SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ जीवदयाज्योतिर्धरः आचार्यपदप्राप्त्यनन्तरं प्रथमा चतुर्मासी पूज्येन भावनगर एव यापिता । जीवदया हि पूज्यस्य प्राणभूताऽऽसीत् । कमपि दुःखिनं दृष्ट्वा पूज्यस्य हृदयमनुकम्पया द्रवीभवति स्म । चतुर्मास्यनन्तरं महुवानगरसमीपवर्तिनि नैपग्रामे गतवान् । तत्रत्यो नरोत्तमभाईनामको वैष्णवजनः पूज्योपदेशात् श्राद्धधर्ममङ्गीकृतवानासीत् ।। ___ तत्र च समुद्रोपकण्ठप्रदेशे मत्स्यानां हिंसा विपुलतया जायमानाऽऽसीत् । तज्ज्ञात्वा दृष्ट्वा च पूज्यस्य हृदयं करुणार्द्र जातम् । अतस्तत्प्रदेशे विहां पूज्यो मतिं कृतवान् । तत्र वास्तव्या जना अज्ञानिनः सन्तोऽपि भद्राशया आसन् । दूरादेव साधुपुरुषं कञ्चिदागच्छन्तं दृष्ट्वा - 'देवतुल्यः कश्चित् साधुपुरुषोऽत्राऽऽयाति' इति कृत्वा सर्वेऽपि तदर्शनार्थं मत्स्यजालान् मुक्त्वा सम्मीलिता जाताः । पूज्योऽपि तेषां पुरतः सरलया भाषया जीवदयाया माहात्म्यं लाभं च वर्णितवान् । जीवहिंसायाश्च जायमानान्यनिष्टान्यपि वर्णितानि । सर्वेभ्योऽपि पूज्यस्य वचनानि रुचितानि । तदैव च 'न कदाऽपि धीवरकर्म करिष्यामः' इति प्रतिज्ञातवन्तः सर्वेऽपि । नैतावदेव किन्तु स्वकीयजालानपि सहाऽऽगताय श्रीनरोत्तमहोदयायाऽर्पितवन्तः ।। ___ ततश्च कंठाल-वालाक-ऊंडप्रदेशीयेषु वालर-तल्ली-झांझमेरादिग्रामेषु विहत्य बहुशतसङ्ख्याकान् धीवरान् प्रतिबोध्य जीवहिंसाया विरतान् कृतवान् । नरोत्तममहोदयोऽपि सर्वानपि जालानेकत्र कृत्वा दाठाग्रामस्य चतुष्पथेऽग्निसात् कृतवान् । चित्रमयो विजयनेमिसूरिः ११५ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521020
Book TitleNandanvan Kalpataru 2008 00 SrNo 20
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2008
Total Pages202
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy