SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ भवति, परं श्रीविजयनेमिसूरिशिष्यैः तच्छून्यावकाशः सदैव निरुद्धः । प्रायो द्विशतवर्षीयान्धकारयुगानन्तरं परमगुरुभि नशासने यद् ज्ञानज्योतिः पुनः प्रज्वालितं तस्याऽद्यपर्यन्तं संरक्षणमुद्दीपनं चैतैः कृतम् । कष्टेन विश्वसितुं शक्याऽपि नितान्तं सत्या सा ज्ञानसाधनाऽत्र प्रस्तूयते । इदमत्राऽवधेयम् – प्रत्येकं प्रतिभासम्पन्नो मुनिवरोऽधिकाधिकज्ञानशाखानां परिचयवान् स्यात्, अतिप्रचलितशाखासु तु सर्वासु यथाशक्ति प्रावीण्यं दध्याच्चेति जैनशासनेऽपेक्ष्यते । वस्तुतो जैनशास्त्रेषु सर्वतत्त्वधारासत्कविचारपरिशीलनाद्, जैनशास्त्रकाराणामनेकशास्त्रप्रावीण्यात् स्वयं जैनदर्शनस्याऽतिविशालत्वाच्चैकस्याऽपि जैनसिद्धान्ताकरग्रन्थस्य पठनार्थमनेकशास्त्राणां ज्ञानमावश्यकं भवति । फलतः सामान्योऽपि कश्चिज्जैनदर्शनवेत्ता पञ्चषाणां शाखानामधिकारी स्यात्तर्हि नाऽऽश्चर्यम् । अत एवाऽत्र तेषां तेषां महाज्ञानिनां तत्तच्छाखासु वैशारद्यमेव वर्ण्यते न पुनः सर्वशाखाभ्यासवार्ता । यतः श्रीविजयनेमिसूरिभगवन्तः स्वशिष्यान् प्रथमं तावत्श्रीसिद्धहेमशब्दानुशासनं, प्राकृतव्याकरणं, अमरकोशः, महाकाव्यादिसंस्कृतसाहित्यं, श्रमणचर्यावैराग्यादिविषयकप्रकरणानि, जैनन्याय-जैनदर्शनविषयकग्रन्थाः, कर्मशास्त्रसूत्राणि, सिद्धान्तलक्षणप्रभृतिनव्यन्यायं, तर्कसङ्ग्रहमुक्तावली-साङ्ख्यतत्त्वकौमुदी-पातञ्जलयोगसूत्रअर्थसङ्ग्रहवेदान्तपरिभाषादिसर्वदर्शनप्राथमिकग्रन्था इत्यादि पाठयन्ति स्मैव । एतावदधिगत्याऽभिलषितशाखास्वधिकपरिश्रमः क्रियते स्म । अस्तु, प्रकृतं प्रस्तुमः । परमगुरूणां शिष्यप्रशिष्यादयस्तेषां जीवितावधौ एव सपादशताधिका आसन् । तेषामध्ययनार्थं काशीपण्डिता मैथिलपण्डिताश्च सहैव वसन्ति स्म । स्वयं सर्वतन्त्रस्वतन्त्राः परमगुरवोऽपि ताननुदिनं पाठयन्ति स्म । एकैकः श्रमणः प्रतिदिनं दशतो द्वादश घण्टाः स्वाध्याये निर्गमयेदिति तेषामाग्रहस्तदर्थं च स्वयमेवाऽवधानं दधति स्म । शास्त्रनैपुण्यम्, उत्कृष्टाऽध्यापनशैली, हितबुद्धिपूर्णा कठोरता, अपूर्वा प्रज्ञाप्रेरणशक्तिः, पाठने उत्साहः-इत्यादीनां समेषामध्यापकोचितगुणानां तेषु सुभगः समन्वय आसीत् । अथ शिष्यप्रशिष्या अपि बुद्धिमन्तः परिश्रमवन्तश्चाऽऽसन । फलतो जैनशासनेन बहवो विद्वत्तल्लजा लब्धाः । तथाहि श्रीविजयदर्शनसूरयः-एते प्राचीनन्याये पारदृश्वान आसन् । दार्शनिकाचार्येषु त्वेतेऽद्वितीयाः। सम्मतितर्कमहार्णवावतारिका, खण्डनखण्डखाद्यटीका, तत्त्वार्थविवरणगूढार्थदीपिका, स्याद्वादबिन्दुः, पर्युषणाकल्पलता-इत्यादीन् विद्वत्ताप्रचुरान् ग्रन्थान् विरचय्यैते प्राचीनन्यायाध्ययनपरम्पराया मूलाधारं पुनः स्थापितवन्तः । श्रीविजयोदयसूरयः-गीतार्थत्वस्य पर्यायवाचिशब्दोऽस्त्येषां नाम । कस्मिन्शास्त्रे एतेषामधिकारो नाऽऽसीदित्येव प्रश्नः । परमगुरूणां पुण्यनिश्रायामेतैः श्रीसिद्धसेनादिवाकर कुलगौरवम् | १५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy