SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कुलगौरवम् मुनित्रैलोक्यमण्डनविजयः I वाक्यमिदं समस्ति आर्यभद्रबाहुविरचिते श्रीकल्पसूत्राख्ये आगमग्रन्थे प्रभुमहावीर - प्रव्रज्याग्रहणवर्णनाधिकारे प्रविव्रजिषुं प्रभुं प्रति धात्र्योक्तेषु हितशिक्षावचनेषु । अल्पाक्षराऽपीयं हितशिक्षा प्रविव्रजिषुभिर्मुमुक्षुभिर्नितान्तं मननीयाऽस्ति । तत्राऽपीदं वाक्यं स्वकीयमनन्यं महत्त्वं दधाति । यतोऽनेनैकेनैव वाक्येन सा जिनधात्री स्मारितवत्यस्ति ऋषभादितीर्थकृतां भरतादिराजराजेश्वराणां च तत्पूर्वजानां यशउज्ज्वलपरम्पराम्; उज्जागरितवत्यस्ति-कुलावतंसस्याऽऽभिजात्यसम्पन्नानां नीतीनां स्मृतिः; साक्षात्कारितवत्यस्ति चेक्ष्वाकुकुलगौरवम् । तद्गौरवमिदं यद्इक्ष्वाकुकुलीनोऽङ्गीकृतं कार्यं सकलसामर्थ्येन निर्वहेत्, गृहीतां प्रतिज्ञां स प्राणान्तेऽपि परिपालयेत्, स्वलक्ष्यं प्रत्यविचलां निष्ठां स धारयेद्, न च सङ्ग्रामे पश्चाद्गमनं मनसि चिन्तयेदपि । सङ्क्षेपेणैतदेव सा प्रोक्तवत्यस्ति यद् वर्धमानेन न जातु विस्मर्तव्यमिक्ष्वाकुकुलस्य कुलश्रेष्ठत्वं स्वदेहे प्रवहतो रक्तस्य च तत्कुलीनत्वम् । 11 इक्खागकुलसमुप्पन्नेऽसि णं तुमं ज. (ऐक्ष्वाककुलसमुत्पन्नोऽसि नूनं त्वं जात !) परमियं पुरातनी स्थितिः । अधुना कि केवलं कुलस्मृत्याऽऽत्मभानं सम्भवेत् ? आम्, अवश्यम् । श्रीविजयनेमिसूरिसमुदायस्थश्रमणानां (महतः पूर्वाचार्यस्य नाम्ना तत्सन्ततिसमुदायः परिचीयते इति जैनशासनव्यवस्था) कर्त्तव्यभानार्थं श्रीविजयनेमिसूरिवंशजत्वस्मरणं पर्याप्तम् । यतः केवलमनेनैव तस्याऽन्तर्जागर्ति सामुदायिकीनां शालीनतापूर्णरीतीनां स्मृति:; तत्सम्मुखं प्रत्यक्षीभवति स्वसमुदायस्य गौरवान्वितपरम्परा । सा परम्परा - यया जैनशासनाय नैके ज्ञानवन्तश्चारित्रमूर्त्तयः यस्तपस्विनः प्रभावकाश्च श्रमणाः प्रदत्ताः, यया जैनशासनस्य सर्वेषु क्षेत्रेषु महत्त्वपूर्णं योगदानं विहितम्, यस्यामुदात्तविचारसरणे: प्राधान्यमस्ति, या सर्वदा पराक्रमणे कवचीभूताऽन्तर्विक्षुब्धौ च मध्यस्थीभूता, या परम्परा च निखिलैजैनै: स्वयंस्फूर्त्या मूर्धन्यीकृताऽस्ति । उत्सहेऽहं तत्परम्परासत्कानां कतिपयानां पुण्यश्लोकानां श्रमणप्रवराणां ज्ञानसाधनायाः प्रकाशनार्थम् । मन्मानसे परमगुरूणां यावान् प्रभावोऽस्ति, ततोऽप्यधिकोऽस्ति तद्वंशजानां पूज्यानाम्। कारणं त्वेतदेव यद् महतः पृष्ठे जायमानः शून्यावकाशो जनसमाजेन सोढुमशक्यो शासनसम्राड्-विशेष: १५६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy