यतो भवद्भिरपि भूमौ नोपवेष्टव्यमिति । तदा गुरुभिरुक्तं - 'भो ! अहं तु सदाऽपि भूमावेवोपविशामि । मत्पार्श्वेऽपि च ये केचिदागच्छन्ति तेऽपि सर्वे भूमावेवोपविशन्ति । तथा च कस्यचिदधिकारिणः कृतेऽहं ममाऽऽचारान् नैव त्यक्ष्यामि । एवं सति यदि तस्याऽऽगमनेच्छा स्यात् तर्त्यागच्छेत् सः, अन्यथा ने 'ति । एतज्ज्ञात्वा प्रभावितेन तेनाऽऽङ्ग्लाधिकारिणा सा मर्यादा स्वीकृता । स नियि गुरुभिराश्रिते धर्मस्थाने आगतः । अन्तः प्रविशता तेन स्वीयं शिरस्त्रं (Hat) तु निष्कासितं, किन्तु पादत्रे नैवाऽपसारिते । एतद् दृष्ट्वा गुरुभिरग्रण्ये जैन श्रावकाय ते अपसारयितुमादिष्टम् । तदा तेनाऽधिकारिणा प्रतिकृतं यत्- 'यदि सपादत्र एवाऽहमन्तरागच्छेयं तदा का विप्रतिपत्तिर्भवताम् ?' गुरुभिरुक्तं - 'यस्य यस्य धर्मस्थानस्य यो यो नियमः स स तत्र गच्छता सर्वेणाऽपि पालनीयः । यथा भवतां देवालयं (Church) योऽपि प्रविशति स तन्नियमानुसारं शिरस्त्रं (Hat) निष्कासयत्येव । एवमकुर्वाणं तु किं भवांस्तत्स्थानान्त: प्रवेशयेद् वा ?' अधिकारिणोक्तं - ‘सत्यं, किन्त्वहं कदाचित् सशिरस्त्रमपि जनं देवालये प्रवेष्टुमनुमन्येय ।' गुरुभिः कथितं - 'तदपि सत्यं, किन्तु यः सभ्यो मनुष्यः स्यात् स तु तत्तद्धर्मस्थानस्य मर्यादां पालयेदेव ।' तदा सस्मितं ‘भवतां कथनं सत्यमेवे 'ति वदन् सोऽधिकारी पादत्रे अपसार्यैवाऽन्तः प्रविष्टः । एतेन प्रसङ्गेन ज्ञायते सूरिसम्राजां निर्भीकता । यः कोऽपि प्रसङ्गो भवेत् कीदृशोऽपि जन आगच्छेत् ते कदाऽपि भयं वृथाऽहोभावं वा नैवाऽनुभूतवन्तः । सहैवौचित्यं सद्व्यवहारं चाऽपि नैव त्यक्तवन्तः । ( वयं तु स्वातन्त्र्योत्तरं वर्षषष्ट्यनन्तरमपि श्वेतवर्णं दृष्ट्वाऽहोभावं स्वस्मिश्च हीनभावमनुभवामस्तदत्र चिन्त्यम् ।) एवं च गुरुवर्याणां जीवनेऽगणितास्तादृशाः प्रसङ्गा घटिता येषु तेषां दीर्घदर्शिताया निर्भीकतायाश्च कारणत्वात् समाजस्य धर्मशासनस्य च पुष्कलो लाभः सञ्जातो नैकाश्च विपत्तयो निवारिताः । अस्माकं जीवनेऽपि तादृशा गुणा: प्रकटीभवेयुरित्याशया विरमामः । Jain Education International शासनसम्राजां दीर्घदर्शिता निर्भीकता च १५५ www.jainelibrary.org For Private & Personal Use Only
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy